| YouTube Channel

नीतिः (nItiH)

 
Apte
English
नीतिः [nītiḥ],
f.
Guidance, direction, management.
Conduct, manner of conducting oneself, behaviour, course of action.
propriety, decorum.
Policy, prudence, wisdom, right course
आर्जवं हि कुटिलेषु नीतिः
N.*
5.13
R.*
13.69
Ku.*
1.22.
A plan, contrivance, scheme
भूयः स्नेहविचेष्टितैर्मृगदृशो नीतस्य कोटिं पराम्
Māl.
6.3.
Politics, political scicence, statesmanship, political wisdom
आत्मोदयः परग्लानिर्द्वयं नीतिरितीयती
Śi.*
2.3
दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम्
Bg.*
1.38.
Righteousness, moral conduct, morality.
The science of morality, morals, ethics, moral philosophy
निन्दन्तु नीति- निपुणा यदि वा स्तुवन्तु
Bh.*
2.83.
Acquirement, acquisition.
Giving, offering, presenting.
Relation, support.
Comp.
-कुशल, -ज्ञ, -निपुण, -निष्ण, -विद्
a.
one versed in policits, a statesman, politician.
prudent, wise
किं चित्रं यदि राजनीतिकुशलो राजा भवेद्धार्मिकः Udb.-घोषः
N.
of the car of Bṛihaspati. -दोषः error of conduct, mistake in policy. -बीजम् a germ or source of intrigue
˚निवार्पणं कृतम्
Pt.*
1.
विद्या political science, political economy.
moral science, ethics. -विषयः the sphere of morality or prudent conduct.
व्यतिक्रमः transgression of the rules of moral or political science.
error of conduct, mistake in policy. -शतकम् the 1 verses on morality by Bhartṛihari. -शास्त्रम् the science of ethics or of politics
morality. -सन्धिः method of policy
सुकृत्यं विष्णुगुप्तस्य मित्राप्तिर्भार्गवस्य बृहस्पतेर- विश्वासो नीतिसन्धिस्त्रिधा स्थितः
Pt.*
2.41.
Apte 1890
English
नीतिः f. 1 Guidance, direction, management.
2 Conduct, manner of conducting oneself, behaviour, course of action.
3 Propriety, decorum.
4 Policy, prudence, wisdom, right course
आर्जवं हि कुटिलेषु नीतिः N. 5. 103
R. 12. 69
Ku. 1. 22.
5 A plan, contrivance, scheme
Māl. 6. 3.
6 Politics, political science, statesmanship, political wisdom
आत्मोदयः परग्लानिर्द्वयं नीतिरितीयती Śi. 2. 30
Bg. 10. 38.
7 Righteousness, moral conduct, morality.
8 The science of morality, morals, ethics, moral philosophy.
9 Acquirement, acquisition.
10 Giving, offering, presenting.
11 Relation, support.
Comp.
कुशल,
ज्ञ,
निष्ण, विद् a. {1} one versed in policits, a statesman, politician. {2} prudent, wise.
घोषः N. of the car of Bṛhaspati.
दोषः error of conduct, mistake in policy.
बीजं a germ or source of intrigue
°निर्वापणं कृतं Pt. 1.
विद्या {1} political science, political economy. {2} moral science, ethics.
विषयः the sphere of morality or prudent conduct.
व्यतिक्रमः transgression of the rules of moral or political science. {2} error of conduct, mistake in policy.
शास्त्रं the science of ethics or of politics
morality.
संधिः method of policy
Pt. 2. 41.
