पाठः (pAThaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte
Englishपाठः [pāṭhḥ], [पठ्-भावे घञ्]
Reciting, recitation, repeating.
Reading, perusal, study.
Studying or reciting. the Vedas (ब्रह्मयज्ञ), one of the five daily Yajñas or sacrifices to be performed by Brāhmaṇas.
A particular method of reciting the text of the Veda (of which there are five: संहिता, पद, क्रम, जटा and घन).
The text of a book, a reading, variant
अत्र गन्धवद् गन्धमादनम् इति आगन्तुकः पाठः । प्राचीनपाठस्तु सुगन्धिर्गन्धमादनः इति पुल्लिङ्गान्तः Malli. on 6.46. -अन्तरम् another reading, a variant (v. l. ) -क्रमः the order determined or expressed by the recitation or the statement
यः पाठक्रमः स एव नियम्येत ŚB. on 5.1.4. -छेदः a pause, caesura. -दोषः a false reading. -निश्चयः determining the text of a passage. -भूः a place where the Vedas are learnt. -मञ्जरी, -शालिनी the Sārikā bird. -शाला a school, college, seminary. -शालिन् a pupil.
Apte 1890
Englishपाठः [पठ्-भावे घञ्] 1 Reciting recitation, repeating.
2 Reading, perusal, study.
3 Studying or reciting the Vedas (ब्रह्मयज्ञ), one of the five daily Yajñas or sacrifices to be performed by Brāhmaṇas
4 The text of a book, a reading. variant
अत्र गंधवद्गंधमादनं इति आगंतुकः पाठः । प्राचीनपाठस्तु सुगंधिर्गंधमादनः इति पुल्लिंगांतः Malli. on Ku. 6. 46.
Comp.
अंतरं another reading, a variant (v. l.).
छेदः a pause, cæsura.
दोषः a false reading.
निश्चयः determining the text of a passage.
भूः f. a place where the Vedas are learnt.
मंजरी,
शालिनी the Sārikā bird.
शाला a school, college, seminary.
शालिन् m. a pupil.
Apte Hindi
Hindiपाठः
- पठ् + घञ्
"प्रपठन, सस्वर पाठ, आवृति करना"
पाठः
- पठ् + घञ्
"पढ़ना, वाचन, अध्ययन"
पाठः
- पठ् + घञ्
"वेदाध्ययन, वेदपाठ, ब्रह्मयज्ञ, ब्राह्मणों के द्वारा पाँच दैनिक यज्ञों में से एक"
पाठः
- पठ् + घञ्
"पुस्तक का मूलपाठ, स्वाध्याय, पाठभेद"
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wordnet
Sanskrit पाठः, अध्यायः
सकृत् पाठनम् पाठः
"हरिः पाठस्य पठनम् करोति"
पाठः
नियमेन विधिपूर्वकं वा धर्मग्रन्थपठनस्य क्रिया।
"अस्मिन् मन्दिरे रामायणस्य पाठस्य आयोजनं कृतम्।"
अध्यायः, पाठः, परिच्छेदः, सर्गः, वर्गः, उद्घातः, अङ्कः, संग्रहः, उच्छ्वासः, परिवर्तः, पटलः, पर्वः, आह्निकम्, प्रकरणम्
ग्रन्थसन्धिः।
"उपाध्यायेन प्रवचने गीतायाः पञ्चमस्य अध्यायस्य विवरणं कृतम्।"
Tamil
Tamilபாட2: : படித்தல், வேதம் ஓதுதல்.
