| YouTube Channel

पन (pana)

 
शब्दसागरः
English
पन r. 1st. cl. (पनायति) To praise: this root and पण in the same
sense, take आय before the Sārvadhātuka, and some of the
Ārddhadhātuka, affixes. (पनते) To traffic, to buy and sell: see
पण. स्तुतौ भ्वा० आत्म० सक० सेट् स्वार्थे आय वा तत्र आत्म०
Wilson
English
पन r. 1st cl. (पनायति) To praise: this root and पण in the
same sense, take आय before the Sārvadhātuka, and some of the
Ārddhadhātuka, affixes. (पनते) To traffic, to buy and sell: see
पण.
Edgerton Buddhist Hybrid
English
? pana, indecl. (= Pali pana, Skt. punar), but: acc. to Senartʼs em. in Mv 〔i.188.10〕 (vs), for mss. pannā
but the whole line is corrupt and dubious. (Senart has no note and omits the word in his Index.)
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
पन्
मूलधातुः:
पन
धात्वर्थः:
स्तुतौ
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
पनायति-पनते
धातुप्रदीपः
Sanskrit
पनँ पन
- पनायति पनायिष्यति पनिष्यते ।। 440 ।।
शब्दकल्पद्रुमः
Sanskrit
पन, ईडे इति कविकल्पद्रुमः
(भ्वां-आत्मं-सकं-सेट् ।) ईडः स्तुतिः पनायति पनायतेविष्णुं धीरः आयान्तत्वादुभयपदमिति वोप-देवः अरे तु आयस्याप्राप्तिपक्षे आत्मनेपद-मेव ङ, अपनिष्ट पेने पनिता पनिषीष्ट पनि-ष्यते अपनिष्यत इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
पन स्तुतौ
भ्वा०
आत्म०
सक०
सेट स्वार्थे आय वा तत्र आत्म० ।पनायते पनायति आर्द्धधातुके वा आय अपनायीतेअपनायिष्ट अपनिष्ट पनायां--बमूय आस चक्रे पेनेइत्यादि
क्षीरतरङ्गिणी
Sanskrit
पनँ पन
- चकारात् स्तुतौ पनायते हरिम् अत्र अवयवेऽपि कृतं लिङ्गं समुदायस्य विशेषकं भवति (महा0 315) इत्यायव्यवधानऽप्यात्मतेपदम् अत्यविचमि (उ0 3117) इत्यसच् पनसः 427
धातुवृत्तिः
Sanskrit
पनँ पन (अर्थः)
पृथन्निर्देशात् स्तुतावित्यनेनैवायं सम्बध्यते ( शतस्य पणते शतं पणते ) ( सूत्रम्) व्यवहृपणोः समर्थयोः (इति सूत्रम्) इति कर्मणि शेषे षष्ठी अन्यदा द्वितीयैव समर्थयोरिति समानार्थयोरित्यर्थः, शकन्ध्वादित्वात् समशब्दाकारस्य पररूपम् द्यूते क्रयविक्रयव्यवहारे समानार्थत्वमनयोः ( पेणे पणिता पणिष्यते पणताम् अपणत पणिषीष्ट अपणिष्ट अपणिष्यत पिपणिषते पम्पण्यते ) "नुगतोनुनासिकान्तस्य'' इति नुक् पम्पणीति पम्पण्टि पम्पाण्टः ) "अनुनासिकस्य क्किज्ञलोः'' इति दीर्घः ( अपम्पण् पाणयति अपीपणत् पण्यम् ) "अवद्यपण्यवयां गर्ह्मपणितव्यानिरोधेषु'' इति पणतिव्ये व्यहर्तव्ये निपातितः अन्यत्र ण्यति ( पाण्यम् मूलकापणः शाकपणः) यः संख्यवहाराय मूलकादीनां परिमितो मुष्टिर्बध्यते उच्यते ( सूत्रम्) नित्यं पणः परिमाणे (इति