| YouTube Channel

पाण्डुः (pANDuH)

 
Apte Hindi
Hindi
पाण्डुः
पुं*
- "पण्ड् + कु, नि* दीर्घः"
"पीत-धवल, या पीताभ श्वेत रंग"
पाण्डुः
पुं*
- "पण्ड् + कु, नि* दीर्घः"
"पीलिया, यरकान"
पाण्डुः
पुं*
- "पण्ड् + कु, नि* दीर्घः"
सफ़ेद हाथी
पाण्डुः
पुं*
- "पण्ड् + कु, नि* दीर्घः"
पांडवों के पिता का नाम
Wordnet
Sanskrit
Synonyms:
श्वेतगजः, श्वेतकुञ्जरः, पाण्डुः, पाण्डुनागः
noun
श्वेतवर्णीयः गजः।
"जन्तुशालायां वयं श्वेतगजम् अपश्याम।"
Synonyms:
हरिणः, पाण्डुरः, पाण्डुः
noun
पीतसंवलितशुक्लवर्णः।
"अस्य चित्रस्य पृष्टभागस्य वर्णः पाण्डुः जातः।"
Synonyms:
पाण्डुः
noun
प्राचीनकालीनः राजा।
"पाण्डोः पुत्राः पाण्डवः इति ख्यातः।"
Synonyms:
पाण्डुः, पाण्डुरोगः, पाण्डुरः, कामला, कुम्भकामला, हलीमकम्, नागभेदः, श्वेतहस्ती, सितवर्णः
noun
व्याधिविशेषः यस्मिन् रक्ते पित्तवर्णकस्य आधिक्यात् त्वङ्नेत्रादयः पीताः भवन्ति।
"पाण्डुरोगो गरिष्ठोपि भवेद्धातुक्षयङ्करः।"
शब्दकल्पद्रुमः
Sanskrit
पाण्डुः,
पुं,
(पडि गतौ + “मृगय्वादयश्च ।” उणां ।१ ३८ इति कुप्रत्ययः निपातनात् धातो-र्द्दीर्घश्च ।) पाण्डुरफलीक्षुपः पटोलः इतिराजनिर्घण्टः
शुक्लपीतमिश्रितवर्णः तत्-पर्य्यायः हरिणः पाण्डुरः इत्यमरः
पाण्डरः इति हड्डः
“सितपीतसमायुक्तः पाण्डुवर्णः प्रकीर्त्तितः
”इति सुभूतिः
भेदोऽपि दृश्यते यथा, --“पाण्डुरस्तु रक्तपीतभागी प्रत्यूषचन्द्रवत् ।पाण्डुस्तु पीतभागार्द्धः केतकीधूलिसन्निभः
”इति भरतः
तद्वति, त्रि इत्यमरः
(यथा रघुः ।“शरीरसादादसमग्रभूषणामुखेन सालक्ष्यत लोध्रपाण्डुना
”नृपतिविशेषः तु शन्तनुपुत्त्रविचित्रवीर्य्यस्यक्षेत्रे व्यासाज्जातः (यथा, महाभारते ।१ ११८ ।“राजा पाण्डुर्महारण्ये मृगव्यालनिषेविते ।चरन् मैथुनधर्म्मस्थं ददर्श मृगयूथपम्
”अस्य देहपाण्डुताकारणं नामनिरुक्त्यादिकंच यथा, महाभारते १०६ १५-१८ ।“अम्बालिकामथाभ्यागादृषिं दृष्ट्वा सापि तम् ।विषण्णा पाण्डुसङ्काशा समपद्यत भारत ! ।तां भीतां पाण्डुसङ्काशां विषण्णां प्रेक्ष्य भारत !
व्यासः सत्यवतीपुत्त्र इदं वचनमब्रवीत् ।यस्मात् पाण्डुत्वमापन्ना विरूपं प्रेक्ष्य मामिह
अस्मादेष सुतस्ते वै पाण्डुरेव भविष्यति ।नाम चास्यैतदेवेह भविष्यति शुभानने !
