परकीया (parakIyA)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte Hindi
Hindiपरकीया
- -
"दूसरे की पत्नी, जो अपनी न हो, नायिकाओं के तीन मुख्य प्रकारों में से एक"
Shabdartha Kaustubha
Kannadaपरकीया
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ನಾಯಿಕೆಯಲ್ಲಿ ಒಂದು ಭೇದ/ಅನ್ಯಸ್ತ್ರೀ/ಪರಪುರುಷನಲ್ಲಿ ಅನುರಕ್ತಳಾಗಿ ಅದನ್ನು ಹೊರಗೆ ತೋರಿಸಿಕೊಳ್ಳದಿರುವ ಹೆಂಗುಸು
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
L R Vaidya
Englishशब्दकल्पद्रुमः
Sanskritपरकीया, (परकीय + टाप् ।) नायिका-भेदः । अस्या लक्षणं यथा । अप्रकटपर-पुरुषानुरागा । सा च द्विविधा । परोढा १कन्यका च २ । कन्यायाः पित्राद्यधीनतयापरकीयत्वम् । अस्या गुप्तैव सकला चेष्टा ॥
* ॥
परोढा यथा, --“अयं रेवाकुञ्जः कुसुमशरसेवासमुचितःसमीरोऽयं वेलादरविलसदेलापरिमलः ।इयं प्रावृड्धन्या नवजलदविन्यासचतुरापराधीनं चेतः सखि ! किमपि कर्त्तुं मृगयते ॥
” *गुप्ताविदग्धालक्षिताकुलटानुशयानामुदिताप्रभृ-तीनां परकीयायां एवान्तर्भावः । गुप्तात्रिविधा । वृत्तसुरतगोपना १ वर्त्तिष्यमाण-सुरतगोपना २ वर्त्तमानसुरतगोपना च ३ ।त्रिविधा यथा, --“श्वश्रूः क्रुध्यतु विद्बिषन्तु सुहृदो निन्दन्तु वा यातर-स्तस्मिन् किन्तु न मन्दिरे सखि ! पुनः स्वापोविधेयो मया ।आखोराक्रमणाय कोणकुहरादुत्फालमातन्वतीमार्ज्जारी नखरैः खरैः कृतवती कां कां न मेदुर्द्दशाम् ॥
” * ॥
विदग्धा द्विविधा । वाग्विदग्धा १ क्रियाविदग्धाचेति २ । प्रथमा, --“निविडतमतमालमल्लिवल्ली-विचकिलराजिविराजितोपकण्ठे ।पथिकसमुचितस्तवाद्यतीव्रेसवितरि तत्र सरित्तटे निवासः ॥
”द्वितीया यथा, --“दासाय भवननाथे वदरीमपनेतुमादिशति ।हेमन्ते हरिणाक्षी पयसि कुठारं विनिक्षि-पति ॥
” * ॥
लक्षिता यथा, --“यद्भूतं तद्भूतं यद्भूयात्तदपि वा भूयात् ।यद्भवतु तद्भवतु वा विफलस्तव गोपनायासः ॥
” *कुलटा यथा, --“एते वारिकणान् किरन्ति पुरुषान् वर्षन्तिनाम्भोधराःशैलाः शाद्बलमुद्बमन्ति न सृजन्त्येते पुनर्नाय-कान् ।त्रैलोक्ये तरवः फलानि सुवते नैवारभन्ते जनान्धातः ! कातरमालपामि कुलटाहेतोस्त्वया किंकृतम् ॥
”अपि च ।“पृथ्वी तावत्त्रिकोणा विपुलनदनदीग्रावरुद्धंतदर्द्धंतस्यामेवास्ति शैलो विपिनमपि तथा क्षेत्र-कासारकूपाः ।लोकानामर्द्धनारी शिशुरपि जरसः कोऽपिरोगी विवेकीमिथ्यावादो ममायं मुखरमुखवरः पुंश्चलीपुंञ्चलीति ॥
” * ॥
अनुशयाना त्रिविधा ।वर्त्तमानस्थानविघट्टनेन भाविस्थानाभावशङ्कयास्वानधिष्ठितसङ्केतस्थले भत्तगमनानुमानेन प्रत्येकंउदाहरणानि ।“समुपागतवति चैत्रे निपतति पत्रे लवङ्गलति-कायाः ।सुदृशः कपोलपाली शिव शिव तालीदलद्युतिंलेभे ॥
” * ॥
“निद्रालुकेकिमिथुनानि कपोतपोत-व्याधूतनूतनमहीरुहपल्लवानि ।तत्रापि तन्वि ! न वनानि कियन्ति सन्तिखिद्यस्व न प्रियतमस्य गृहं प्रयाहि ॥
कर्णकल्पितरसालमञ्जरी-पिञ्जरीकृतकपोलमण्डलः ।निष्पतन्नयनवारिधारयाराधया मधुरिपुर्निरीक्ष्यते ॥
” * ॥
मुदिता यथा, --“गोष्ठेषु तिष्ठति पतिर्वधिरा ननन्दानेत्रद्बयस्य न च पाटवमस्ति यातुः ।इत्थं निगद्य सुतनुः कुचकुम्भसीम्निरोमाञ्चकञ्चुकमुदञ्चितमाततान ॥
” * ॥
कन्यका यथा, --‘किञ्चित्कुञ्चितहारयष्टिसरलभ्रूवल्लिसाचिस्मितंप्रान्तभ्रान्तविलोचनद्युतिभुजा पर्य्यस्तकर्णोत्-पलम् ।अङ्गुल्या स्फुरदङ्गुलीयकरुचा कर्णस्य कण्डूयनंकुर्व्वाणा नृपकन्यका सुकृतिनं सव्याजमालो-कते ॥
”इति रतिमञ्जरी ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