शब्दकल्पद्रुमः
Sanskritपाठः, (पठनमिति । पठ + भावे घञ् ।)विधिना वेदस्याभ्यसनम् । (पठ + णिच् + भावेघञ् ।) शिष्याणामध्यापनम् । तत्पर्य्यायः ।महायज्ञः २ ब्रह्मयज्ञः ३ पठनम् ४ पाठना ५पाठनम् ६ अध्ययनम् ७ अध्यापनम् ८ अध्या-पना ९ अभ्यसनम् १० । इत्यमरभरतौ ॥
निपाठः ११ निपठः १२ । इति सङ्कीर्णवर्गेअमरः ॥
* ॥
माहात्म्यादिपाठे तु ओँ नारा-यणाय नमः ओँ नराय नमः ओँ नरोत्तमायनमः ओँ देव्यै नमः ओँ सरस्वत्यै नमः ओँव्यासाय नमः । इति नत्वा पाठ्यम् ।“नारायणं नमस्कृत्य नरञ्चैव नरोत्तमम् ।देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥
”इति विधेः ॥
एवञ्च भागवतीयसूतोक्तौ उदीरयेत् इत्यस्यस्वयन्तथा उदीरयन्नन्यान् पौराणिकानुपशिक्ष-यतीति श्रीधरस्वामिव्याख्यानमनुशासनविरुद्धम् ।चैवेति भारतपाठाच्चकारेण व्यासो लब्धः ।भागवते चैवेत्यत्र व्यास इति साक्षाल्लिखितम् ।जयपदार्थमाह ब्रह्मचारिकाण्डे भविष्यपुराणम् ॥
“अष्टादशपुराणानि रामस्य चरितन्तथा ।विष्णुधर्म्मादिशास्त्राणि शिवधर्म्माश्च भारत ! ॥
कार्ष्ण्यञ्च पञ्चमो वेदो यन्महाभारतं स्मृतम् ॥
”कार्ष्ण्य कृष्णद्वैपायनप्रणीतम् ।“सौराश्च धर्म्मा राजेन्द्र मानवोक्ता महीपते ।जयेति नाम एतेषां प्रवदन्ति मनीषिणः ॥
”जयव्यनेन संसारमिति जयस्तत्तद्ग्रन्थः एव-ञ्चार्थानवलोकनात् आचाराद्बा स्तोत्रादावेषश्लोकः पठ्यते । मत्स्यसूक्ते वाराहीतन्त्रे च ।“प्रणवञ्चादौ जप्त्वा च स्तोत्रं वा संहितां पठेत् ।अन्ते च प्रणवं दद्यादित्युवाचादिपूरुषः ॥
सर्व्वत्र पाठे विज्ञेयो ह्यन्यथा विफलं भवेत् ।शुद्धेनानन्यचित्तेन पठितव्यं प्रयत्नतः ॥
न कार्य्यासक्तमनसा कार्य्यं स्तोत्रस्य वाचनम् ।आधारे स्थापयित्वा तु पुस्तकं वाचयेत् सुधीः ॥
हस्तसंस्थापनादेव यस्मादल्पफलं भवेत् ।स्वयञ्च लिखितं यत्तु कृतिना लिखितन्न यत् ॥
अब्राह्मणेन लिखितं तच्चापि विफलं भवेत् ।ऋषिच्छन्दादिकं न्यस्य पठेत् स्तोत्रं विचक्षणः ॥
स्तोत्रे न दृश्यते यत्र प्रणवन्यासमाचरेत् ।सङ्कल्पिते स्तोत्रपाठे संख्यां कृत्वा पठेत् सुधीः ॥
अध्यायं प्राप्य विरमेन्न तु मध्ये कदाचन ।कृते विरामे मध्ये तु अध्यायादिं पठेन्नरः ॥
