| YouTube Channel

पञ्चरात्रं (paJcarAtraM)

 
शब्दकल्पद्रुमः
Sanskrit
पञ्चरात्रं,
क्ली,
(पञ्चविधानि रात्राणि ज्ञानानियत्र समासे अच् ।) ग्रन्थविशेषः ।यथा, --“रात्रञ्च ज्ञानवचनं ज्ञानं पञ्चविधं स्मृतम् ।तेनेदं पञ्चरात्रञ्च प्रवदन्ति मनीषिणः
प्रथमं सात्विकं ज्ञानं द्वितीयन्तु तदेव ।नैर्गुण्यञ्च तृतीयञ्च ज्ञानञ्च सर्व्वतः परम्
चतुर्थञ्च राजसिकं भक्तस्त न्नाभिवाञ्छति ।पञ्चमं तामसं ज्ञानं विद्वांस्तन्नाभिवाञ्छति
ज्ञानं पञ्चविधं प्रोक्तं पञ्चरात्रं विदुर्बधाः
”तत् सप्तविधं यथा, --“पञ्चरात्रं सप्तविधं ज्ञानिनां ज्ञानदं परम् ।ब्राह्मं शैवञ्च कौमारं वाशिष्ठं कापिलं परम्
गौतमीयं नारदीयमिदं सप्तविधं स्मृतम्
”इति नारदपञ्चरात्रे प्रथमरात्रम्
अपि ।“पञ्चकं पञ्चरात्राणां कृष्णमाहात्म्यपूर्व्वकम् ।वाशिष्ठं नारदीयञ्च कापिलं गौतमीयकम् ।परं सनतकुमारीयं पञ्चरात्रञ्च पञ्चकम्
”इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १३२ अध्यायः
एतदतिरिक्तानिहयशीर्षपृथुध्रुवादिपञ्चरात्राणि-सन्ति
(पञ्चानां रात्रीणां समाहारः ।) पञ्चनिशाः यथाह चक्रपाणिदत्तः ।“त्रिरात्रं पञ्चरात्रं वा दशरात्रमथापि वा ।लङ्घनं सन्निपातेषु कुर्य्यादाराग्यदर्शनात्