| YouTube Channel

पर्व्व (parvva)

 
शब्दकल्पद्रुमः
Sanskrit
पर्व्व, गतौ (भ्वां-परं-सकं-सेट् ।) पर्व्वति ।इति दुर्गादासः
पर्व्व, पूर्त्तौ इति कविकल्पद्रुमः
(भ्वां-परं-सकं-सेट् ।) पर्व्वति पयसा कुम्भं चेटी इतिदुर्गादासः
पर्व्व, [न्]
क्ली,
(पर्व्वतीति पर्व्व गतौ + बाहु-लकात् कनिन् यद्वा, पिपर्त्तीति पॄ + “स्ना-मदिपद्यर्त्तिपॄशकिभ्यो वनिप् ।” उणां ।११२ इति वनिप् ।) महः ग्रन्थिः (यथा, भागवते २१ १७ “तथा वालखिल्याऋषयोऽङ्गुष्ठपर्व्वमात्राः षष्टिसहस्राणि पुरतःसूर्य्यं सूक्तवाकाय नियुक्ताः संस्तुवन्ति
”)प्रस्तावः लक्षणान्तरम् दर्शप्रतिपदोः सन्धिः ।(पूर्णिमाप्रतिपदोःसन्धिश्च यथा, साहित्यदर्पणे ।“अकालजलदावली किरतु नाम मुक्तावली-रपर्व्वणि विधुन्तुदस्तुदतु नाम शीतद्युतिम्
”)विषुवत्प्रभृति इति मेदिनी ने, ८८
ग्रन्थ-विच्छेदः इति त्रिकाण्डशेषः
(यथा, महा-भारते अष्टादशपर्व्वाणि तानि उक्तानि यथातट्टीकायाम् ।“आदिः सभावनविराटमथोद्यमश्चभीष्मो गुरू रविजमद्रकसौप्तिकश्च ।स्त्रीपर्व्व शान्तिरनुशासनमश्वमेध-व्यासाश्रमो मुषलयानदिवावरोहः
”)क्षणः इति शब्दचन्द्रिका
(भङ्गी यथा, रघुवंशे १६ ४६ ।दिने दिने शैवलवन्त्यधस्तात्सोपानपर्व्वाणि विमुञ्चदम्भः
”)पञ्चपर्व्वाणि यथा विष्णुपुराणम् ।“चतुर्द्दश्यष्टमी चैव अमावास्याथ पूर्णिमा ।पर्व्वाण्येतानि राजेन्द्र ! रविसंक्रान्तिरेव
स्त्रीतैलमांससम्भोगी पर्व्वस्वेतेषु वै पुमान् ।विण्मूत्रभोजनं नाम प्रयाति नरकं मृतः
”पर्व्वसु कर्त्तव्याकर्त्तव्यानि यथा ब्रह्मपुराणे ।“नित्यं द्वयोरयनयोर्नित्यं विषुवतोर्द्वयोः ।चन्द्रार्कयोर्ग्रहणयोर्व्यतीपातेषु पर्व्वसु
अहोरात्रोषितः स्नानं श्राद्धं दानं तथा जपम् ।यः करोति प्रसन्नात्मा तस्य स्यादक्षयञ्च तत्
”पराशरभाष्ये कूर्म्मपुराणम् ।“अनध्यायस्तु नाङ्गेषु नेतिहासपुराणयोः ।न धर्म्मशास्त्रेष्वन्येषु पर्व्वस्वेतानि वर्ज्जयेत्
”पैठीनसिः पर्व्वसु तैलं क्षौरं मांसमभ्यु-पेयात् नामावस्यायां हरितमपि छिन्द्यात् ।इति तिथ्यादितत्त्वम्