| YouTube Channel

पाञ्चालं (pAJcAlaM)

 
शब्दकल्पद्रुमः
Sanskrit
पाञ्चालं,
क्ली,
(पञ्चाल एव पञ्चाल + स्वार्थेअण् ।) शास्त्रम् यथा, --“पितृहूर्नृपपुर्य्या द्बार्द्दक्षिणेन पुरञ्जनः ।राष्ट्रं दक्षिणपञ्चालं याति श्रुतधरान्वितः
इति श्रीभागवते पुरञ्जनोपाख्याने २५ ५०
“पञ्चानां विषयाणामन्यतोऽनवगतानां प्रकाश-नायालमिति पञ्चालं शास्त्रम् ।” इति ।“प्रवृत्तञ्च निवृत्तञ्च शास्त्रं पञ्चालसंज्ञकम् ।”इति तट्टीकायां श्रीधरस्वामी
अत्र पञ्चालमिति पाठः किन्तु स्वार्थे ष्णप्रत्ययेपाञ्चालमपि भवति