| YouTube Channel

पह्नवः (pahnavaH)

 
शब्दकल्पद्रुमः
Sanskrit
पह्नवः,
पुं,
श्मश्रुधारिम्लेच्छजातिविशेषः तस्यविवरणं यथा, हरिवंशे १४ १५ -- १९ ।“सगरस्तां प्रतिज्ञाञ्च गुरोर्वाक्यं निशम्य ।धर्म्मं जघान तेषां वै वेशान्यत्वं चकार
अर्द्धं शकानां शिरसो मुण्डयित्वा व्यसर्ज्जयत् ।यवनानां शिरः सर्व्वं काम्बोजानान्तथैव
पारदा मुक्तकेशाश्च पह्नवाः श्मश्रुधारिणः ।निःस्वाध्यायवषट्काराः कृतास्तेन महात्मना
शका यवनकाम्बोजाः पारदाः पह्नवास्तथा ।कोलाः सर्पाः समहिषा दार्व्वाश्चोलाः सकेरलाः
सर्व्वे ते क्षत्त्रियास्तात ! धर्म्मस्तेषां निराकृतः ।वशिष्ठवचनाद्राजन् ! सगरेण महात्मना
”(क्वचित् पह्लवः पाठोऽपि दृश्यते यथा, गोः रामायणे ५५ १८ ।“तस्या हम्भारवोत्सृष्टाः पह्लवाः शतशो नृप ! ।अनाशयन् बलं सर्व्वं विश्वामित्रस्य पश्यतः
”)