”)नागभेदः श्वेतहस्ती सितवर्णः रोगविशेषः इति शब्दरत्नावली
*
पाण्डुरोगनिदानम् यथा, --“पाण्डुरोगाः स्मृताः पञ्च वातपित्तकफैस्त्रयः ।चतुर्थः सन्निपातेन पञ्चमो भक्षणान्मृदः
व्यायाममम्लं लवणानि मद्यंमृदं दिवास्वप्नमतीवतीक्ष्णम् ।निषेवमाणस्य समेत्य रक्तंदोषास्त्वचं पाण्डरतां नयन्ति
*
तस्य पूर्व्वरूपाणि यथा, --त्वक्स्फोटनष्ठीवनगात्रसाद-मृद्भक्षणप्रेक्षणकूटशोथाः ।विण्मूत्रपीतत्वमथाविपाकोभविष्यतस्तस्य पुरःसराणि
*
वातिकस्य तस्य लक्षणं यथा, --त्वङ्मूत्रनयनादीनां रूक्षकृष्णारुणाभताः ।वातपाण्ड्वामये कम्पतोदानाहभ्रमादयः
*
पैत्तिकस्य लक्षणं यथा, --पीतमूत्रशकृन्नेत्रो दाहतृष्णाज्वरान्वितः ।भिन्नविट्कोऽतिपीताभः पित्तपाण्ड्वामयी नरः
श्लैष्मिकस्य लक्षणं यथा, --कफप्रसेकश्वयथुतन्द्रालस्यातिगौरवैः ।पाण्डुरोगी कफाच्छुक्लैस्त्वङ्मूत्रनयनाननैः
*
त्रिदोषजस्य लक्षणं यथा, --ज्वरारोचकहृल्लासच्छर्द्दितृष्णाक्लमान्वितः ।पाण्डुरोगी त्रिभिर्द्दोषैस्त्याज्यः क्षीणो हतेन्द्रियः
मृज्जस्य संप्राप्तिर्यथा, --मृत्तिकादनशीलस्य कुप्यत्यन्यतमो मलः ।कषाया मारुतं पित्तमूषरा मधुरा कफम्
कोपयेन्मृद्रसादींश्च रौक्ष्याद्भुक्तञ्च रूक्षयेत् ।पूरयत्यविपक्वैव स्रोतांसि विरुणद्ध्यपि
इन्द्रियाणां बलं हत्वा तेजो वीर्य्यौजसी तथा ।पाण्डुरोगं करोत्याशु बलवर्णाग्निनाशनम्
*
मृत्तिकाभक्षणजन्यपाण्डुलक्षणं यथा, --मृद्भक्षणाद्भवेत् पाण्डुस्तन्द्रालस्यनिपीडितःसकासश्वासशूलार्शःसदारुचिसमन्वितः
शूनाक्षिकूटगण्डभ्रूः शूनपान्नाभिमेहनः ।कृमिकोष्ठोऽतिसार्य्येत मलं सासृक्कफान्वितम्
तस्य असाध्यलक्षणं यथा, --ज्वरारोचकहृल्लासच्छर्द्दितृष्णाक्लमान्वितः ।पाण्डुरोगी त्रिभिर्दोषैस्त्याज्यः क्षीणो हतेन्द्रियः
पाण्डुरोगश्चिरोत्पन्नः खरीभूतो सिध्यति ।कालप्रकर्षाच्छूनानां यो वा पीतानि पश्यति
बद्धाल्पविट् सहंरितं सकफं योऽतिसार्य्यते ।दीनः श्वेतातिदिग्धाङ्गश्छर्द्दिमूर्च्छातृषान्वितः
नास्त्यसृक्क्षयाद्यश्च पाण्डुः श्वेतत्वमाप्नुयात्
पाण्डुदन्तनखो यस्तु पाण्डुनेत्रश्च यो भवेत् ।पाण्डुसंघातदर्शी पाण्डुरोगी विनश्यति
अन्तेषु शूनं परिहीणमध्यंम्लानं तथान्तेषु मध्यशूनम् ।गुदे शेफस्यथ मुष्कयोश्चशूनं प्रताम्यन्तमसंज्ञकल्पम्
