| YouTube Channel

पञ्चामरा (paJcAmarA)

 
वाचस्पत्यम्
Sanskrit
पञ्चामरा स्त्री संज्ञात्वात् कर्म० अमरलतापञ्चके“एका तु अमरा दूर्वा तस्या ग्रन्थिं समानयेत् अन्यातु विजया देवी सिद्धिरूपा सरस्त्रती अन्था तु विल्य-पत्राख्या शिवसन्तोषकारिणी अन्या तु योगसिद्ध्यर्थेनिर्गुण्डी चामरा लता अन्यातु कालतुलसी श्री-विष्णोः प्रियतोषिणी एताः पञ्चामरा ज्ञेया योगसा-धनकर्मणि” इति रुद्रजामलोत्तरखण्डे ३६ पटले