नीलवृष (nIlavRSa)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
शब्दकल्पद्रुमः
Sanskritनीलवृषः, कृष्णवर्णवृषः । वृषविशेषः । तस्यलक्षणं यथा, --“लोहितो यस्तु वर्णेन मुखे पुच्छे च पाण्डरः ।श्वेतः खुरविषाणाभ्यां स नीलो वृष उच्यते ॥
”इति शुद्धितत्त्वम् ॥
अपि च ।“लोहितो यस्तु वर्णेन शङ्खवर्णः खुरो वृषः ।लाङ्गूलशिरसोश्चैव स वै नीलवृषः स्मृतः ॥
”तस्योत्सर्गे गयाश्राद्धादितुल्यफलं यथा, --“जायेरन् बहवः पुत्त्रा यद्येकोऽपि गयां व्रजेत् ।यजेद्वा अश्वमेधेन नीलं वा वृषमुत्सृजेत् ॥
”इति देवीपुराणम् ॥
वाचस्पत्यम्
Sanskritनीलवृष नित्यकर्म० । विशेषनक्षणाक्रान्ते वृषभेदे तल्लक्षणमुक्रं श० त० शङ्खेन “लोहितो यस्तु वर्णेन मुखे पुच्छेच पाण्डरः । श्वेतः खुरविषाणाभ्यां स वृषो नीलउच्यते” “स वृषो नील उच्यते” इत्युक्तेः नीलशब्दस्वैव तत्रार्थे पारिभाषिकत्वं तस्य सामानाधिकरण्यद्योत-नायैव वृषशब्दपयोगः । अतएव “नीलं वा वृषमुत्सृजेत्”देवीपु० वाक्ये व्यःसप्रयोगः । नीलषण्डप्रमोक्षेण अभा-वास्यां तिलोदकैः” भा० अनु० १६५ अ० वृषार्थकषण्ड-शब्दप्रयोगश्च । “लोहितो यस्तु वर्णेन शङ्खवर्णखुरोवृषः । लाङ्गूलशिरसोश्चैव स वै नीलवृषः स्मृतःइति वचनेऽपि न समुदाये पारिभाषिकत्वम् किन्तुनीलशब्दस्यैव सामान्याधिकरण्यद्योतनाय वृषशब्दप्रयोगःपूर्वोकहेतोः । एवं लोहितवृषशब्देऽपि लोहितशब्द-स्यैव पारिभाषिकत्वम् यथोक्तं विष्णुसं० “जीववत्सायाःपयस्विन्याः पुत्रं सर्वलक्षणोपेतं नीलं लोहितं वा सुखपुच्छपादशृङ्गशुक्लं यूथस्याच्छादकम्” । नीलषण्डादयो-ऽप्यत्र ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
