| YouTube Channel

पाठ्यं (pAThyaM)

 
शब्दकल्पद्रुमः
Sanskrit
पाठ्यं, त्रि, (पठ्यते इति पठ + “ऋहलोर्ण्यत् ।”३ १२४ इति ण्यत् ।) पठनीयम् ।पठितव्यम् यथा, --“तिष्ठ रे तिष्ठ कण्ठोष्ठं कुण्ठयामि हठादहम् ।अपष्ठु पठतः पाठ्यमधिगोष्ठि शठस्य ते
”इति नैषधे १७ सर्गः