| YouTube Channel

नीलासनः (nIlAsanaH)

 
Wordnet
Sanskrit
Synonyms:
बहुवल्कः, नीलासनः, वृक्षादनः
noun
अक्षाणां जातेः वृक्षविशेषः।
"बहुवल्कस्य वल्केन पीतः रङ्गः रच्यते तस्य वल्कः ओषध्यां प्रयुज्यते।"
शब्दकल्पद्रुमः
Sanskrit
नीलासनः,
पुं,
(नीलवर्णः असनो वृक्षभेदः ।)असनवृक्षविशेषः पियाशालप्रभेदः तत्-पर्य्यायः नीलबीजः नीलपत्रः सुनी-लकः नीलद्रुमः नीलसारः नीलनिर्य्या-सकः अस्य गुणाः कटुत्वम् शीतत्वम् ।कषायत्वम् कुष्ठकण्डूदद्रुनाशित्वम् सारक-त्वम् तत्र सितस्य श्रेष्ठत्वञ्च इति राज-निर्घण्टः
रतिबन्धविशेषः यथा, --“लिङ्गोपरिस्थिता नारी शय्यां कृत्वा पदद्वयम् ।हृदये दत्तहस्ता बन्धो नीलासनो मतः
”इति स्मरदीपिका