Hindi
Hindi
नैतिकता
Apte Hindi
Hindi
नीतिः
स्त्री*
- नी+क्तिन्
"निर्देशन, दिग्दर्शन, प्रबंध"
नीतिः
स्त्री*
- नी+क्तिन्
"आचरण, चालचलन, व्यवहार, कार्यक्रम"
नीतिः
स्त्री*
- नी+क्तिन्
"औचित्य, शालीनता"
नीतिः
स्त्री*
- नी+क्तिन्
"नीतिकौशल, नीतिज्ञता, बुद्धिमत्ता, व्यवहारकुशलता"
नीतिः
स्त्री*
- नी+क्तिन्
"योजना, उपाय कूटयूक्ति"
नीतिः
स्त्री*
- नी+क्तिन्
"राजनय, राजनीति विज्ञान, राजनीतिज्ञता, राजनीतिक बुद्धिमत्ता"
नीतिः
स्त्री*
- नी+क्तिन्
"आचारशास्त्र, आचार, नीतिशास्त्र, आचारदर्शन"
नीतिः
स्त्री*
- नी+क्तिन्
"अवाप्ति, अधिग्रहण"
नीतिः
स्त्री*
- नी+क्तिन्
"देना, प्रदान करना, प्रस्तुत करना"
नीतिः
स्त्री*
- नी+क्तिन्
"संबंध, सहारा"
Wordnet
Sanskrit
Synonyms:
नीतिः
noun
किमपि कार्यं कर्तुम् उपयोजिता विशिष्टा पद्धतिः।
"स्वस्य योजनायाः सफलतायै सः नीतिं कल्पते।"
Synonyms:
नीतिः, नायः
noun
केनचित् मनुष्येण कयाचित् संस्थया वा कस्यापि हिताय निर्मिता विशिष्टा योजना।
"अस्माकम् उद्योगसंस्था नूतनाः नीतीः आरप्स्यते।"
Synonyms:
नीतिः
noun
किमपि कार्यं समाप्तिं नेतुं स्वीकृता पद्धतिः।
"शासनेन स्वीकृता आतङ्कवादस्य उन्मूलनस्य नीतिः असफलीभूता।"
Synonyms:
नीतिः
noun
आचारविचारयोः निर्देशनम्
"आर्जवम् हि कुटिलेषु नीतिः [नै 5.103]"
Synonyms:
नीतिः, सद्सद्विवेकः
noun
नीतिमत्तायाः अनवस्था भावो वा।
"स्वयं अनीतिमता नैतिकतायाः पाठः पाठनीयः।"
Synonyms:
नीतिः, नयः, व्यवस्था, नियमः, विधिः
noun
नियमपूर्वकाचरणस्य बोधकं विधानम्।
"नीतिः देशम् उत्कर्षं नयति।"
Tamil
Tamil
நீதி: : நீதி, ஒழுக்கம், நடத்தை, வழிமுறை, கொள்கை.
अमरकोशः
Sanskrit
Word: नीतिः
Root: नीतिः
Gender: undefined
Number: undefined
Meaning(s):
fitness
propriety
non-deviation
Shloka(s):
2|8|24|1 अभ्रेषन्यायकल्पास्तु देशरूपं समञ्जसम्। (क्षत्रियवर्गः)
3|2|9|1 ओषः प्लोषे नयो नाये ज्यानिर्जीर्णौ भ्रमो भ्रमौ। (सङ्कीर्णवर्गः)
3|3|139|1 धर्माः पुण्ययमन्यायस्वभावाचारसोमपाः। (नानार्थवर्गः)
Synonym(s):
2|8|24|1 अभ्रेषः (अभ्रेष) (पुं)
2|8|24|1 न्यायः (न्याय) (पुं) law, rule, plan, model, axiom, method, system, manner, lawsuit, fitness, analogy, justice, standard, likeness, propriety, judgement, legal proceeding, judicial sentence, general or universal rule, right or fit manner or way, popular maxim or apposite illustration, logical or syllogistic argument or inference, system of philosophy delivered by gotama or gautama, that into which a thing goes back i.e. an original type
2|8|24|1 कल्पः (कल्प) (पुं) age, fit, law, mode, idea, able, rule, form, epoch, prime, early, almost, period, ritual, proper, resolve, feasible, pharmacy, research, practice, possible, equal to, ordinance, competent, resembling, proceeding, similar to, alternative, practicable, determination, investigation, kind of dance, sacred precept, one of two cases, tree of paradise, manner of curing, manner of acting, almost resembling, treatment of the sick, fabulous period of time, one side of an argument, art of preparing medicine, particular abode of deities, doctrine of poisons and antidotes, most complete of the six vedAGgas, like but with a degree of inferiority, having the manner or form of anything
