| YouTube Channel

पद्मं (padmaM)

 
शब्दकल्पद्रुमः
Sanskrit
पद्मं, क्ली
पुं,
(पद्यते इति पद गतौ + “अर्त्तिस्तु-सुहुस्रिति ।” उणां १३९ इति मन् ।यद्वा, पद्मा लक्ष्मीरस्त्यस्मिन् “अर्श आदि-भ्योऽच् ।” १२३ इति अच् ।) स्वनाम-ख्यातपुष्पविशेषः तत्पर्य्यायः नलिनम् २अरविन्दम् महोत्पलम् सहस्रपत्रम् ५कमलम् शतपत्रम् कुशेशयम् पङ्केरु-हम् तामरसम् १० सारसम् ११ सरसी-रुहम् १२ विसप्रसूनम् १३ राजीवम् १४ पुष्क-रम् १५ अम्भोरुहम् १६ इत्यमरः १० ।३९-४०
पङ्कजम् १७ अम्भोजम् १८ अम्बु-जम् १९ सरसिजम् २० श्रीवासम् २१ श्रीपर्णम्२२ इन्दिरालयम् २३ जलेजातम् २४ अब्जम् २५कञ्जम् २६ नलम् २७ नालीकम् २८ नालिकम्२९ वनजम् ३० अम्लानम् ३१ पुटकम् ३२अब्जः ३३ इति शब्दरत्नावली
अस्य गुणाः ।कषायत्वम् मधुरत्वम् शीतत्वम् पित्त-कफास्रनाशित्वञ्च इति राजवल्लभः
अव-शिष्टम् कमलशब्दे द्रष्टव्यम्
*
पद्मकम् ।तच्च गजस्य मुखादिस्थो बिन्दुसमूहः व्यूह-विशेषः (यथा, मनुः १८८ ।“यतश्च भयमाशङ्केत्ततो विस्तारयेद्बलम् ।पद्मेन चैव व्यूहेन निविशेत सदा स्वयम्”
)निधिभेदः (यथा, महाभारते १० ३६ ।“निधिप्रवरमुख्यौ शङ्खपद्मौ धनेश्वरौ ।सर्व्वान्निधीन् प्रगृह्याथ उपास्तां वै धनेश्वरम्”
)संख्यान्तरम् तच्च दशार्वुदम् (यथा, महा-भारते ।“अयुतम् प्रयुतञ्चैव पद्मम् खर्वमथार्व्वुदम्”
)दशशङ्खश्च इति मेदिनी
पद्मकाष्ठौषधिः इतिधरणिः
पुष्करमूलम् सीसकम् इति राज-निर्घण्टः (कल्पविशेषः यथा, मार्कण्डेये ४७
“पद्मावसाने प्रलये निशासुप्तोत्थितः प्रभुः ।सत्त्वोद्रिक्तस्तदा ब्रह्मा शून्यं लोकमवैक्षत”
)शरीरस्थषट्पद्मानि यथा, --“मूलाधारे त्रिकोणाख्ये इच्छाज्ञानक्रियात्मके ।मध्ये स्वयम्भुलिङ्गन्तु कोटिसूर्य्यसमप्रभम्
तदूर्द्ध्वे कामबीजन्तु कलशान्तीन्दुनादकम् ।तदूर्द्ध्वे तु शिखाकारा कुण्डली ब्रह्मविग्रहा
तद्वाह्ये हेमवर्णाभम् व-स-वर्णचतुर्द्दलम् ।द्रुतहेमसमप्रख्यं पद्मं तत्र विभावयेत्
तदूर्द्ध्वेऽग्निसमप्रख्यं षड्दलं हीरकप्रभम्
वादिलान्तषड्र्णेन युक्ताधिष्ठानसंज्ञकम्
मूलमाधारषट्कानां मूलाधारं ततो विदुः
स्वशब्देन परं लिङ्गं स्वाधिष्ठानं ततो विदुः
तदूर्ड्घे नाभिदेशे तु मणिपूरं महत्प्रभम् ।मेघाभं विद्युदाभञ्च बहुतेजोमयं ततः
मणिवद्भिन्नं तत् पद्मं मणिपूरं तथोच्यते ।दशभिश्च दलैर्युक्तं डादिफान्ताक्षरान्वितम्
शिवेनाधिष्ठितं पद्मं विश्वालोकैककारणम्
तदूर्ड्घेऽनाहतं पद्ममुद्यदादित्यसन्निभम् ।कादिठान्ताक्षरैरर्कपत्रैश्च समधिष्ठितम्
तन्मध्ये वाणलिङ्गन्तु सूर्य्यायुतसमप्रभम् ।शब्दब्रह्ममयं शब्दोऽनाहतस्तत्र दृश्यते
तेनाहताख्यं पद्मं तन्मुनिभिः परिकीर्त्त्यते ।आनन्दसदनं तत्तु पुरुषाधिष्ठितं परम्
तदूर्ड्घन्तु विशुद्धाख्यं दलषोडशपङ्कजम् ।स्वरैः षोडशकैर्युक्तं धूम्रवर्णं महत्प्रभम्
विशुद्धं तनुते यस्मात् जीवस्यस् हंसलोकनात् ।विशुद्धं पद्ममाख्यातमाकाशाख्यं महत् परम्
आज्ञाचक्रं तदूर्द्ध्वे तु आत्मनाधिष्ठितं परम् ।आज्ञा संक्रमणं तत्र गुरोराज्ञेति कीर्त्तितम्
कैलासाख्यं तदूर्द्ध्वे तु बोधनीन्तु तदूर्द्ध्वतः ।एवञ्च शिवचक्राणि प्रोक्तानि तव सुव्रत ! ।सहस्राराम्बुजं बिन्दुस्थानं तदूर्द्ध्वमीरितम्
”इति तन्त्रसारः