”ततश्च मार्कण्डेयपुराणीयदेवीमाहात्म्यस्यादौऋषिच्छन्दादिकं पठेत् । तद्यथा । प्रथम-चरितस्य ब्रह्म ऋषिर्महाकाली देवता गायत्त्रीछन्दो नन्दा शक्ती रक्तदन्तिकाबीजमग्निस्तत्त्वंमहाकालीप्रीत्यर्थं जपे विनियोगः । मध्यम-चरितस्य विष्णुरृषिर्म्महालक्ष्मीर्द्देवतानुष्टुप्छन्दः शाकम्भरी शक्तिर्दुगा बीजं सूर्य्यस्तत्त्वंमहालक्ष्मीप्रीत्यर्थं जपे विनियोगः । उत्तरचरि-तस्य रुद्र ऋषिः सरस्वती देवता उष्णिक् छन्दोभीमा शक्तिर्भ्रामरीबीजं वायुस्तत्त्वं सरस्वती-प्रीत्यर्थं जपे विनियोगः ॥
नैयतकालिककल्प-तरौ भविष्यपुराणम् ॥
“इतिहासपुराणानि श्रुत्वा भक्त्या महीपते ।मुच्यते सर्व्वपापेभ्यो ब्रह्महत्यादिमिर्विभो ॥
ब्राह्मणं वाचकं विद्यान्नान्यवर्णजमादरात् ।श्रुत्वान्यवर्णजाद्राजन् ! वाचकान्नरकं व्रजेत् ॥
”तथा ।“देवार्च्चामग्रतः कृत्वा ब्राह्मणानां विशेषतः ।ग्रन्थिञ्च शिथिलं कुर्य्याद्वाचकः कुरुनन्दन ॥
पुनर्ब्बध्नीत तत् सूत्रं न मुक्त्वा धारयेत् क्वचित् ।हिरण्यं रजतं गाश्च तथा कांस्योपदोहनाः ॥
दत्त्वा तु वाचकायेह श्रुतस्याप्नोतियत् फलम् ।”कांस्योपदोहनाः कांस्यक्रोडाः ।“वाचकः पूजितो येन प्रसन्नस्तस्य देवताः ॥
”तथा ।“ज्ञात्वा सर्व्वसमाप्तिञ्च पूजयेद्वाचकं बुधः ।आत्मानमपि विक्रीय य इच्छेत् सफलं क्रतुम् ॥
”तथा ।“विस्पष्टमद्रुतं शान्तं स्पष्टाक्षरपदन्तथा ।कलस्वरसमायुक्तं रसभावसमन्वितम् ॥
बुध्यमानः सदर्थं वै ग्रन्थार्थं कृत्स्नशो नृप ।ब्राह्मणादिषु सर्व्वेषु ग्रन्थार्थञ्चार्पयेन्नृप ॥
य एवं वाचयेद्ब्रह्मन् स विप्रो व्यास उच्यते ॥
”तथा ।“सप्तस्वरसमायुक्तं काले काले विशाम्पते ।प्रदर्शयन्रसान् सर्व्वान् वाचयेद्वाचको नृप ॥
”इति तिथ्यादितत्त्वम् ॥
* ॥
पाठस्याष्टादशदाषा यथा, --“शङ्कितं भीतमुद्घुष्टमव्यक्तमनुनासिकम् ।विस्वरं विरसञ्चैव विश्लिष्टं विषमाहतम् ॥
काकस्वरं शिरसितं तथा स्थानविवर्ज्जितम् ।व्याकुलं तालहीनञ्च पाठदोषाश्चतुर्द्दश ॥
संगीतं शिरसः कम्पमल्पकण्ठमनर्थकम् ॥
”इति मार्कण्डेयपुराणम् ॥
* ॥
अध्ययनक्रमो यथा, --“आचम्य प्रयतो नित्यमधीयीत उदङ्मुखः ।उपसंगृह्य तत्पादौ वीक्ष्यमाणो गुरोर्मुखम् ॥
”अध्यापनक्रमो यथा, --“अधीष्व भो इति ब्रूयाद्विरामोऽस्त्विति चाचमेत् ।प्राक् कूलान् पर्य्युपासीनः पवित्रैश्चैव पावितः ॥
प्राणायामैस्त्रिभिः पूतस्तत ओङ्कारमर्हति ।ब्राह्मणः प्रणवं कुर्य्यादन्ते च विधिवद्द्विजाः ॥