2|8|24|1 देशरूपम् (देशरूप) (नपुं)
2|8|24|1 समञ्जसम् (समञ्जस) (नपुं) fit, good, truth, sound, right, proper, fitness, correct, propriety, excellent, consistency, correct evidence
3|2|9|1 नयः (नय) (पुं) fit, plan, maxim, right, guide, method, reason, polity, wisdom, design, system, proper, conduct, leading, doctrine, prudence, conductor, behaviour, principle, leading thought, good management, prudent conduct or behaviour, civil and military government, kind of game and a sort of dice or men for playing it
3|2|9|1 नायः (नाय) (पुं) guide, means, policy, leader, guidance, direction, expedient
3|3|139|1 धर्मः (धर्म) (पुं) bow, law, duty, mark, usage, right, thing, custom, virtue, manner, nature, statute, justice, morality, property, religion, practice, upaniSad, devotion, ordinance, attribute, character, to become, observance, good works, moral merit, peculiarity, righteousness, ninth mansion, dharmA-knowing, religious merit, steadfast decree, particular ceremony, propriety of conduct, religious abstraction, law of Northern Buddhism, Law or Justice personified, law or doctrine of Buddhism, ethical precepts of Buddhism, associating with the virtuous, that which is established or firm, peculiar condition or essential quality, customary observance or prescribed conduct
Related word(s):
जातिः मानसिकभावः
शब्दकल्पद्रुमः
Sanskrit
नीतिः,
स्त्री,
(नीयन्ते संलभ्यन्ते उपायादयऐहिकामुष्मिकार्था वास्यामनया वा नी +अधिकरणे करणे वा क्तिन् ।) नयः (नी +भावे क्तिन् ।) प्रापणम् इति मेदिनी ते, ३०
अथ नीतिशास्त्रं लिख्यते ।“नयस्य विनयो मूलं विनयः शास्त्रनिश्चयः ।विनयो हीन्द्रियजयस्तद्युक्तशास्त्रमिच्छति
आत्मानं प्रथमं राजा विनयेनोपपादयेत् ।ततोऽमात्यान् ततो भृत्यांस्ततः पुत्त्रांस्ततः प्रजाः
सदानुरक्तप्रकृतिः प्रजापालनतत्परः ।विनीतात्मा हि नृपतिर्भूयसीं श्रियमश्नुते
एवंकरणसामर्थ्यात् संयम्यात्मानमात्मना ।नयानयनविद्राजा कुर्व्वीत हितमात्मनः
जितेन्द्रियस्य नृपतेर्नीतिशास्त्रानुसारिणः ।भवन्त्युज्ज्वलिता लक्ष्म्यः र्कीत्तयश्च नभस्पृशः
”इति नीतिमयूखद्वितीयप्रयागः
सगर उवाच ।“यया नीत्या प्रयोक्तव्यः सुत आत्मा प्रिया तथा ।तेषां विशेषैः सहितं सदाचारं वदस्व मे
”और्व्व उवाच ।क्रमेण शृणु राजेन्द्र ! यया नीत्या नियुज्यते ।आत्मा सुतो वा भार्य्या वा तद्विशेषं शृणुष्व मे
ज्ञानवृद्धांस्तपोवृद्धान् वयोवृद्धान् सुदक्षिणान् ।सेवेत प्रथमं विप्रानसूयापरिवर्ज्जितान्
तेभ्यश्च शृणुयान्नित्यं वेदशास्त्रविनिर्णयम् ।यदूचुस्ते तत् कार्य्यं प्राज्ञैश्चैतन्नृपश्चरेत्
पञ्चेन्द्रियाणि पञ्चाश्वाः शरीरं रथ उच्यते ।आत्मा रथी कशा ज्ञानं सारथिर्म्मन उच्यते