सूत्रम्) इति परिमाणे गम्यमाने अप् प्रत्ययः अन्यत्र (पाणः) व्यावहारिकोप्युन्मानलक्षणपरिमाणयोगात् पण इत्युच्यते, पणश्चेद्विवादः स्यादितृयादौ इदं दास्यामीति पणनस्य परिच्देदनात् पणोक्तिः ( अध्यर्द्धपण्यम् द्विपण्यम् ) ( सूत्रम्) पणपादमाषतात्यत् (इति सूत्रम्) इति अध्यर्धपूर्वात् प्रातिपदिकात् पणाद्यन्ताद् द्विगोश्चार्हीयेष्वर्थेषु यत् एत्यात्र आपणतइति ( आपणः ) "गोचरसञ्चरवहव्रजव्यजापणनिणमाश्च'' इत्यधिकरणे घान्तो निपातितः ( पणितम् ) क्किपि ( पाण् ) "अनुनासिकस्य'' इति दीर्घः (वणिक्) "पयोरिज्यादेश्च वः''इति इजिप्रत्ययः, पकारस्य वकारः विणजो भावो ( वाणिज्या ) "दूतपवणिग्भ्यां च'' इति यत् यद्यप्ययं भावकर्माधिकारे तथापि स्वभावाद्भाव एव स्त्रियां ( वाणिज्यमिति) "प्रादिभ्यश्च'7 इत्यणन्ताद् वाणिजशब्दात् "गुणवचनाब्राह्मणादिभ्यः कर्मणि च'' इति ब्राह्मणादेराकृतिगणत्वात् ष्यञि कर्मणि चेति चकारेण भावः समुञ्चीयते विविधमत्र पणन्तइति ( विपणिः) इनितीन् ( पणसम् ) पण्यपर्यायः "अत्यविचमितमिनमिरभिलभिनभितपिपतिपनिपणिमहिभ्योऽसच्'' इत्यसच् "गुपूधूप'' इत्यायो व्यवहारार्थस्य नेत्युक्तान्युदाहरणानि तद्विषयाणि तथा वृत्तिः स्तुतृयर्थेन पनिना साहच्यात्तदर्थः पणिः प्रत्ययमुत्पादयतीति एवं न्यासपदमञ्जर्यादिष्वपि अत एव तरङ्गिण्यामपि "न चोपलेभे वणिजां पणाया' इति प्रयुञ्जानो भट्टिर्भ्रान्त इत्युक्तम् (पणायति राजानम् पणायां चकार पणायिता)इत्यादिआर्द्धधातुकविवक्षायामायानुत्पत्तौउक्तान्येवोदाहरणानि गुष्यादिवदायोत्पत्तिविकल्पस्य प्रयोजनं पणतइत्यादिसिद्धिः पणां चकारेत्यादिनिवृत्तिश्च निवृत्तिविकल्पे हि प्रत्ययलक्षणेन प्रत्ययान्तादाम् स्यात् एवमन्यत्रापि प्रयोजनानि गुपिवन्नेयानि अत्र स्वामिकाश्यपसम्ताकारवासुदेवादयः पणायतइत्यायान्तादात्मनेपदमुदाहरन्ति तदसत् यदस्यानुदात्तत्वं व्यवहारार्थस्यायाभावात् स्तुत्यर्थस्यार्द्धधातुक आयविकल्पनात् प्रकृतावेव चरितार्थम् अवयवे चारितार्थं लिङ्गं समुदायस्य विशेषकं यथा जुगुप्सतहति, स्पष्टं चैवं "गुपूधूप'' इत्यत्र न्यासपदमञ्जर्यादिषु अत्र मैत्रेयेन्द्रन्यासे पणतेः सार्वधातुकादिपाठाल्लिङ्गातसार्वधातुके ऽपि विकल्पमाहुः नित्ये ह्माये विच्छायतीति शपापि सिद्धत्यीति किं तत्र पाठने चास्ति स्वरभेदः ने कृते प्रत्ययस्वरेण तस्योदात्तत्वे धातुर्वर्ज्यमानस्वरेणानुदात्तः शपि तु अस्य पित्त्वेनानुदात्तत्वात् घातोरन्त इति धातुरन्तोदात्तः तत्र "एकादेश उदात्तेनोदात्तः'' इत्युभयथापि विकरणान्तस्योदात्तत्वात् अनेनैवाभिप्रायेण "च्छ्वोः शूट्'' इत्यत्र न्यासेगां विच्छति गोविडित्युक्तम् नैतत्साधु (विच्छायती विच्छायन्ती) "आच्छीनद्योः''इति नुम्विकल्पस्य प्रयोजनस्यसम्भवात् शपि तु"शप्श्यनोर्नित्यम्''इति नित्यो