| YouTube Channel

पञ्चामराः (paJcAmarAH)

 
शब्दकल्पद्रुमः
Sanskrit
पञ्चामराः,
स्त्री,
(पञ्च अमराः संज्ञात्वात्कर्म्म-धारयः ।) पञ्चप्रकारामरलतादि यथा, --“एका तु अमरा दूर्व्वा तस्या ग्रन्थिं समानयेत् ।अन्या तु विजया देवी सिद्धिरूपा सरस्वती
अन्या तु विल्वपत्रस्था शिवसन्तोषकारिणी ।अन्या तु योगसिद्ध्यर्थे निर्गुण्डी चामरा लता
अन्या तु कालतुलसी श्रीविष्णोः प्रियतोषिणी ।एताः पञ्चामरा ज्ञेया योगसाधनकर्म्मणि
”इति रुद्रयामलोत्तरखण्डे ३६ पटलः