अश्वान् सुदान्तान् कुर्व्वीत सारथिं चात्मनोवशम् ।कशा भूप ! दृढा कार्य्या शरीरस्थिरता तथा
अदान्तांस्तु समारुह्य सैन्धवान् स्यन्दनी यथा ।अश्वानामिच्छया गच्छन्नुत्पथं प्रतिपद्यते
यत्रावशः सारथिस्तु स्वेच्छया प्रेरयन् हयान् ।नयेत् परवशं सम्यक् प्रथितं वीरमप्युत
यथेन्द्रियाणि नृपतिर्व्विषयाणां परिग्रहे ।स्ववश्यानि प्रकुर्व्वीत मनोज्ञानं दृढं तथा
ज्ञाने दृढे कशायां वा दृढायां नृपसत्तम ! ।सारथिः स्ववशो दान्तोऽनीशः प्ररयितुं हयान्
अतो नृपः स्वेन्द्रियाणि वशे कृत्वा मनस्तथा ।ज्ञानमार्गमधिष्ठाय प्रकुर्व्वीतात्मनो हितम्
भोक्तव्यं स्वेच्छया भूपो कुर्य्यादुत्पथे रतिम् ।द्रष्टव्यामाति द्रष्टव्यं द्रष्टव्यञ्च स्वेच्छया
श्रोतव्यमिति श्रोतव्यं नाधिकं श्रवणे चरेत् ।शास्त्रतत्त्वमृते धीरः श्रुतिवश्यो भवेन्नहि
एवं घ्राणं त्वचं वापि वशीकृत्येच्छया नृपः ।स्वेच्छयैवोपभुञ्जीत नोद्दामं विषयं व्रजेत्
एवं यदि भवेद्राजा तदा स्याज्जितेन्द्रियः ।जितेन्द्रियत्वे हेतुश्च शास्त्रवृद्धोपसेवनम्
अवृद्धसेव्यशास्त्रज्ञो नृपः शत्रुवशो भवेत् ।तस्माच्छास्त्रमधिष्ठाय भवेद्राजा जितेन्द्रियः
धृतिः प्रागल्म्यमुत्साहो वाक्पटुत्वं विवेचनम् ।दक्षत्वं धारयिष्णुत्वं दानं मैत्री कृतज्ञता
दृढशासनता सत्यं शौचं मतिविनिश्चयः ।पराभिप्रायवेदित्वं चारित्वं धैर्य्यमापदि
क्लेशधारणशक्तिश्च गुरुदेवद्विजार्च्चनम् ।अनसूया ह्यकोपित्वं गुणानेतान्नृपोऽभ्यसेत्
कार्य्याकार्य्यविभागञ्च धर्म्मार्थौ काममेव ।दानस्य विषये सामयोगमेवोपलक्षते
सततं प्रतिबुध्येत कुर्य्यादवसरेऽपि तत् ।साम दानञ्च भेदश्च दण्डश्चेति चतुष्टयम्
ज्ञात्वोपायांस्तु तत्स्थाने तानुपायान् प्रयोजयेत् ।साम्नस्तु विषये भेदो यध्यमः परिकीर्त्तितः
दानस्य विषये दण्डो ह्यधमः परिकीर्त्तितः ।दण्डस्य विषये दानं तदप्यधममुच्यते
साम्नस्तु गोचरे दण्डो ह्यधमादधमः स्मृतः ।सौजन्यं सततं ज्ञेयं भृभृतो भेददण्डयोः
साम्नो दानस्य तथा सौजन्यं याति गोचरे
कामः क्रोधश्च लोभश्च हर्षो मानमदौ तथा ।एतानतिशयान्राजा शत्रूनिव विशातयेत्
सेव्याः कालेषु युक्त्यैते लोभगर्व्वौ विवर्ज्जयेत् ।तेज एव नृपाणान्तु तीव्रं सूर्य्यस्य वै यथा
तत्र गर्व्वं रोगयुक्तकायवत्तन्तु संत्यजेत् ।आखेटकाक्षौ स्त्रीसेवा पानञ्चैवात्मदूषणम्
वाग्दण्डयोश्च पारुष्यं सप्तैतानि विवर्ज्जयेत् ।परस्त्रीषु विरक्तासु सेवामेकान्ततस्त्यजेत्
सतीषु निजनारीषु प्रेम्णा कुर्य्याच्च सेवनम् ।रतिपुत्त्रफला दारास्तांस्तु नैकान्ततस्त्यजेत्
तयोः सिद्ध्यै स्त्रियः सेव्या वर्ज्जयित्वातिसक्तताम् ।मृगयान्तु प्रमादानां स्थानं नित्यं विवर्ज्जयेत्
अक्षांस्तथा कुर्व्वीत सत्कार्य्यासक्तिनाशनान् ।अन्यैः कृतं कदाचित्तु सेवेत नात्मनाचरेत्
अकार्य्यकरणे बीजं कृत्यानाञ्च विवर्ज्जनम् ।वर्जयेत् सततं पानं शौचमाङ्गल्यनाशनम् ।अर्थक्षयकरं नित्यं यजेच्चैवात्मदूषणम्
अभिशस्तेषु चौरेषु घातकेष्वाततायिषु ।सततं पृथिवीपालो दण्डपारुष्यमाचरेत्
नान्यत्र दण्डपारुष्यं कुर्य्यान्नृपतिसत्तमः ।वाक्पारुष्यन्तु सर्व्वत्र नैव कुर्य्यात् कदाचन
रक्षणीयं सदा सत्यं सत्यमेकं परायणम् ।क्षमां तेजस्विताञ्चैव प्रस्तावान्नृप आचरेत्