विवर्ज्जयेत् पाण्डुकिनं यशोऽर्थीतथातिसारज्वरपीडितञ्च
”इति माधवकरः
(यथा च, --“पित्तप्रधानाः कुपिता यथोक्तैः कोपनैर्मलाः ।तत्रानिलेन बलिना क्षिप्तं पित्तं हृदि स्थितम्
धमनीर्दश सम्प्राप्य व्याप्नुवत् सकलां तनुम् ।श्लेष्मत्वग्रक्तमांसानि प्रदूष्यान्तरमाश्रितम्
त्वङ्मांसयोस्तत् कुरुते त्वचि वर्णान् पृथग्-विधान् ।पाण्डुहारिद्रहरितान् पाण्डुत्वं तेषु चाधिकम्
यतोऽतः पाण्डुरित्युक्तः रोगस्तेन गौरवम्
धातूनां स्याच्च शैथिल्यमोजसश्च गुणक्षयः
ततोऽल्परक्तमेदस्को निःसारः स्यात् श्लथेन्द्रियः ।मृद्यमानैरिवाङ्गैर्ना द्रवता हृदये
शूनाक्षिकूटसदनः कोपनः ष्ठीवनोऽल्पवाक् ।अन्नद्विट् शिशिरद्वेषी शीर्णरोमा हतानलः
सन्नसक्थी ज्वरी श्वासी कर्णक्ष्वेडी भ्रमी श्रमी ।स पञ्चधा पृथग्दोषैः समस्तैर्मृत्तिकादनात्
प्राग्रूपमस्य हृदयस्पन्दनं रूक्षता त्वचि ।अरुचिः पीतमूत्रत्वं स्वेदाभावोऽल्पवह्निता
सादः श्रमोऽनिलात्तत्र गात्ररुक्तोदकम्पनम् ।कृष्णरुक्षारुणसिरानखविण्मूत्रनेत्रता
शोफानाहास्यवैरस्यविट्शोषाः पार्श्वमूर्द्धरुक् ।पित्ताद्धरितपीताभसिरादित्वं ज्वरस्तमः
तृट्स्वेदमूर्च्छाशीतेच्छादौर्गन्ध्यं कटुवक्त्रता ।वर्च्चोभेदोऽम्लको दाहः कफात् शुक्लसिरादिता
तन्द्रालवणवक्त्रत्वं रोमहर्षः स्वरक्षयः ।कासः श्छर्द्दिश्च निचयान्मिश्रलिङ्गोऽतिदुःसहः
मृत्कषायानिलं पित्तमूषरा मधुराकफम् ।दूषयित्वा रसादींश्च रौक्ष्याद्भुक्तं विरूक्ष्य
स्रोतांस्यपक्वैवापूर्य्य कुर्य्याद्रुद्ध्वा पूर्व्ववत् ।पाण्डुरोगं ततः शूननाभिपादास्यमेहनः
पुरीषं कृमिमन्मुञ्चेद्भिन्नं सासृक्कफं नरः
”इति वाभटे निदानस्थाने १३ -- १३
)तस्यौषषं यथा, --“लोहचूर्णं तक्रपीतं पाण्डुरोगहरं भवेत्
”इति गारुडे १८० अध्यायः
अपि ।“सुप्तरात्रं गवां मूत्रे भावितं चायसो रजः ।पाण्डुरोगप्रशान्त्यर्थं पयसा प्रपिबेन्नरः
गोमूत्रसिद्धं मण्डूरचूर्णं सगुडमश्नतः ।पाण्डुरोगः क्षयं याति पङ्क्तिशूलञ्च दारुणम्
२अयोमलं सुसन्तप्तं भूयो गोमूत्रसाधितम् ।मधुसर्पिर्युतं लीट्वा पाण्डुरोगी सुखी भवेत्
पुनर्नवात्रिवृद्व्योषविडङ्गं दारु चित्रकम् ।कुष्ठं हरिद्रे त्रिफला दन्ती चव्यं कलिङ्गकम्