नुम् स्यात् "गुपूधूपविच्छि'' इत्यत्र कैयटदमञ्जर्यादिष्वप्येवमेव स्थितम् विच्छगतावितृयत्रात्रेयमैत्रेयावप्येवमेवाहतुः तथा देवोपि विच्छेरपि शर्तुवा नुम् स्यादिति तुदादितेति अत्र पुरुषकारे तुतादौ विच्छिः पठ्यते, तु विच्छायतिरिति विच्छेरेवानन्तरेण शेन भाव्यम् चैवं भवन्नाय विकल्पस्य कल्पकः स्यादेव अत्रैव "आयादय आर्द्धधातुके वा'' इत्यत्र न्यासान्तरम् , आयदादयः शपि नित्यमिति भाष्यं चानुकूलम् नित्ये विच्छेराये शब्ग्रहणं शित उपलक्षणमिति कल्प्यं स्यादिति सुधाकराद्युक्तमेव समर्थितं, नायं भाष्यस्यार्थः तत्र हि परसप्तमीत्वमाश्रित्य सूत्रं दूषयित्वा तत्परिहाराय सार्वधातुके नित्यमित्यभिहितम् तत्राप्यायेनानवकाशने विकरणानां बाधदोषमुद्भाव्य तत्परिहारायैव तथा पुनरयं सूत्रभेदेन परिहारः, यदि पुनः शपि नित्यमित्युच्येत तदा सिध्यतीत्युक्तं, तेनापि न्यासेन सार्वधातुके नित्यमित्यनेन समानफलेन भाव्यं, तच्चशब्ग्रहणस्य शित उपलक्षणत्वेन युज्यते, अतश्चोपलक्षणत्वमेष्टव्यम् , तत्तत्र यथान्यासमेवास्तु इति सूत्रमेव विषयसप्तम्याश्रयणेन सिद्धान्तितम् अत एव तत्र कैयटेन तौदादिकाद्विच्छेः शेन भाव्यं तु शपा, एवं तर्हि न्यासभेदोपलक्षणार्थमिदं शिति नित्त्यमिति न्यासः कर्त्तव्य इत्युक्तम् यदप्युक्तं पुरुषकारे "तुदादिभ्यः शः'' इति हि शो विधीयते तु विच्छाये, विच्छेरेव तुदादिषु पाठात्तच्चैतद्विच्छेः शविधानमाये नित्ये सति गुणादिष्वनुबन्धकरणवत् विच्छेः पाठोऽपि समुदायार्थतया युज्यतइति संकटम् तथा हरदत्तः विच्दिरंयं तुदादौ पठ्यते त्तसामर्थ्यादायप्रत्ययान्तादपि शविकरणो भवति तु शप्, यथा जुगुप्सते इत्यात्मनेपदं, तेन ( विच्छयती विच्छायन्तीति ) "अच्छीनद्योः'' इति नुम्बिकल्पो भवतीति पनायतीत्यादि पणिवत् ( पनसः ) "अत्यमि'' इत्यादिनाअसच् 436
कृदन्तरूपमाला
Sanskrit
1 {@“पन स्तुतौ”@} 2 3 क्षीरतरङ्गिण्यां ‘पनायते हरिम्।’ इत्यात्मनेपदमायप्रत्ययान्तात् निरुच्य, तस्य साधकत्वेन, “अत्र, ‘अवयवेऽपि कृतं लिङ्गं समुदायस्य विशेषकं भवति।’ 4 इत्यायव्यवधानेऽपि आत्मनेपदम्।’ इत्युक्तम्।
परं तु-- पनायतेरार्धधातुके आयप्रत्ययाभावपक्षेऽनुदात्तेत्त्वस्य चरितार्थत्वात् आत्मनेपदं चिन्त्यम्।]] पनायकः-पानकः-निका, पनायकः-पानकः, पिपनायिषकः-पिपनिषकः-षिका, पंपनकः-पम्पनकः-निका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकपणायतिवत् 5 ज्ञेयानि।
6 असच्प्रत्यये रूपम्।
पनसः = फलवृक्षविशेषः।]] पनसः।
7 पनितम्।
8
प्रासङ्गिक्यः
01
=>
(९७४)
02
=>
(१-भ्वादिः-४४०। सक। सेट्। आत्म।)
03
=>
[[[अ]
04
=>
(भाष्यम्-३-१-५)
05
=>
(९६४)
06
=>
[[४। औणादिके [द। उ। ९। ४४]
07
=>
[[आ। ‘पणाय्यरूपा पनिताकूतीन् ययुर्भामिन्य एवाक्षमया स्वकामुकान्।’ धा। का। १। ५७।]]
08
=>
[पृष्ठम्०८४८+ २९]