| YouTube Channel

पञ्चामृतं (paJcAmRtaM)

 
शब्दकल्पद्रुमः
Sanskrit
पञ्चामृतं,
क्ली,
(पञ्चानाममृतानां समाहारः ।शर्करादुग्धघृतदधिमधुघटितम् यथा, --“दुग्धं सशर्करञ्चैव घृतं दधि तथा मधु ।पञ्चामृतामदं प्रोक्तं विधेयं सर्व्वकर्म्मसु
”गर्भवतीभ्यस्तद्दानस्य दिनं यथा, --“रेवत्यश्विपुनर्व्वसुद्वयमरुन्म्रलानुराधामघा-हस्तासूत्तरफल्गुनीषु भृगुजे जीवार्कवारे तथा ।लग्नर्क्षोडुपशोभनेषु नियतं सन्त्यज्य रिक्तां तिथिंदेयं मासि पञ्चमेषु करणे पञ्चामृतं योषि-ताम्
”इति ज्योतिस्तत्त्वम्