कटुका पिप्पलीमूलं मुस्तं शृङ्गी कारवी ।यमानी कट्फलञ्चेति पृथक्पलमितं मतम्
इति भावप्रकाशः
*
(अस्य सकारणलक्षणचिकित्सादीनि यथा, --“शृणु पुत्त्र ! प्रवक्ष्यामि पाण्डुरोगं महागदम् ।पञ्चैव पाण्डुरोगास्ते सम्भवन्तीह मानुषे
वातिकः पैत्तिकश्चैव श्लैष्मिकः सान्निपातिकः ।पञ्चमो रूक्षणः प्रोक्तो वक्ष्ये चैषान्तु सम्भवम्
दीर्घाध्वना पीडितो वा ज्वरेणरक्तस्रावो पीडितो वा व्रणेन ।चिन्तायासादोधनाद्बै मनुष्येचायं पाण्डुर्जायते सेवते यः
क्षारञ्चाम्लं कल्यमैरेयसेवाअव्यायामान्मैथुनातिश्रमेण ।निद्रानाशे नातिनिद्रा दिवापियोगैश्चैतैर्मृत्तिकाभक्षणेन
अतिशिथिलशरीरे रोगसम्पीडिते वालवणकटुकषाया सेवनाम्लेन मृद्भिः ।अतिसुरतमजस्रं सेवनातिक्रमेणनयति रुधिरशोषं तेन वै पाण्डुरोगम्
तेनाक्षिकूट श्वयथुः शरीरेपाण्डुत्वमायाति सपीतमूत्रः ।निष्ठीवते त्वक् प्रविदीर्य्यते चसंजायते तस्य पुरःसराणि
तोदः परूषत्वशिरोगुरुत्वंत्वङ्मूत्रनेत्रे नखकालिमा स्यात् ।वातात्मकं तन्मनुजस्य विद्धिलिङ्गैरुपेतोऽनिलपाण्डुरोगः
आमत्वपीतत्वकरो हि लोकेबिभर्त्ति शोषं कटुकास्यता ।मन्दज्वरो वै भृशशोषमोहःपीतच्छविः पीतभवो हि पाण्डुः
तन्द्रालुताशोफकफेन युक्तःआलस्यकस्वेदगुरुत्वमेव ।संजायते तस्य कफात्मकोऽसौनरस्य पाण्डुत्वभवो विकारः
तन्द्रालस्यं श्वयथुवमथू काशहृन्नासशोषाविड्भेदः स्यात् परुषनयने सज्वरो वै क्षुधार्त्तः ।मोहस्तृष्णाक्लममथ मनुजस्याशु पश्येत् सुदूरंत्याज्यो वैद्यैर्निपुणमतिभिः सन्निपातोत्थपाण्डुः
मृत्तिकाभक्षणेनाथ शृणु पुत्त्र ! गदो महान् ।पाण्डुरोगो गरिष्ठोऽपि भवेद्धातुक्षयङ्करः
मृद्भक्षणाच्चैव मलं प्रकीर्य्यस्रोतांसि रुन्धन्ति मृत्तिकायाः ।तेनैव नासृक् परिवर्त्तयन्तिन तर्पयन्ते वपुषं रसेन
क्षारात् कषायान्मधुरस्य पानात्स कोपयत्याशु नरस्य मृत्स्ना ।श्लेष्मप्रकोपान्मधुरान् करोतिमृतस्ना जग्धा हितकारिणी स्यात्
विकृतिमुपगतास्ते मारुताद्यास्त्रयस्तुवलवदनरुचीनां नाशयन्त्याशु दोषाः ।भवति विकलमेवं पाण्डुरोगे शरीरंभवति जठरपाण्डू रोग आशुप्रवीणः
”“गोमूत्रमध्ये मतिमान् स्नापयेत् सप्तरात्रि-कम् ।तस्मात् चूर्णन्तु मधुना देयं पाण्ड्वामयापहम्
त्र्यूषणं त्रिफला मुस्ता विडङ्गं चित्रकंसमम् ।भागमेकं लौहचूर्णमिक्षुद्रावे विभावयेत्