यान्नासनाश्रयद्वैधसन्धयो विग्रहस्तथा ।अभ्यसेत् षड्गुणानेतान तेषां स्थानञ्च शाश्वतम्
यः प्रमाणं जानाति स्थाने वृद्धौ तथा क्षये ।कोषे जनपदे दण्डे राज्येऽवतिष्ठते
कोषे जनपदे दण्डे चैकैकत्र त्रयं त्रयम् ।प्रस्तावाद्विनियुञ्जीत रक्षेन्नैकान्ततस्त्विमान्
मित्रे शत्राबुदासीने प्रभावं त्रिष्वपीरयेत् ।उतसाहो विजिगीषायां धर्म्मकृत्येऽष्टवर्गके
शरीरयात्रानिर्व्वाहे क्रियेत सततं नृपैः ।मन्त्रनिश्चयसम्भूतां बुद्धिं सर्व्वत्र योजयेत्
अमात्ये शात्रवे राज्ये पुत्त्रेष्वन्तःपुरेषु
*
कृषिदुर्गञ्च बाणिष्यं खल्यानां करसाधनम् ।आदानं सैन्यकरयोर्ब्बन्धनं गजवाजिनोः
शून्यसद्ममुखानाञ्च योजनं सततं जनैः ।प्रपाणागारसेतूनां रक्षणञ्चेति चाष्टमम्
एतदष्टासु वर्गेषु चारान् सम्यक् प्रयोजयेत्
कार्य्याकार्य्यविभागाय चाष्टवर्गाधिकारिणाम् ।अष्टौ चारान्नियुञ्जीयादष्टवर्गेषु पार्थिवः
दशस्वन्येषु युञ्जीत क्रमतः शृणु तानि मे ।स्वामिसचिवराष्ट्राणि मित्रं कोषो बलन्तथा
दुर्गन्तु सप्तमं ज्ञेयं राज्याङ्गं गुरुभाषितम् ।दुर्गयुक्तञ्चाष्टवर्गे चारं नात्मनि योजयेत्
तस्मादिमानि शेषाणि पञ्च चारपदानि तु ।शुद्धान्तेष्वेव पुत्त्रेषु स्रक्पूपादौ महानसे
शत्रूदासीनयोश्चैव बलाबलविनिश्चये ।आदौ दशसु चैतेषु चारान्राजा प्रयोजयेत्
यत् प्रकाशं जानीयात् तत्तु चारैर्निरूपयेत् ।निरूप्य तत्प्रतीकारमवश्यं छिद्रतश्चरेत्
यथा नियोगमेतेषां यो यो यत्रान्यथाचरेत् ।ज्ञात्वा तत्र नृपश्चारैर्दण्डयेद्वा नियोजयेत्
चारांस्तु मन्त्रिणा सार्द्धं रहस्ये संस्थितो नृपः ।प्रदोषसमये पृच्छेत्तदानीमेव साधयेत्
स्वपुत्त्रे चाथ शुद्धान्ते ये तु चारा महानसे ।नियुक्तास्तान् मध्यरात्रौ पृच्छेद्यश्चापि मन्त्रिणि
एतान् चारान् स्वयं पश्येन्नृपतिर्मन्त्रिणा विना ।अन्यांश्च मन्त्रिणा सार्द्धं निरूप्य प्रदिशेत् फलम्
नैकवेशधरश्चारो नैको नोत्साहवर्ज्जितः ।संस्तुतो नहि सर्व्वत्र नातिदीर्घो वामनः
सततं दिवाचारी रोगी नाप्यबुद्धिमान् ।न वित्तविभवैर्हीनो भार्य्यापुत्त्रवर्ज्जितः
कार्य्यश्चारो नृपतिना गुह्यतत्त्वविनिर्णये ।अनेकवेशग्रहणक्षमं भार्य्यासुतैर्य्युतम्
बहुदेशवचोऽभिज्ञं पराभिप्रायवेदकम् ।दृढभक्तं प्रकुर्व्वीत चारं शक्तमसाध्वसम्
अधितिष्ठेत् स्वयं राजा कृषिमात्मसमैस्तथा ।बणिक्पथे दुर्गादौ तेषु शक्तान्नियोजयेत्
अन्तःपुरे पितुस्तुल्यान् धीमान् वृद्धान्नियोजयेत् ।षण्डान पण्डांस्तथा वृद्धान् स्त्रियो या बुद्धितत्-पराः
*
शुद्धान्तद्बारि युञ्जीयात् स्त्रियो वृद्धा मनीषिणीः ।नैकः स्वपेत् कदाचित्तु नैको भुञ्जीत पार्थिवः
नैकाकिनीन्तु महीषीं व्रजेन्मैत्राय नैककः ।अमात्यानुपधाशुद्धान् भार्य्याः पुत्त्रांस्तथैव
प्रकुर्य्यात् सततं भूपः स्वप्रसादं समाचरन् ।धर्म्मार्थकाममोक्षैश्च प्रत्येकपरिशोधनैः
उपेत्य धीयते यस्मादुपधा परिकीर्त्तिता ।अथ कामोपधाभ्यान्तु भार्य्याः पुत्त्रांस्तु शोधयेत्
धर्म्मापधाभिर्विप्रांस्तु सर्व्वाभिः सचिवान् पुनः ।एभिर्यज्ञैस्तथा दानैरिहैव नृपता भवेत्
*
तस्माद्भवांस्तु राज्यार्थी धर्म्ममेवं समाचरेत् ।अनेनैवाभिचारेण यज्ञैर्वा पार्थिवो ह्ययम् ।प्राणांस्त्यक्ष्यति राजा त्वं भविष्यसि संशयः
इति धर्म्मो नृपस्यैव अश्वमेधादिकञ्च यत् ।स्वयं कुरुते भूपस्तस्मात्त्वं कुरु सत्तम !
