पञ्चरश्मि (paJcarazmi)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Spoken Sanskrit
English पञ्चरश्मि paJcarazmi having 5 strings or traces
वाचस्पत्यम्
Sanskritपञ्चरश्मि पञ्च पञ्चवर्णा रश्मवोऽस्य । पिङ्गलादिपञ्चवर्ण-रश्मिके सूर्य्ये तस्य तथात्वम् निर्णीतं छा० उ० यथा“अथ या एता हृदयस्य नाड्यस्ताः पिङ्गलस्याणिम्न-स्तिष्ठन्ति शुक्लस्य नीलस्य पीतस्य लोहितस्येत्यसौ वा आ-दित्यः पिङ्गल एष शुक्ल एष नील एष पीत एष लोहितः ।तद्यथा महापथ आतत उभौ ग्रामौ गच्छतीमं चामुंचैवमेवैता आदित्यस्य रश्मयः उभौ लोकौ गच्छतीमुंचामुं चामुष्मादादित्यात् प्रतायन्ते ता आसु नाडोषुसृप्ता आभ्यो नाडीभ्यः प्रतायन्ते तेऽमुष्मिन्नादिथेसृप्ताः” उप० “अथ या एता बक्ष्यमाणा हृदयस्य पुण्ड!काकारस्य ब्रह्मोपासनस्थानस्य सम्बन्धिन्योनाड्योहृदय-मसिपिण्डात् सर्वतोविनिःसृता आदित्यमण्डलादिव-रश्मयस्ताश्चैताः पिङ्गलस्य वर्णविशेषविशिष्टस्याणिम्नःसूक्ष्मरसस्य रसेन पूर्णास्तदाकारा एव तिष्ठन्ति वर्त्तन्तइत्यर्थः । तथा शुक्लस्य नीलस्य पीतस्य लोहितस्य चरसस्य पूर्णा इति सर्वत्राध्याहार्य्यम् । सौरेण तेजसापित्ताल्येन पाकाभिनिर्वृत्तेन कफेनाल्पेन सम्पर्कात्विङ्गलं भवति सौरं तेजः पित्ताख्यम् । तदेव वातभूय-स्त्वान्नीलं भवति । तदेव च कफभूयस्त्वाच्छुक्लम् । कफेनसमतायां पित्तम् शोणितबाहुल्येन लोहितम् ।वैद्यकाद्वा वर्णविकारा अन्वेष्टव्याः । कथं भवन्तीतिश्रुतिस्त्वाहादित्यसम्बन्धादेव तत्तेजसो नाडीष्वनुगतस्यैतेवर्णविशेषा इति । कथमसौ वा आदित्यः पिङ्गलोवर्णत एष आदित्यः शुक्लोऽप्येष नील एष पीत एषलोहित आदित्य एव । तस्याध्यात्मं नाडीभिः कथंसम्बन्ध इत्यत्र दृष्टान्तमाह तत्तत्र यथा लोके महान्विस्तीर्णः पन्था महापथ आततो व्याप्त उभौ ग्रामौगच्छतीमं च सन्निहितमनुं च विप्रकृष्टं दूरस्थमेबं यथालोके दृष्टान्तो महापथ उभौ ग्रामौ प्रविष्टः । एव-मेवैता आदित्याः महापथा यथा गच्छन्ति तथोभयत्रादि-त्यस्य रश्मयः उभौ लोकावमुं चादित्यमण्डलमिमं चपुरुषं गच्छन्त्युभयत्र प्रविष्टाः यथा महापथः । कथम-मुष्मादादित्यमण्डलात् प्रतायन्ते सन्तता भवन्ति । ताअध्यात्ममासु पिङ्गलादिवर्णासु यथोक्तासु नाडीषु सृप्तागताः प्रविष्टा इत्यर्थः । आभ्यो नाडीभ्यः प्रतायन्ते प्र-वृत्ताः सन्तानभूताः सत्यस्तेऽमुष्मिन् रश्मीनामुभयलि-ङ्गत्वात्ते इत्युच्यन्ते” भा० । “रसेनान्नस्येति शेषः तदाकाराइति तच्छब्दोऽन्नरसविषयः । शुक्लस्येत्यादिषु षष्ठी पूर्ववत् ।श्रुतावितिशब्दोऽध्याहारद्योतनार्थः । कथं पुनरन्न-रसस्य पिङ्गलादिविचित्रो वर्णविशेषः सिध्यतीत्या-शङ्ख्याह सौरेणेति वातपित्ताख्यं सौरं तेजः । तेनपाकोऽशितस्य च जायते । तेनाभिनिर्वृत्तेनाल्पेन कफेनसम्पर्कात् तदेव पित्ताख्यं सौरं तेजो भवति पिङ्गलम् ।तेन सम्पर्काद्रसस्य नाडीनां च जायते पिङ्गलत्वमित्यर्थः ।तदेव च पित्ताख्यं सौरं तेजो यथोक्तपाकाभिनिर्वृत्तेनप्रभूतेन वातेन सम्बन्धात्तद्मूयस्त्वाद्भवति नीलं तेन चसम्पर्कादन्नरसस्य नाडीनां च जायते नैल्यनित्याहतदेवेति । प्रकृतमेव पित्ताख्यं सौरं तेजो यथोक्तपाकवशादभिनिर्वृत्तकफस्य स्वसम्बन्धिनो भूयल्वाद्भवतिशुक्लं तेन च सम्पर्कादन्नरसस्य नाडीनां च शौक्ल्यंभवतीत्याह तदेव चेति । उक्तपाकाभिनिर्वृत्तेनकफेन तदभिनिर्वृत्तस्यैव वातस्य समतायां तदेव तेजस्तत्सम्बन्धि पीतं जायते । तत्सम्बन्धच्चान्नरसस्य च नाडी-नां च पीतत्वं भवतीत्याह कफेनेति । यदा तु यथोक्त-पाकाभिनिष्पन्नं शोणितं बहुलं भवति तदा तस्यनाडीनां च लौहित्यं मवतीत्याह शोणितेति । पक्षा-न्तरमाह वैद्यकाद्वेति । अन्वेषणप्रकारमाह कथ-मिति । नाभेरूर्द्ध्वं हृदयादधस्तादामाशयमाचक्षते ।तेजः सौरं पित्तमित्युच्यते । तच्चान्नरसस्य धात्वन्तर-सहकारिवशाद्वर्णविशेषे कारणमाशयगतं पीतं रञ्जकंरसरञ्जनादित्यादिवचनादित्यर्थः । कथं तर्हि पिङ्गल-स्येत्याद्या श्रुतिरित्याशङ्ख्याह श्रुतिस्त्विति । उक्तमर्थ-माकाङ्क्षाद्वारा स्फोरियति कथमित्यादिना आदित्यस्यपिङ्गलादयो वर्णविशेषाः शास्त्रप्रमाण्यादेव प्रत्येतव्याः ।आदित्यस्य तेजसो नाडोष्वनुगतस्य पैङल्यादयो वर्ण-विशेषाभवन्तीत्युक्तं तदेव प्रश्नद्वारा दृष्टान्तावष्टम्भेनस्पुटयति तस्येत्यादिना” आनन्दगिरिः ।
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