सप्ताहमथ लोहखल्वितंपुनरपि ध्रुवं प्रवरं स्यात् ।शीलितन्तु मधुनापि घृतेनपाण्डुरोगहृदयामयापहम्
कामलार्शो हलीमकहारिकथितं सुमतिभिश्च पण्डितैः
इति लौहचूर्णवटकम्
*
त्र्युषणं त्रिफलया सह चिन्नकंमेघचव्यसुरदारुसमाक्षिकम् ।ग्रन्थिकञ्च शिखिभृङ्गराजकंयोजयेत् पलिकभागिकानिमान्
चूर्णिताद्द्विगुणमेव योजयेत्लौहचूर्णमपि कज्जलप्रभम् ।अष्टभागसममूत्रकल्पितंपाचितं पुनरभवद्वरप्रदम् ।सेवयेद्वलमुपक्रमं तथातक्रसंयुतमिहास्तिशोभनम् ।नाशयेच्च कफकामलान् क्रिमीन्पाण्डुकुष्ठगुदजान् हलीमकम्
इति मण्डुरवटकम्
*
पथ्यापथ्यान्यस्य यथा, --“गोधूमशालियवषष्टिकमुद्गकानांश्यामाढकीघृतयुतं सपयःसतक्रम् ।गाञ्जीववास्तकमथो शतपुष्पवर्त्तापथ्यं हितं निगदितं मनुजस्य पाण्डौ
शाल्यन्नमुद्गगोधूममसूराश्चाढकी यवाः ।जाङ्गलानि मांसानि भोजने प्रशस्यते
तिक्तानि रूक्षाणि कषायकाणितीव्राणि दाहीन्यपि काञ्जिकानि ।सुराम्लसौवीरकबीजपूरान्तैलानि वर्ज्ज्यानि पाण्डुरोगे
”इति हारीते चिकित्सितस्थाने नवमेऽध्याये
*
अस्य चिकित्सान्तरं यथा, --“पाण्ड्वामयी पिबेत् सर्पिरादौ कल्याणकाह्वयम् ।पञ्चगव्यं महातिक्तं शृतं वारग्वधादिना
दाडिमात् कुडवो धान्यात् कुडवार्द्धं पलं पलम् ।चित्रकात् शृङ्गवेराच्च पिप्पल्यर्द्धपलञ्च तैः
काङ्कतैर्विंशतिपलं घृतस्य सलिलाढके ।सिद्धं हृत्पाण्डुगुल्मार्शःप्लीहवातकफार्त्तिनुत् ।दीपनं श्वासकासघ्नं मूढवातानुलोमनम्
दुःखप्रसविनीनाञ्च बन्ध्यानाञ्च प्रशस्यते ।स्नेहितं वामयेत्तीक्ष्णैः पुनःस्निग्धञ्च शोधयेत् ।पयसा मूत्रयुक्तेन बहुशः केवलेन वा
दन्तीफलरसे कोष्णे काश्मर्य्याञ्जलिमासुतम् ।द्राक्षाञ्जलिं वा मृदितं तत् पिबेत् पाण्डुरोग-जित्
मूत्रेण पिष्टां पथ्यां वा तत्सिद्धं वा फलत्रयम् ।स्वर्णक्षीरी त्रिवृच्छ्यामा भद्रदारु महौषधम्
गोमूत्राञ्जलिना पिष्टं शृतं तेनैव वा पिबेत् ।साधितं क्षीरमेभिर्वा पिबेद्दोषानुलोमनम्
मूत्रे स्थितं वा सप्ताहं पयसा यो रजः पिबेत् ।जीर्णे क्षीरेण भुञ्जीत रसेन मधुरेण वा
शुद्धश्चोभयतो लिह्यात् पथ्यां मधुघृतद्रुताम् ।विशालां कटुकां मुस्तां कुष्ठं दारुकलिङ्गकः
द्वाविंशाद्विपिचुर्मूर्व्वा कर्षार्द्धांशाद्युणप्रिया ।पीत्वा तच्चूर्णमम्भोभिः सुखैर्लिह्यत्ततो मधु
