| YouTube Channel

पर्य्ययः (paryyayaH)

 
शब्दकल्पद्रुमः
Sanskrit
पर्य्ययः,
पुं,
(परि क्रमशः अयो गमनम् ।) क्रमो-ल्लङ्घनम् (परि शास्त्रलोकाचारमर्य्यादां परि-त्यज्य अयो गमनमुल्लङ्घनमित्यर्थः ।) व्यति-क्रमः शास्त्रतो लोकव्यवहाराच्च प्राप्तस्यार्थस्यपरित्यागः तत्पर्य्यायः अतिपातः उपा-त्ययः इत्यमरभरता
विपर्य्ययः अत्ययः ।अतिपतनम् व्यत्ययः अतिक्रमः इतिशब्दरत्नावली
(यथा, महाभारते ४८ १२ ।“अश्नाम्याच्छादये चाहं यथा कुपुरुषस्तथा ।अमर्षं धारये चोग्रं प्रतीक्षन् कालपर्य्ययम्
”)