एवं मन्त्रैर्मन्त्रयित्वा नृपः कार्त्तान्तिकान् द्विजान् ।तैर्ज्ञातान् स्वयं ज्ञात्वा गृह्णीयात्तस्य तैर्म्मनः
यदि राज्याभिलाषेण सचिवो धर्म्ममाचरेत् ।नृपतौ वाधिकं कुर्य्याद्धर्म्मं तं हीनतां नयेत्
आभिचारिकमत्यर्थं कुर्व्वाणन्तु विघातयेत् ।प्रवासयेद्ब्राह्मणन्तु पार्थिवो ह्याभिचारिकम्
एषां धर्म्मोपधा ज्ञेया तैरमात्यान् सदा चरेत् ।एतादृशीं तथैवान्यामुपधां धर्म्मतश्चरेत्
*
कोषाध्यक्षान् समामन्त्र्य राजामात्यान् प्रती-रयेत् ।पुत्त्रानन्यान् प्रति तथामन्त्र्य संवरणक्षमान्
अयं हि प्रचुरः कोषो सदायत्तो नरोत्तम ।आनये तव सम्मत्या तद्यदि त्वं प्रतीच्छसि
तवान्नलब्धादस्माकं जीवनञ्च भविष्यति ।त्वञ्चापि प्रचुरैः कोषैः किं किं नो वा करिष्यसि ।एवमन्यैः कोषगतैरुपायैनृपसत्तम
पुत्त्रामात्यादिकान् सर्व्वान् सततं परिशोधयेत् ।कोषदोषकरान् हन्याद्धर्त्तुमिच्छून्निवारयेत्
द्वैधचित्तान् विमन्येत कुर्य्याद्वै कोषरक्षणम्
*
दासीश्च शिल्पिनीर्वृद्धा मेधाधृतिमतीः स्त्रियः
अन्तर्ब्बहिश्च या यान्ति विदिता सचिवादिभिः ।ता राजा रहसि स्थित्वा भार्य्यादिभिरलक्षितः
अभिमन्त्र्याथ संमन्त्र्य प्रेरयेत् सचिवान् प्रति ।ता गत्वा हृदयं बुद्ध्वा स्त्रियो वै ज्ञानतत्पराः
महिषीप्रमुखा राज्ञस्त्वां वै कामयते शुभाः ।तत्राहं योजयिष्यामि यदि ते वर्त्तते स्पृहा
सचिवस्त्वां कामयते त्वद्योग्यो वरवर्णिनि ! ।तं सङ्गमयितुं शक्ता यदि श्रद्धा तवास्त्यहम्
इत्यनेन प्रकारेण नानोपायैस्तथेतरैः ।भार्य्याः पुत्त्रीर्दुहितॄश्च स्नुषाश्च प्रस्नुषास्तथा
शोधयेत् सचिवान् पुत्त्रान् पौत्त्रादीन् सेवकां-स्तथा ।कामोपधाविशुद्धांस्तु घातयेदविचारयन्
स्त्रियश्च दण्ड्या योग्येन ब्राह्मणांस्तु प्रवासयेत् ।मोक्षमार्गावसक्तन्तु हिंसापैशुन्यवर्ज्जितम् ।क्षमैकसारं नृपतिः सचिवं परिवर्ज्जयेत्
मोक्षमार्गावसक्तांस्तु दण्ड्यानपि दण्डयेत् ।समबुद्धिस्तु सर्व्वत्र तस्मात्तं परिवर्ज्जयेत्
*
इति सूत्रं चोपधानामुपधां बहुधा पुनः ।विवेचिता चोशनसा तच्छास्त्रे तत्र बोधयेत्
विग्रहं सततं राजा परैर्न सम्यगाचरेत् ।भूवित्तमित्रलाभेषु निश्चितेष्वेव विग्रहः
सप्ताङ्गेष्वप्रमादश्च सदा कार्य्यो नृपोत्तमैः ।कोषस्य सञ्चयं रक्षां सततं सम्यगाचरेत्
*
मन्त्रिणस्तु नृपः कुर्य्याद्बिप्रान् विद्याविशारदान् ।विषयज्ञान् कुलीनांश्च धर्म्मार्थकुलजानृजून्
मन्त्रयेत्तैः समं काले नात्यर्थं बहुभिश्चरेत् ।एकैकेनैव कर्त्तव्यं मन्त्रस्य तु विनिश्चयम्
व्यस्तैश्चैव समस्तैश्च धान्यस्य व्यपदेशतः ।समुद्धृतं मन्त्रगृहं स्थलमारुह्य मन्त्रयेत्
अरण्ये निःशलाके वा यामिन्यां कदाचन ।शिशून् शाखामृगान् पण्डान् शुकान् वै शारि-कास्तथा
वर्ज्जयेन्मन्त्रगेहेषु मनुष्यानुद्धतांस्तथा ।दूषणं मन्त्रभेदेषु नृपाणां यत्र जायते
तच्छक्यं समाधातुं दक्षैर्नृपशतैरपि ।दण्ड्यांस्तु दण्डयेद्दण्डैरदण्ड्यान् दण्डयेन्नहि
अदण्डयन्नृपो दण्ड्यानदण्ड्यांश्चापि दण्डयन् ।नृपतिर्वाच्यतां प्राप्य चौरकिल्विषमाप्नुयात्
