| YouTube Channel

पञ्चपञ्चिनी (paJcapaJcinI)

 
वाचस्पत्यम्
Sanskrit
पञ्चपञ्चिनी स्त्री पञ्च पञ्च ऋचः परिमाणमस्याः डिनि ।पञ्चदशस्तोमस्य विष्टुतिभेदे “अथ पञ्चदशस्तोमस्यतिस्रो विष्टुतयः तत्र प्रथमं पञ्चपञ्चिन्याख्यांविष्टुतिं दर्शयति” भा० “पञ्चभ्यो हिङ्करोति सतिसृभिः एकया एकया, पञ्चभ्यो हिङ्करोति सएकया तिसृभिस्म एकया, पञ्चभ्यो हिङ्करोतिस एकया एकया तिसृभिः, पञ्चपञ्चिनी पञ्चपञ्च-दशस्य विष्टुतिः” ताण्ड्य० ब्रा० “चतुर्ष्वेषु स्तोत्रे-ष्वेकैकं तृचात्मकं सूक्तं तस्मिन् तृचे पञ्चदशसंख्या ऋचःसम्पादनीयाः तच्च सम्पादनम् आवृत्तिमन्तरेण नसम्भवतीत्यावृत्तिप्रकार इहोपदिश्यते त्रिभिः पर्य्यायैःस्तोत्रभावर्त्तनीयम् अग्न आयाहीत्येषा सूक्ते प्रथमाऋक् “तन्त्वा समिद्भिरिति” द्वितीया “स नः पृथ्विति”तृतीया तासु प्रथमामृचं प्रथमे पर्य्याये त्रिरावर्त्तयेत्इतरे द्वे सकृत् सकृत् द्वितीये पर्य्याये मध्यमां त्रिर-भ्यसेत्, तृतीये पर्य्याये अन्तिमांत्रिरभ्यस्येत् एवं सत्ये-कैकस्य आवृत्तिः पञ्चधा सम्पद्यते एषा पञ्चपञ्चिनीएकैकस्मिन् पर्य्याये पञ्चर्चा भवन्तीति पञ्चपञ्चिन्येतत्-संज्ञा पञ्चदशस्तोमस्येषा विष्टुतिः”