| YouTube Channel

पक्वं (pakvaM)

 
Hindi
Hindi
परिपक्व
शब्दकल्पद्रुमः
Sanskrit
पक्वं,
क्ली,
(पच्यते स्म पच + क्त “पचो वः” ।८ ५२ इति निष्ठातस्य वः ।) स्विन्न-तण्डुलादि तत्र पाकस्य विधिनिषेधादिर्यथा, --“पूर्व्वाशाभिमुखो भूत्वा उत्तराशामुखेन वा ।पचेदन्नञ्च मध्याह्ने सायाह्ने विवर्ज्जयेत्
अग्न्याशाभिमुखे पक्त्वा अमृतान्नं निबोध ।पूर्व्वमुखो धर्म्मकामः शोकहानिश्च दक्षिणे
श्रीकामश्चोत्तरमुखो पतिकामश्च पश्चिमे ।ऐशान्याभिमुखे पक्त्वा दरिद्रो जायते नरः”
*
“यदा तु आयसे पात्रे पक्वमश्नाति वै द्बिजः ।स पापिष्ठोऽपि भुङ्क्तेऽन्नं रौरवे परिपच्यते
ताम्रे पक्त्वा चक्षुर्हानिर्म्मणौ भवति वै क्षयम् ।स्वर्णपात्रे तु यत् पक्वं अमृतं तदंपि स्मृतम्”
*
“पितृभ्यां पक्वमन्नञ्च पितृव्येण यशस्विनि ! ।पुण्डरीकस्य यज्ञस्य लभते फलमीप्सितम्
वातुलेन तु यत् पक्वं भगिन्या कनिष्ठया ।असगोत्रेण यत पक्वं शोणितं तदपि स्मृतम्
अभक्तेन यत् पक्वं स्त्रिया पक्वं तथैव ।पक्वपात्रे यत् पक्वं तत् सर्व्वं निष्फलं भवेत्”
*
“उडुम्बरेण काष्ठेन कदम्बस्य दलेन ।शालेन करमर्द्देन उदरावर्त्तकेन
पक्वान्नं नैव भुञ्जीत भुक्त्वा रात्रिमुपावसेत् ।गर्हितान्नमवीरान्नं भुक्त्वा कृच्छ्रं समाचरेत्
अप्रजा यातु वनिता नाश्नीयादेव तद्गृहे”
“शालकाष्ठस्य पक्वान्नं शिरीषकस्य चैव हि ।कलिचण्डातकस्यैव वज्रावारुणकस्य ।भेरण्डशाल्मलैर्व्वापि पक्वान्नं गर्हितं स्मृतम्
*
”“यदा मृण्मयपात्रे तु पक्वं वै सार्व्वकालिकम् ।मासे पक्षे तथाष्टौ तत् पात्रं विसृजेद्गृही”
*“धनुःपाके तथा सिंहे मिथुने वा वरानने ।यः कुर्य्याद्भोजनं देवि ! कृच्छ्रेणैव विशुध्यति”
*
“एकदा तु जलं दद्यात् द्विवारं प्रदापयेत् ।त्रिभागं पूरयेत् पात्रं पश्चात्तोयं दापयेत्”
इति
*
“मोदकं कन्दुपक्वञ्च गव्याढ्यं घृतसंयुतम् ।पुनः पुनर्भोजने पुनरन्नं दुष्यति”
इति मत्स्यसूक्ते महातन्त्रे ४२ पटलः
पक्वं, त्रि, (पच्यते स्म यत् इति पच + कर्म्मणिक्तः “पचो वः” ५२ इतिनिष्ठातस्य वः ।) परिणतम् पाका इतिभाषा
(यथा, मनुः १७ ।“अग्निपक्वाशनो वा स्याता कालपक्वभुगेव वा”
)निष्ठां प्राप्तम् सुदृढमिति यावत् यथा परि-णता बुद्धिः विनाशोन्मुस्वम् प्रत्यासन्नविना-शम् अतिपक्वव्यञ्जनदशमूलादौ निष्पक्वं कथि-तञ्च क्षीराज्यपयसां पाके शृतम् ईषत्पक्वेआपक्वम् इत्यमरभरतौ
(भावे क्तः पाकः ।परिणामः
)