| YouTube Channel

पण्डितः (paNDitaH)

 
Apte Hindi
Hindi
पण्डितः
पुं*
- पण्डा + मतुप्
"शास्त्रज्ञ, विद्वान्"
पण्डितः
पुं*
- पण्डा + मतुप्
गंधद्रव्य
Tamil
Tamil
பண்டி3த: : படித்தவன், அறிவாளி.
शब्दकल्पद्रुमः
Sanskrit
पण्डितः,
पुं,
(पण्डा वेदोज्ज्वला तत्त्वविषयिणीवा बुद्धिः सा जाता अस्य “तदस्य संजातंतारकादिभ्य इतच् ।” ३६ इति इतच् ।यद्वा, पण्ड्यते तत्त्वज्ञानं प्राप्यतेऽस्मात् गत्यर्थेतिक्तः ।) शास्त्रज्ञः अस्य लक्षणं यथा, --(“निषेवते प्रशस्तानि निन्दितानि सेवते ।अ-नास्तिकः श्रद्दधान एतत् पण्डितलक्षणम्
”इति चिन्तामणिः
)“पठकाः पाठकाश्चैव ये चान्य शास्त्रचिन्तकाः ।सर्व्वे व्यसनिनो मूर्खा यः क्रियावान् पण्डितः
”इति महाभारते वनपर्व्व
अपि श्रीभगवद्गीतायाम् १७ ।“विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि ।शुनि चैव श्वपाके पण्डिताः समदर्शिनः
”तत्पर्य्यायः विद्वान् विपश्चित् दोषज्ञः सन् ५सुधीः कोविदः बुधः धीरः मनीषी १०ज्ञः ११ प्राज्ञः १२ संख्यावान् १३ कविः १४ घीमान्१५ सूरिः १६ कृती १७ कृष्टिः १८ लब्धवर्णः १९विचक्षणः २० दूरदर्शी २१ दीर्घदर्शी २२ ।इत्यमरः ५-६
विशारदः २३ ।कवी २४ सूरी २५ इति भरतः
विदग्धः २६दूरदृक् २७ वेदी २८ वृद्धः २९ बुद्धः ३० विधा-नगः ३१ प्रज्ञिलः ३२ कृस्निः ३३ इतिशब्दरत्नावली
विज्ञः ३४ मेधावी ३५ ।इति राजनिर्घण्टः
सिह्लकः इति मेदिनी
(सर्व्वज्ञत्वात् महादेवः यथा, महाभारते ।१३ १७ १२४ ।“न्यायनिर्व्वपणः पादः पण्डितो ह्यचलोपमः
”)