पाण्डुरोगं ज्वरं दाहं कासं श्वासमरोचकम् ।गुल्मानाहामवातांश्च रक्तपित्तञ्च तज्जयेत्
वासागुडूचीत्रिफला कट्वीभूनिम्बनिम्बजः ।क्वाथः क्षौद्रयुतो हन्ति पाण्डुपित्तास्रकामलाः
”“गुडनागरमण्डू रतिलांशान्मानतः समान् ।पिप्पलीद्विगुणान् दद्यात् गुटिकां पाण्डुरोगिणे
ताप्यं दार्व्व्यास्त्वचं चव्यं ग्रन्थिकं देवदारु
व्योषादि नरकञ्चैतच्चूर्णयेद्द्विगुणं ततः ।मण्डूरञ्चाञ्जननिभं सर्व्वतोऽष्टगुणेऽथ तत्
पृथग्विपक्वे गोमूत्रे वटकीकरणक्षमे ।प्रक्षिप्य वटकान् कुर्य्यात् तान् खादेत्तक्रभोजनः
एते मण्डू रवटकाः प्राणदाः पाण्डु रोगिणाम् ।कुष्ठान्यजरकं शोफमूरुस्तम्भमरोचकम्
अर्शांसि कामलां मेहान् प्लीहानं शमयन्ति ।ताप्याद्रिजतुरौप्यायोमलाः पञ्चपलाः पृथक्
चित्रकत्रिफला व्योषविडङ्गैः पालिकैः सह ।शर्कराष्टपलीन्मिश्राश्चूर्णिता मधुना द्रुताः
पाण्डुरोगं विषं कासं यक्ष्माणं विषमं ज्वरम् ।कुष्ठान्यजरकं मेहं शोफं श्वासमरोचकम्
विशेषाद्धन्त्यपस्मारं कामलां गुदजानि ।कौटजत्रिफलानिम्बपटोलघननागरैः
भावितानि दशाहानि रसैर्द्वित्रिगुणानि वा ।शिलाजतुपलान्यष्टौ तावती सितशर्करा
त्वक्क्षीरी पिप्पली धात्री कर्कटाख्याः पलो-न्मिताः ।निर्दग्धाः फलमूलाभ्यां पलं युक्त्या त्रिजातकम्
मधुत्रिपलसंयुक्तं कुर्य्यादक्षसमान् गुडान् ।दाडिमाम्बुपयःपक्षिरसतोयसुरासवान्
तान् भक्षयित्वानुपिबेन्निरन्नो भुक्त एव वा ।पाण्डुकुष्ठज्वरप्लीहतमकार्शो भगन्दरम्
हृण्मूत्रपूतीशुक्राग्निदोषशोषगरोदरम् ।कासासृग्दरपित्तासृक् शोफगुल्मगलामयान्
मेहवर्ध्मभ्रमान् हन्युः सर्व्वदोषहराः शिराः
”इति वाभठे चिकित्सास्थाने षोडशेऽध्याये
*
“व्यवायमम्लं लवणानि मद्यंमृदं दिवास्वप्नमतीवतीक्ष्णम् ।निषेवंमानस्य प्रदूष्य रक्तंकुर्व्वन्ति दोषास्त्वचि पाण्डुभावम्
पाण्ड्वामयोऽष्टार्द्धविधः प्रदिष्टःपृथक्समस्तैर्युगपच्च दोषैः ।सर्व्वेषु चैवैष्विह पाण्डु भावोयतोऽधिकोऽतः खलु पाण्डु रोगः
”“कृष्णेक्षणं कृष्णसिरावनद्धंतद्वर्णविण्मूत्रनखाननञ्च ।वातेन पाण्डु मनुजं व्यवस्ये-द्युक्तं तथान्यैस्तदुपद्रवैश्च
पीतेक्षणं पीतसिरावनद्धंतद्वर्णविण्मूत्र नखाननञ्च ।पित्तेन पाण्डुं मनुजं व्यवस्येद्-युक्तं तथान्यैस्तदुपद्रवैश्च
