| YouTube Channel

नीलकण्ठः (nIlakaNThaH)

 
Apte Hindi
Hindi
नीलकण्ठः
पुं*
नील-कण्ठः -
मोर
नीलकण्ठः
पुं*
नील-कण्ठः -
शिव का विशेषण
नीलकण्ठः
पुं*
नील-कण्ठः -
एक प्रकार का लजलकुक्कुट
नीलकण्ठः
पुं*
नील-कण्ठः -
नीलकंठ पक्षी
नीलकण्ठः
पुं*
नील-कण्ठः -
खंजन पक्षी
नीलकण्ठः
पुं*
नील-कण्ठः -
चिड़िया
नीलकण्ठः
पुं*
नील-कण्ठः -
मधुमक्खी
Wordnet
Sanskrit
Synonyms:
कलापी, वर्हिणः, वर्ही, शिखी, शिखाबलः, शिखण्डी, शिखाधारः, शिखाधरः, नीलकण्ठः, श्यामकण्ठः, शुक्लापाङ्गः, सितापाङ्गः, भुजङ्गभुक्, भुजङ्गभोजी, भुजङ्गहा, भुजगाभोजी, भुजगदारणः, प्रचलाकी, चन्द्रकी, भुजगान्तकः, भुजगाशनः, सर्पाशनः, केकी, नर्तकः, नर्तनप्रियः, मेघानन्दी, मेघसुहृद्, मेघनादानुलासी, वर्षामदः, चित्रमेखल, चित्रपिच्छकः, कुमारवाही, राजसारसः, कान्तपक्षी, शुक्रभुक्, शापठिकः, दार्वण्डः, हरिः
noun
पुंत्वविशिष्टमयूरः।
"कलापी मयूरी तृदिलं चञ्च्वा गृह्णीतः।"
Synonyms:
सारसः, गोनर्दः, गृहसारसः, कामिवल्लभः, कामी, नीलकण्ठः, पुष्करः, पुष्कराख्यः, पुष्कराह्वः, पुष्कराह्वयः, रसिकः, लक्षणः, मैथुनी, लक्ष्मणः, श्येनाख्यः
noun
बादामस्य वर्णस्य एकः बकः।
"सारसस्य चञ्चुः कृशः दृढः भवति।"
Synonyms:
मयूरः, कलापी, वर्हिणः, वर्ही, शिखी, शिखाबलः, शिखण्डी, शिखाधारः, शिखाधरः, नीलकण्ठः, श्यामकण्ठः, शुक्लापाङ्गः, सितापाङ्गः, भुजङ्गभुक्, भुजङ्गभोजी, भुजङ्गहा, भुजगाभोजी, भुजगदारणः, प्रचलाकी, चन्द्रकी, भुजगान्तकः, भुजगाशनः, सर्पाशनः, केकी, नर्तकः, नर्तनप्रियः, मेघानन्दी, मेघसुहृद्, मेघनादानुलासी, वर्षामदः, चित्रमेखल, चित्रपिच्छकः, कुमारवाही, राजसारसः, कान्तपक्षी, शुक्रभुक्, शापठिकः, दार्वण्डः, हरिः
noun
खगविशेषः- सः शोभनः खगः यस्य पुच्छं दीर्घम् अस्ति।
"मयूरः भारतस्य राष्ट्रियः खगः अस्ति।"
Synonyms:
नीलकण्ठः
noun
एकः विद्वान्
"नीलकण्ठेन महाभारते टीका लिखिता"
Tamil
Tamil
நீலகண்ட2: : மயில், சிவன்.
शब्दकल्पद्रुमः
Sanskrit
नीलकण्ठः,
पुं,
(नीलः नीलवर्णः कण्ठो यस्य ।)शिवः (यथा, महाभारते १८ ४३ -- ४४ ।“त्रैलोक्यं मोहितं यस्य गन्धमाध्राय तद्बिषम् ।प्राग्रसल्लोकरक्षार्थं ब्रह्मणो वचनाच्छिवः
दधार भगवान् कण्ठे मन्त्रमूर्त्तिर्महेश्वरः ।तदा प्रभृति देवस्तु नीलकण्ठ इति श्रुतः
”)मयूरः इत्यमरः ३९
(यथा, मेघदूते ७९ ।“यामध्यास्ते दिवसविगमे नीलकण्ठः सुहृद्बः
”)पीतसारः दात्यूहः ग्रामचटकः खञ्ज-रीटः इति हेमचन्द्रः
मूलके, क्ली इतिराजनिर्घण्टः
*
विजयदशम्यां नीलकण्ठ-दर्शनविधिर्यथा, --“कृत्वा नीराजनं राजा बलवृद्धौ यथाबलम् ।शोभनं खञ्जनं पश्येत् जलगोगोष्ठसन्निधौ
”दर्शनानन्तरं नमस्कारमन्त्रो यथा, --“नीलग्रीव शुभग्रीव सर्व्वकामफलप्रद ।पृथिव्यामवतीर्णोऽसि खञ्जरीट ! नमोऽस्तु ते
त्वं योगयुक्तो मुनिपुत्त्रकस्त्व-मदृश्यतामेषि शिखोद्गमेन ।त्वं दृश्यसे प्रावृषि निर्गतायांत्वं खञ्जनाश्चर्य्यमयो नमस्ते
”द्रव्यविशेषोपरिस्थितस्य तस्य दर्शनफलं यथा, --“अब्जेषु गोषु गजवाजिमहोरगेषुराज्यप्रदः कुशलदः शुचिशाद्वलेषु ।भस्मास्थिकेशनखलोमतुषेषु दृष्टोदुःखं ददाति बहुशः खलु खञ्जरीटः
”दिग्विशेषे फलं यथा, --“वित्तं ब्रह्मणि कार्य्यसिद्धिरतुला शक्रे हुताशेभयंयाम्यामग्निभयं सुरद्विषि कलिर्लाभः समुद्रालये ।वायव्यां वरवस्त्रगन्धसलिलं दिव्याङ्गना चोत्तरेऐशान्यां मरणं ध्रुवं निगदितं दिग्लक्षणंखञ्जने
”अशुभखञ्जनदर्शनप्रायश्चित्तं यथा, --“अशुभं खञ्जनं दृष्ट्वा देवब्राह्मणपूजनम् ।दानं कुर्व्वीत कुर्य्याच्च स्नानं सर्व्वौषधीजलैः
”इति तिथ्यादितत्त्वे दुर्गोत्सवतत्त्वम्
(पीतशालवृक्षः अस्य पर्य्यायो यथा, --“नीलकण्ठः पीतशालः पीतकः प्रियकोऽसनः
”इति वैद्यकरत्नमालायाम्
)