*
दुर्गन्तु सततं कुर्य्यात् प्राकाराट्टालतोरणैः ।दूषितान्नगराद्राजा दूरे दुर्गाश्रयं चरेत्
दुर्गं बलं नृपाणान्तु नित्यं दुर्गं प्रशस्यते ।शतमेको योधयति दुर्गस्थो यो धनुर्धरः
शतं दशसहस्राणि तस्माद्दुर्गं प्रशस्यते
जलदुर्गं भूमिदुर्गं वृक्षदुर्गं तथैव ।अरण्यवनदुर्गञ्च शैलजं परिखोद्भवम् ।दुर्गं कार्य्यं नृपतिना यथायोग्यं स्वदेशतः
दुर्गङ्कुर्व्वन् पुरङ्कुर्य्यात्त्रिकोणं धनुराकृति ।वर्त्तुलं वा चतुष्कोणं नान्यथा नगरञ्चरेत्
मृदङ्गाकृतिदुर्गञ्च सततं कुलनाशनम् ।यथा राक्षसराजस्य लङ्का दुर्गा जिता पुरा
बलेः पुरं शोणिताख्यं तेजो दुर्गे प्रतिष्ठितम् ।यतस्तद्व्यजनाकारमतो भ्रष्टः श्रिया बलिः
सौभाख्यं शाल्बराजस्य नगरं पञ्चकोणकम् ।दिवि यद्बर्त्तते राजंस्तच्च भ्रष्टं भविष्यति
यच्चायोध्याह्वयं भूप ! पुरमिक्ष्वाकुभूभुजाम् ।धनुराकृति तच्चापि ततो भूरिजयप्रदम्
दुर्गभूमौ यजेद्दुर्गां दिक्पालांश्चैव द्बारतः ।पूजयित्वा विधानेन जयं भूपः समाप्नुयात् ।ततो दुर्गं नृपः कुर्य्यात् सततं जयवृद्धये
*
ब्राह्मणान् सदा राजा कदाचिदवमन्यते ।अवमत्य नृपो विप्रान् प्रेत्येह दुःखमाग्भवेत्
विरोधस्तु तैः कार्य्यः स्वानि तेषां चाददेत् ।कृत्यकालेषु सततं तानेव परिपूजयेत् ।नैषां निन्दां प्रकुर्व्वीत नाभ्यसूयां तथाचरेत्
एवं नृपो महाबुद्धिस्तद्भूमण्डलसंयतः ।अप्रमादी चारचक्षुर्गुणवान् सुप्रियंवदः
प्रेत्येह महतीं सिद्धिं प्राप्नोति सुखभोगवान् ।यैर्गुणैर्योजितश्चात्मा तैः पुत्त्रानपि योजयेत्
नृपस्य स्वतन्त्रत्वं सततं स्वं विनाशयेत् ।स्वतन्त्रो भूपतनयो विकारं याति निश्चयम्
निर्व्विकाराय सततं तमुच्चैः परिपूजयेत् ।भोजने शयने पाने पुरुषाणाञ्च वीक्षणे
नियोजयेत् सदाचारान् भूपः कामविचेष्टने ।अस्वतन्त्राः स्त्रियो नित्यं हानये संभवन्ति हि
तस्मात् कुमारं महिषीमुपधाभिर्म्मनोहरैः
शोधयित्वा नियुञ्जीत यौवराज्यावरोधयोःअन्तःपुरप्रवेशे तु स्वतन्त्रत्वं निषेधयेत्
भूपपुत्त्रस्य भार्य्याया बहिःसारे तथैव ।अयं विशेषः संक्षेपान्नृपधर्म्मो मयोदितः
पुत्त्राणां गुणविन्यासो भार्य्याणामपि भूपते ।उशना राजनीतीनां तन्त्राणि बृहस्पतिः
चकारान्यान् विशेषांस्तु तयोस्तन्त्रेषु शोधयेत् ।एवं राजा महाभागो राजनीतौ विशेषताम् ।कुर्व्वन्न सीदति सदा भूयसीं श्रियमश्नुते
”इति कालिकापुराणे राजनीतिविशेषे ८५अध्यायः
*
अन्यत्तु औशनससूत्रकामन्दकपञ्चतन्त्रनीति-मयूखहितोपदेशचाणक्यभारतीय-राजधर्म्मादौद्रष्टव्यम्
कृदन्तरूपमाला
Sanskrit
1 {@“णीङ् प्रापणे”@} 2 प्रापणम् = आसादनम्।
नायकः- 3 परिणायकः-यिका, नायकः-यिका, 4 निनीषकः-षिका-नेनीयकः-यिका
नेता-त्री, 5 दुरितापनेत्री, नाययिता-त्री, निनीषिता-त्री
अनुनयन्-न्ती, 6 7 विनयन्, नाययन्-न्ती, निनीषन्-न्ती
-- नेष्यन्-न्ती-ती, नाययिष्यन्-न्ती-ती, निनीषिष्यन्-न्ती-ती
8 9 नयमानः, 10 11 नयमानः, 12 उन्नयमानः, 13 14 उपनयमानः-15 नयमानः, 16 उपनयमानः, 17 विनयमानः, 18 विनयमानः, 19 20 विनयमानः, नाययमानः, निनीषमाणः, नेनीयमानः