शुक्लेक्षणं शुक्लसिरावनद्धंतद्वर्णविण्मूत्रनखाननञ्च ।कफेन पाण्डुंमनुजं व्यवस्येद्युक्तं तथान्यैस्तदुपद्रवैश्च
सर्व्वात्मके सर्व्वमिदं व्यवस्येद्वक्ष्यामि लिङ्गान्यथ कामलायाः
”चिकित्सान्तरं यथा, --“साध्यन्तु पाण्ड्वामयिनं समीक्ष्यस्निग्धं घृतेनोर्द्धमधश्च शुद्धम्
सम्पादयेत् क्षौद्रघृतप्रगाढैर्हरीतकीचूर्णयुतैः प्रयोगैः ।पिबेद्घृतं वा रजनीविपक्वंयत्त्रैफलं तैल्वकमेव वापि
विरेचनद्रव्यकृतं पिबेद्धियोगांश्च वैरेचनिकान् घृतेन
”“उभे बृहत्यौ रजनीं शुकाख्यांशुकादनीञ्चापि सकाकमाचीम् ।आदारिविम्बीं सकदम्बपुष्पींविपाच्य सर्पिर्व्विपचेत् कषाये
तत् पाण्डुतां हन्त्युपयुज्यमानंक्षीरेण वा मार्गधिकां यथाग्निः ।हितञ्च यष्टीमधुकं कषायंचूर्णं समं वा मधुनावलिह्यात्
गोमूत्रयुक्तं त्रिफलादनानांदत्त्वायसश्चूर्णमनल्पकालम् ।प्रवालमुक्ताञ्जनशङ्खचूर्णंलिह्यात्तथा काञ्चनगैरिकोत्थम्
आजं शकृद्वा कुडवप्रमाणंविडं हरिद्रा लवणोत्तमञ्च ।पृथक् पलांशानि समग्रमेत-च्चूर्णं हिताशी मधुनावलिह्यात्
मण्डूरलोहाग्निविडङ्गपथ्याव्योषांशकः सर्व्वसमानताप्यः ।मूत्रासुतोऽयं मधुनावलेहःपाण्ड्वामयं हन्त्यचिरेण घोरम्
”इत्युत्तरतन्त्रे चतुश्चत्वारिंशत्तमेऽध्याये सुश्रुते-नोक्तम्
*
चिकित्सार्थमस्य वटिकौषधं यथा, “लौहचूर्णं निशायुग्मं त्रिफला कटुरोहिणी ।प्रलिह्यान्मधुसर्पिर्भ्यां कामला पाण्डुरोगनुत्
”इति निशालौहम्
“शुद्धसूतं तथा गन्धं मृतहेमाभ्रगुग्गुलु ।जैपालबीजं तुल्यञ्च घृतेन गुडकीकृतम्
भक्षयेद्बदराभान्ताच्छोथपाण्डु प्रशान्तये ।पञ्चाननवटी ख्याता अनुपानञ्च पूर्व्ववत्
”इति पञ्चाननवटी
“पलं सूतं पलं गन्धं वह्निपथ्या पलं पलम् ।मुस्तैलापत्रकानाञ्च प्रतिसार्द्धपलं क्षिपेत्
त्र्यूषणं पिप्पलीमूलं विषञ्चापि पलं पलम् ।नागकेशरतः कर्षमेरण्डस्य पलन्तथा
पुरातनगुडेनैव तुल्येनैव विमिश्रयेत् ।मर्द्दयेत् कनकद्रावैरेककं वा घृतान्वितम्
गुडेन वदराण्डाभान् कारयेद्भक्षयेन्निशि ।पाण्डु रोगहरः सोऽयं रसः कामेश्वरः स्वयम्
”इति कामेश्वरो रसः
इति वैद्यकरसेन्द्रसारसंग्रहे पाण्डुरोगाधि-कारे
*
*
)
पाण्डुः,
स्त्री,
(पडि + कुः निपातनात् दीर्घत्वम् ।)माषपर्णी इति शब्दचन्द्रिका
माषाणीइति भाषा
पाण्डुवर्णस्त्री इति मुग्धबोध-व्याकरणम्