कुर्य्यादध्यापनं नित्यं स ब्रह्मादीनि पूर्व्वतः ।सर्व्वेषामेव भूतानां वेदश्चक्षुः सनातनः ॥
अधीयीताध्ययन्नित्यं ब्राह्मण्याद्धीयतेऽन्यथा ॥
”इति कौर्म्मे उपविभागे १३ अध्यायः ॥
* ॥
पाठनिषेधकालो यथा । ग्रहणेऽनध्यायो नदृष्टोपरागमात्रविषयः ।“त्र्यहं नकीर्त्तयेद्ब्रह्म राज्ञो राहोश्च सूतके ।”इति मनुवचनेन सामान्यतो निषेधात् ॥
एष त्र्यहानध्यायो ग्रस्तास्तविषय इति मिता-क्षरा अन्यत्र त्वहोरात्रमनध्यायो याज्ञ-वल्क्यात् । यथा, --“सन्ध्यागर्ज्जितनिर्घातभूकम्पोल्कानिपातने ।समाप्य वेदं द्युनिशमारण्यकमधीत्य च ॥
पञ्चदश्यां चतुर्द्दश्यामष्टम्यां राहुसूतके ।ऋतुसन्धिषु भुक्त्वा वा श्राद्धिकं प्रतिगृह्य च ॥
”द्युनिशमहोरात्रम् । चैत्रश्रावणमार्गशीर्षाणा-मादिप्रतिपदो नित्याः इति ब्रह्मचारिकाण्डधृत-हारीतवचने एतासामनध्याये नित्यत्वाभिधाना-दब्यासां काम्यत्वम् । आदिप्रतिपदः शुक्ल-प्रतिपदः ॥
“सा च यौधिष्ठिरी सेना गाङ्गेयशरताडिता ।प्रतिपत्पाठशीलानां विद्येव तनुतां गता ॥
”इति व्यासवचनमपि तावन्मात्रपरम् ॥
* ॥
गोतमोक्ताकालिकानध्याया यथा, --आकालिकनिर्घातभूकम्पराहुदर्शनोल्का इतिआकालिका इति । निमित्तकालमारभ्य परेद्यु-र्यावत् स एव कालस्तावदकालस्तत्र भवाः ॥
तथा, --“विद्युत्स्तनितवज्रेषु महोल्कानाञ्च संप्लवे ।आकालिकमनध्यायमेतेषु मनुरब्रवीत् ॥
” * ॥
उल्कादिषु प्रतिप्रसवमाह मनुः ।“वेदोपकरणे चैव स्वाध्याये चैव नित्यके ।नानुरोधोऽस्त्यनध्याये होममन्त्रेषु चैव हि ॥
”पराशरभाष्ये कूर्म्मपुराणम् ।“अनध्यायस्तु नाङ्गेषु नेतिहासपुराणयोः ।न धर्म्मशास्त्रेष्वन्येषु पर्व्वस्वेतानि वर्ज्जयेत् ॥
”नारदः ।“अयने विषुवे चैव शयने बोधने हरेः ।अनध्यायस्तु कर्त्तव्यो मन्वादिषु युगादिषु ॥
” * ॥
सन्ध्यागर्जने शास्त्रचिन्तानिन्दामाह कृत्य-चिन्तामणौ दुर्व्वासाः ।“सन्ध्यायां गर्जिते मेघे शास्त्रचिन्तां करोति यः ।चत्वारि तस्य नश्यन्ति आयुर्विद्या यशो बलम् ॥
प्रादुष्कृतेष्वग्निषु तु विद्युत्स्तनितनिस्वने ।सज्योतिः स्यादनध्याय इत्याह भगवान् मनुः ॥
”इति मनुवचनं वर्षाविषयम् ॥
* ॥
अष्टम्यादिषु विशेषमाह हेमाद्रिधृतापस्तम्बः ।“उदयास्तमिते वापि मुहूर्त्तत्रयगामि यत् ।तद्दिनं तदहोरात्रमनध्यायविदो विदुः ॥
