| YouTube Channel

नीरदः (nIradaH)

 
Apte Hindi
Hindi
नीरदः
पुं*
नीरम्-दः -
बादल
Wordnet
Sanskrit
Synonyms:
मेघः, अभ्रमम्, वारिवाहः, स्तनयित्नुः, बलाबकः, धाराधरः, जलधरः, तडित्वान्, वारिदः, अम्बुभृत्, घनः, जीमूतः, मुदिरः, जलमुक्, धूमयोनिः, अभ्रम्, पयोधरः, अम्भोधरः, व्योमधूमः, घनाघनः, वायुदारुः, नभश्चरः, कन्धरः, कन्धः, नीरदः, गगनध्वजः, वारिसुक्, वार्मुक्, वनसुक्, अब्दः, पर्जन्यः, नभोगजः, मदयित्नुः, कदः, कन्दः, गवेडुः, गदामरः, खतमालः, वातरथः, श्नेतनीलः, नागः, जलकरङ्कः, पेचकः, भेकः, दर्दुरः, अम्बुदः, तोयदः, अम्बुवाबः, पाथोदः, गदाम्बरः, गाडवः, वारिमसिः, अद्रिः, ग्रावा, गोत्रः, बलः, अश्नः, पुरुभोजाः, वलिशानः, अश्मा, पर्वतः, गिरिः, व्रजः, चरुः, वराहः, शम्बरः, रौहिणः, रैवतः, फलिगः, उपरः, उपलः, चमसः, अर्हिः, दृतिः, ओदनः, वृषन्धिः, वृत्रः, असुरः, कोशः
noun
पृथ्वीस्थ-जलम् यद् सूर्यस्य आतपेन बाष्परुपं भूत्वा आकाशे तिष्ठति जलं सिञ्चति च।
"कालिदासेन मेघः दूतः अस्ति इति कल्पना कृता"
शब्दकल्पद्रुमः
Sanskrit
नीरदः,
पुं,
(नीरं जलं ददातीति नीर + दा +कः ।) मेघः यथाह घटकर्परः ।“निचितं खमुपेत्य नीरदैः प्रियहीना हृदयाव-नीरदैः ।”मुस्तकम् इति राजनिर्घण्टः
(निर्नास्तिरदो दन्तो यस्य ।) रदशून्ये, त्रि
यथा, --“आस्वाद्य निरवशेषं विरहिवधूनां मृदूनिमांसानि ।करकामिषेण मन्ये निष्ठीवति नीरदोऽस्थीनि
”इत्युद्भटः