| YouTube Channel

नैमित्तिकस्नानं (naimittikasnAnaM)

 
शब्दकल्पद्रुमः
Sanskrit
नैमित्तिकस्नानं,
क्ली,
(नैमित्तिकञ्च तत् स्नानञ्चेति ।निमित्तवशात् निमित्तमाश्रित्य विधेयं स्नान-मित्येके ।) निमित्तनिश्चयवदधिकारिकर्त्तव्य-स्नानम् यथा, --“चाण्डालशवयूपादि स्पृष्ट्वा स्नातां रजस्वलाम् ।स्नानार्हस्तु यदा स्नाति स्नानं नैमित्तिकं हितत्
”इति गरुडपुराणम्