केचिदाहुः क्वचिद्देशे यावत्तु दिननाडिकाः ।तावदेव त्वनध्यायो न तन्मिश्रे दिनान्तरे ॥
”तद्दिनं तां तिथिं प्राप्येत्यर्थः । दिनान्तरे तिथ्य-न्तरे । अत्र पूर्व्ववचनमुत्तरमीमांसाध्यायिभिःपरिगृहीतम् । परवचनन्तु अन्यग्रन्थपरम् ।यत्तु निर्णयामृतधृतम् ।“प्रतिपल्लेशमात्रेण कलामात्रेण चाष्टमी ।दिनं दूषयते सर्व्वं सुरा गव्यघटं यथा ॥
”तद्दूषयत इत्यभिधानात् पूर्व्ववर्त्तितामात्रेणसर्व्वदिनदूषणाय । राजमार्त्तण्डे ।“प्रे को चै चा द्वितीयास्ताः प्रेतपक्षे गते तु या ।या तु कोजागरे जाते चैत्रावल्याः परेऽपि या ॥
चातुर्मास्ये समाप्ते च द्वितीया या भवेत्तिथिः ।सर्व्वास्वेतास्वनध्यायः पुराणैः परिकीर्त्तितः ॥
”इति तिप्यादितत्त्वम् ॥
कृदन्तरूपमाला
Sanskrit1 {@“भस भर्त्सनदीप्त्योः”@} 2 छान्दसः।
3 धातुपाठेषु सर्वत्र ‘--भर्त्सनदीप्त्योः’ इत्येवास्य धातोरर्थनिर्देशो दृश्यते।
परं तु निरुक्ते 4 ‘बभस्तिरत्तिकर्मा।’ इत्युक्तत्वात्
तथा, ‘हरी इवान्धांसि बप्सता।’ 5 इत्यत्र यास्केन ‘हरी इवान्नानि भुञ्जाने।’ इति व्याख्यानात्, सायणभाष्येऽपि ‘भस भक्षणदीप्त्योः।’ इत्येवात्र 6 धातुस्वरूपोपादानाच्च ‘भक्षणदीप्त्योः’ इत्येव पाठः प्रामाणिक इति, भर्त्सन-भक्षणशब्दयोः प्रायस्तुल्यश्रुत्या पाठभेद इति वा प्रतिभाति।]] 7 भासकः-सिका, भासकः-सिका, बिभसिषकः-षिका, बाभसकः-सिका
भसिता-त्री, भासयिता-त्री, बिभसिषिता-त्री, बाभसिता-त्री
8 बप्सत्-बप्सतौ-बप्सतः, 9 भासयन्-न्ती-ती, बिभसिषन्-न्ती-ती
-- भसिष्यन्-न्ती-ती, भासयिष्यन्-न्ती-ती, बिभसिषिष्यन्-न्ती-ती
-- इत्यादीनि सर्वाण्यपि रूपाणि आदादिककशतिवत् 10 ज्ञेयानि।
11 नभः, 12 भस्म, 13 भस्त्रम्, 14 भसत् इतीमानि रूपाण्यस्माद् भवन्तीति विशेषः।
01 (११५२)
02 (३-जुहोत्यादिः-११००। अक। सेट्। पर।)
03 [[[अ]
04 (५-४६)
05 (ऋ। वे। १-६-२८-७)
06 (ऋ। वे। १-६-२८-७)
07 [पृष्ठम्०९४६+ २६]
08 [[१। शतरि, शपि, तस्य ‘जुहोत्यादिभ्यः--’ (२-४-७५) इति श्लुः। ‘श्लौ’ (६-१-१०) इति द्विर्वचनम्। ‘घसिभसोर्हलि च’ (६-४-१००) इति उपधा- ऽकारलोपः। ‘खरि च’ (८-४-५५) इति भकारस्य चर्त्वेन पकारः। अभ्यासे हलादिशेषजश्त्वादिकम्।]]
