| YouTube Channel

नृती (nRtI)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
नृत्
मूलधातुः:
नृती
धात्वर्थः:
गात्रविक्षेपे
गणः:
दिवादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
नृत्यति
धातुप्रदीपः
Sanskrit
नृतीँ नृती गात्रविक्षेपे
- नृत्यति ननर्त्त नर्त्स्यति नर्त्तिष्यति नृत्यम् नृत्तम् नरीनृत्यते नर्नत्ति नर्नृतीति नरिनृतीति नरीनृतीति नरिनर्त्ति नरीनर्त्ति निनृत्सति निनर्त्तिषति ईदित्त्वफलमुक्तमेव 10
क्षीरतरङ्गिणी
Sanskrit
नृतीँ नृती गात्रविक्षेपे
- (अर्थविवरणम्) गात्रविक्षेपो नाट्यम्
नृत्यति सेऽसिचि कृतचृतछृदतृदनृतः (7257) इति वेट्-नर्त्स्यति, नर्तिष्यति निनृत्सति निनर्तिषति नृत्तम्, यस्य विभाषा (7215) इत्यनिट्त्वे सिद्धे ईदित्त्वं यङ्लुगर्थम्-नरीनत्तः, क्षुभ्नादित्वात् (द्र0 (8439) णत्वाभावः पादम्याङ्यम (1389) इति तङ्-नर्तयते 8
धातुवृत्तिः
Sanskrit
नृतीँ नृती (अर्थः) गात्रविक्षेपे
( नृत्यति ननत, ननृततुः, ननर्तिथ, ननृतिव नर्तिता नर्तिष्यति, नर्त्स्यति, ) "सेऽसिचि'' इति सिज्वर्ज्यस्य सकारादेरिङ्विकल्पः ( नृत्यतु अनृत्यत् नृत्येत् ) आशिषि, ( नृत्यात् अनर्तीत्, अनर्तिष्टाम् निनर्तिषति, निनृत्सति, ) "हलन्ताच'' इत्यनिटि कित्त्वम् ( नरीनृत्यते ) क्षुभ्नादिषु "नृत्यतेर्यङि' इति पाठाण्णत्वनिषेधः ( नर्नर्ति, नरिनर्ति, नरीनर्ति ) इत्यादि रुग्रिग्रीकः ( नर्तयति, नर्तयते अनीनृतत्, अननर्तत्, ) "उरृद्वा'' अस्य चलार्थत्वाद् अणावकर्मकत्वाच्च "निगरणवलने'' इत्यादिना योगद्वयेन कर्त्रभिप्राये क्रियाफले यत्र परस्मैपदं प्राप्तं तत्र "न पादम्'' इत्यादिना निषिध्यते ( नृत्यम् ) "ऋदुपधात्'' इति क्यप् ( नर्तकः, नर्तकी ) "शिल्पिनि ष्वुन्'' इति ष्वुन्, तत्र नृतिखनिरञ्जिभ्यः परिगणनम् ( नृत्तः, नृत्तवान्, ) ईदित्करणम् "यस्य विभाषा'' इत्यस्यानित्यत्वज्ञापनार्थम् तेन धावित इत्यादि सिद्ध्यतीति आत्रेयमैत्रेयौ स्वामिकाश्यपौ तु "अवयवेचरितार्थत्वाद् यङ्लुङिनवृत्त्यर्थम्'' इति अत्र यस्य विभाषा नास्ति, "सेऽसिचि'' इत्यत्र एकाच इत्यनुवृत्तेरिड्विकल्पस्यैवाभावादिति तयोरभिप्रायः ( नृतूः )दीर्घाकृतिः "नृतिशृध्योः कूः'' इतिकूप्रत्ययः 9
कृदन्तरूपमाला
Sanskrit
1 {@“नृती गात्रविक्षेपे”@} 2 नर्तकः-र्तिका, नर्तकः-र्तिका, निनृत्सकः-निनर्तिषकः-षिका, 3 नरीनृतकः-तिका
इत्यादीनि सर्वाण्यपि रूपाणि तौदादिककृन्ततिवत् 4 ज्ञेयानि।
5 नृत्यन्-न्ती, 6 नर्त्स्यन्-न्ती-ती, 7 नर्तकः- 8 नर्तकी, 9 नर्तयमानः, 10 11 नर्तनः, 12 इति कूप्रत्यये रूपम्।
नृतूः = दीर्घाकृतिः, नर्तकः, क्रिमिविशेषो वा।]] नृतूः।
प्रासङ्गिक्यः
01
=>
(९५४)
02
=>
(४-दिवादिः-१११६। अक। सेट्। पर।)
03
=>
[[१। क्षुभ्नादिषु (८-४-३९) ‘नृत्यतेर्यङि’ (ग। सू।) इति पाठात् णत्वनिषेधः।]]
04
=>
(२४८)
05
=>
[[२। शतरि, ‘दिवादिभ्यः’ (३-१-६९) इति श्यन्प्रत्यये रूपम्।]]
06
=>
[[B। ‘वनं चचार कर्तिष्यन् नर्त्स्यन् इव निरङ्कुशः।।’ भ। का। ९। ४२।]]
07
=>
[[३। ‘शिल्पिनि ष्वुन्’ (३-१-१४५) इत्यत्र ‘नृतिखनिरञ्जिभ्य एव’ (वा। ३-१-१४५) इति परिगणनादस्मात् ष्वुन्प्रत्यये रूपम्। षित्त्वात् स्त्रियां ङीप्।]]
08
=>
[[C। ‘नर्तकीरभिनयातिलङ्घिनीः पार्श्ववर्तिषु गुरुष्वलज्जयत्।।’ रघु। १९। १४।]]
09
=>
[[४। अस्य धातोः चलनार्थत्वात्, अणावकर्मकत्वाच्च, ण्यन्तात् क्रमेण ‘निगरणचल- नार्थेभ्यः--’ (१-३-८७) इति, ‘अणावकर्मकाच्चित्तवत्कर्तृकात्’ (१-३-८८) इति यत् परस्मैपदं कर्त्रभिप्राये क्रियाफले प्राप्तम्, तत् ‘न पादम्याङ्यमाङ्यस- परिमुहरुचिनृतिवदवसः’ (१-३-८९) इति निषिध्यते। तेन शता भवति। परगामिनि क्रियाफले तु ‘णिचश्च’ (१-३-७४) इति, ‘शेषात् कर्तरि--’ (१-३-७८) इति उभयपदं भवत्येव। तेन नर्तयन् इत्यपि साधुः।]]
10
=>
[[ड्। ‘अवाद् वायुः शनैर्यस्यां लतां नर्तयमानवत्।’ भ। का। ८। ६१।]]
11
=>
[[५। ‘चलनशब्दार्थादकर्मकात्--’ (३-२-१४८) इति तच्छीलादिषु कर्तृषु युच् भवति।]]
12
=>
[[६। ‘नृतिशृध्योः कूः’ [द। उ। १-१७४]