| YouTube Channel

पात्त्रं (pAttraM)

 
शब्दकल्पद्रुमः
Sanskrit
पात्त्रं,
क्ली,
(पततीति पत + क्विप् पतं अधः-पतन्तं जनं त्रायते त्रै + कः ततः स्वार्थे प्रज्ञा-द्यण् निम्नेऽस्य निरुक्तिश्च दर्शनीया ।) पापि-त्राता यथा, भविष्यपुराणे ।“सर्व्वषामेव पात्त्राणां परं पात्त्रं महेश्वरः ।पतन्तं त्रायते यस्मादतीवनरकार्णवात्
”महेश्वर इति प्रदर्शकं हेतोरविशेषात् ।तथा नन्दिपुराणम् ।“पात्त्राण्याध्यात्मिका मुख्या विशुद्धाश्चाग्निहो-त्रिणः ।देवताश्च तथा मुख्या गोदानं ह्येतदुत्तमम्
”इति प्रायश्चित्ततत्त्वम्