09 [[२। भक्षणार्थकत्वे, ‘निगरणचलनार्थेभ्यः--’ (१-३-८७) इति ण्यन्तात् कर्तृगामिन्यपि क्रियाफले परस्मैपदमेव। दीप्त्याद्यर्थकत्वे, छान्दसत्वात् दृष्टानुविध्याश्रयणे वा शानजन्तेऽपि भासयमानः इति रूपं साध्वेवेत्यपि बोध्यम्।]]
10 (१७८)
11 [[३। न बभस्ति इति नभः = आकाशः। नञ्पूर्वादस्मात् ‘अन्येभ्योऽपि दृश्यते’ (३-२-१७८) इति क्विपि सकारस्य रुत्वे विसर्गे च रूपमिति आत्रेयादयः साधयन्तीति माधवधातुवृत्तौ दृश्यते। अत्र बाहुलकात् नञ्समासे नलोपाभाव इति बोध्यम्।]]
12 [[४। भाषायामपि, ‘अन्येभ्योऽपि दृश्यन्ते’ (३-२-७५) इति मनिन्प्रत्यये ‘नेड् वशि कृति’ (७-२-८) इतीण्निषेधे रूपमेवम्। ‘भूतेऽपि दृश्यन्ते’ (३-३-२) इति भूते- ऽयं प्रत्ययः। भसितम् = भस्म।]]
13 [[५। ‘हुयामाश्रुभसिभ्यस्त्रन्’ (द। उ। ८-८४) इति त्रन्प्रत्यये रूपमेवम्। ‘तितुत्रत--’ (७-२-९) इतीण्निषेधः। बभस्तीति भस्त्रम् = चर्म, उदरं च।]]
14 [[६। ‘शॄदॄभसोऽदिः’ (द। उ। ६-४२) इत्यदिप्रत्यये रूपमेवम्। बभस्ति, भस्यते वा तस्मिन् आहार इति भसत् = आमाशयस्थानम्।]]
1 {@“यत्रि सङ्कोचने”@} 2 3 ‘यन्तृ--’ इति ऋदिदत्र पाठ इति आभरणकारमतत्वेन धातुवृत्तावु- पादाय-- “अयं पाठः चिरन्तनव्याख्यानेषु न दृश्यते
प्रत्युत यन्त्रणादिशब्द- मस्मादेव मैत्रेयादयो व्युदपादयन्।” इति विवेचितम्।
“अत्रापि पूर्ववत् 4 इदित्करणात् यन्त्रतीत्याद्यपि भवति।” इति मा।
धा।
वृत्तिः।
“यन्त्र--इति पठितुं युक्तम्।
यत्तु-इदित्करणात् यन्त्रतीति माधवेनो- क्तम्--तच्चिन्त्यम्।” इति सिद्धान्तकौमुद्युक्तिरेव साधुः।
यतः-- ‘चिन्त्यात्’ इत्यादौ उपधानकारसद्भावेन, णिजभावपक्षे नलोपव्यावृत्त्या सार्थकतां लभमान इकारः णिजभावं चिन्तेर्ज्ञापयतीति तूचितम्।
इह तु रेफस्यैवोप- धात्वप्रसङ्गेन नलोपप्रसक्त्यभावात्--इति ज्ञेयम्।]] यन्त्रकः-न्त्रिका, यियन्त्रयिषकः-षिका
यन्त्रयिता-त्री, यियन्त्रयिषिता-त्री
5 इत्यादीनि सर्वाण्यपि रूपाणि चौरादिकतन्त्रयतिवत् 6 ज्ञेयानि।
यति-- 7 अयन्त्र्यम्।
01 (१३३८)
02 (१०-चुरादिः-१५३६। अक। सेट्। उभ।)
03 [[[अ]
04 (चितिधातुवत्)
05 [पृष्ठम्१०६९+ २६]
06 (६९८)
07 [[आ। ‘संचोरयन्तमरिगर्वमशेषभद्रं चिन्तन्तमन्तकमिवाप्तमयन्त्र्यवीर्यम्।’ धा। का। ३-१३।]]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
