| YouTube Channel

पञ्चयज्ञाः (paJcayajJAH)

 
शब्दकल्पद्रुमः
Sanskrit
पञ्चयज्ञाः,
पुं,
(पञ्चविधा यज्ञाः ।) गृहस्थकर्त्तव्य-पञ्चप्रकारयज्ञविशेषाः यथा, --“ब्रह्मयज्ञो नृयज्ञश्च दैवयज्ञश्च सत्तम ! ।पितृयज्ञो भूतयज्ञः पञ्चयज्ञाः प्रकीर्त्तिताः
”इति पाद्मे क्रियायोगसारे १६ अध्यायः
शूद्रमधिकृत्य, --“नमस्कारेण मन्त्रेण पञ्चयज्ञान्न हापयेत् ।”इति तिथ्यादितत्त्वम्
अस्य विवरणं पञ्चमहायज्ञशब्दे द्रष्टव्यम्