| YouTube Channel

परासुः (parAsuH)

 
Wordnet
Sanskrit
Synonyms:
परासुः, प्राप्तपञ्चत्वः, परेतः, प्रेतः, संस्थितः, प्रमीतः
adjective
यः गतप्राणः।
"सः मृतः शावकः अस्ति।"
शब्दकल्पद्रुमः
Sanskrit
परासुः, त्रि, (परागताः प्रस्थिता असवः प्राणायस्य ।) मृतः इत्यमरः ११७
(यथा, रघौ ७८ ।“तौ दम्पती बहु विलप्य शिशोः प्रहर्त्त्राशल्यं निखातमुदहारयतामुरस्तः ।सोऽभूत् परासुरथ भूमिपतिं शशापहस्तार्पितैर्नयनवारिभिरेव वृद्धः
”परासुपरीक्षा वैद्यके यथा, --“तस्य चेत् परिदृश्यमानं पृथक्त्वेन पादजङ्घोरु-स्फिगुदरपार्श्व-पृष्ठेषिका-पाणिग्रीवा-ताल्वोष्ठ-ललाटं स्विन्नं शीतं प्रस्तब्धं दारुणं वीतमांस-शोणितं वा स्यात् परासुरयं पुरुषो चिरात्कालं करिष्यतीति विद्यात् तस्य चेत् परि-मृश्यमानानि पृथक्त्वेन गुल्फजानुवङ्क्षण-गुद-वृषण-मेढ्रनाभ्यंशस्तनमणिकहनुपर्शुका नासिकाकर्णाक्षिभ्रूशङ्खादीनि स्रस्तानि व्यस्तानि च्युतानिस्थानेभ्यः स्युः परामुरयं पुरुषो चिरात्कालं करिष्यतीति विद्यात् ।”“तस्य चेदुच्छासोऽतिदीर्घोऽतिह्रस्वो वा स्यात्परासुरिति विद्यात् तस्य चेन्मन्ये परिदृश्य-मानेन स्पन्देयातां परासुरिति विद्यात् ।तस्य चेद्दन्ताः प्रतिकीर्णाः श्वेता जातशर्कराःस्युः परासुरिति विद्यात् तस्य चेत् पक्ष्माणिजटावद्धानि स्युः परासुरिति विद्यात् तस्यचेच्चक्षुषी प्रकृतिहीने विकृतियुक्ते अत्युत्-पिण्डिते अतिप्रविष्टे अतिजिह्मे अतिविषमेअतिप्रस्रुते अतिविमुक्तबन्धने सततोन्मिषितेसततनिमिषिते निमेषोन्मेषातिप्रवृत्ते बिभ्रान्त-दृष्टिके विपरीतदृष्टिके हीनदृष्टिके व्यस्तदृष्टिकेनकुलान्धे कपोतान्धे अङ्गारवर्णे कृष्णनील-पीतश्यावताम्रहरितहारिद्रशुक्लवैकारिकाणांवर्णानामन्यतमेनाभिसंप्लुते वा स्यातां परासु-रिति विद्यात् तथास्य केशलोमान्यायच्छेत् ।तस्य चेत् केशलोमान्यायस्यमानानि प्रलुच्येरन्नचेत् वेदयत् परासुरिति विद्यात् ।तस्य चेदुदरे शिराः प्रदृश्येरन् श्यावताम्र-नील-हारिद्रशुक्ला वा स्युः परासुरिति विद्यात् ।तस्य चेन्नखा वीतमांसशोणिताः पक्वजाम्बर-वर्णाः स्यः परासुरिति विद्यात् ।अथास्याङ्गुलीरायच्छेत्तस्य चेदङ्गुलय आयस्य-माना नचेत् स्फुटेयुः परासुरिति विद्यात्
”इति चरकेणेन्द्रियस्थाने चतुर्थेऽध्याय उक्तम्
“वाताष्ठीला तु हृदये यस्योर्द्ध्वमनुयायिनी ।रुजान्नविद्वेषकरी परासुरसंशयम्
”इति सुश्रुते सूत्रस्थाने एकत्रिंशत्तमेऽध्याये
)