नेष्यमाणः, नाययिष्यमाणः, निनीषिष्यमाणः, नेनीयिष्यमाणः
21 अग्रणीः, ग्रामणीः-ग्रामण्यौ-ग्रामण्यः, 22 तिथिप्रणीः, सेनानीः 23
-- नीतः-नीतम्-नीतवान्, नायितः, निनीषितः, नेनीयितः-तवान्
24 नायः, अनुनयः-नयः, 25 उष्ट्रप्रणायः- 26 नेष्टा-नेता, 27 नेत्रम्, 28 अनुनायकः, अनुनायिका, नायः, निनीषुः, अनुनिनीषुः, 29 30 नेन्यः
नेतव्यः, नाययितव्यः, निनीषितव्यः, नेनीयितव्यः
नयनीयः, नायनीयः निनीषणीयः, नेनीयनीयः
31 नेयम्- 32 विनीयः-33 विनेयः, 34 आनाय्यः 35 आनेयः 36, 37 प्रणाय्यः 38 39, प्रणेयः, 40 सान्नाय्यम् 41, नाय्यम्, निनीष्यम्, नेनीय्यम्
-- -- ईषन्नयः- 42 दुर्नयः-सुनयः
-- -- -- नीयमानः, नाय्यमानः, निनीष्यमाणः, नेनीय्यमानः
43 नायः, निर्णयः-दुर्नयः-प्रणयः-सुनयः-अनुनयः-विनयः-उपनयः, 44 नयः, उन्नयः, 45 अवनायः-उन्नायः, 46 परिणायः-परिणयः, 47 आनायः 48, नायः, निनीषः, नेनीयः
नेतुम्, नाययितुम्, निनीषितुम्, नेनीयितुम्
नीतिः, नायना, निनीषा, नेनीया
49 नयनम्, नायनम्, निनीषणम्, नेनीयनम्
नीत्वा, नाययित्वा, निनीषित्वा, नेनीयित्वा
प्रणीय, प्रणाय्य, प्रणिनीष्य, प्रणेनीय्य
नायम् २, नीत्वा २, नायम् २, नाययित्वा २, निनीषम् २, निनीषित्वा २, नेनीयम्
नेनीयित्वा २। 50 इति ऋप्रत्ययः, डिद्वद् भवति।
नयतीति ना = मनुष्यः।]] ना, नेमः, 51 मन्प्रत्यये गुणः।
नेमः = अर्धम्।]] नीरम्।
52 रक्प्रत्यये रूपम्।
नीरम् = जलम्।]]
प्रासङ्गिक्यः
01
=>
(६८०)
02
=>
(१-भ्वादिः-९०१। सक। अनि। उभ।)
03
=>
[[B। ‘अनुदेहमागतवतः प्रतिमां परिणायकस्य गुरुमुद्वहता।’ शि। व। ९। ७३। ९-७३।]]
04
=>
[[२। धातोरस्यानुदात्तत्वात्, ‘एकाच उपदेशेऽनुदात्तात्’ (७-२-१०) इतीण्णिषेधे, ‘इको झल्’ (१-२-९) इति सनः कित्त्वात् गुणः। ‘अज्झनगमां सनि’ (६-४-१६) इति दीर्घः। एवं सन्नन्ते सर्वत्र ज्ञेयम्।]]
05
=>
[[C। ‘धृतप्रमोदो दुरितापनेत्रीं स्नातुं नदीमाप गान्दिनेयः।।’ धा। का। २। २९।]]
06
=>
[गडुं]
07
=>
[[३। ‘कर्तृस्थे चाशरीरे कर्मणि’ (१-३-३७) इत्यत्र शरीरावयवभिन्ने कर्मणि इति व्या- ख्यानात्, कर्तृगामिन्यपि क्रियाफले नात्मनेपदं शानज् भवति। अपि तु शतैव।]]
08
=>
[अजां ग्रामं]
09
=>
[[४। ‘नीङ्धातोः संयोगानुकूलव्यापारानुकूलव्यापारार्थकत्वेन ‘कर्तुरीप्सिततमं कर्म’ (१-४-४९) इत्यनेनाजायाः प्रधानकर्मत्वम्। ग्रामस्य तु अप्रधानकर्मत्वमिति द्विती- याप्रयोगः सङ्गच्छते। यद्वा, ‘अकथितं च’ (१-४-५१) इत्यनेनाधारस्य ग्रामस्य तत्त्वाविवक्षायां कर्मसंज्ञा भवति, इति वा बोध्यम्।]]
10
=>
[शास्त्रे]
11
=>
[[५। ‘सम्माननोत्सञ्जनाचार्यकरणज्ञानभृतिविगणनव्ययेषु नियः’ (१-३-३६) इत्यनेन क्रमेण सप्तस्वर्थेषु विषयभूतेषु आत्मनेपदं भवति--परगामिन्यपि क्रियाफले। सम्माननम् = पूजनम्। ‘शास्त्रे नयमान’ इत्यत्र शास्त्रबोध्यम् अर्थं शिष्येभ्यः प्रापयतीत्यर्थः। तेन शिष्यसम्माननं फलितम्। उत्सञ्जनम् = उत्क्षेपणम्। आचार्यकरणम् = आचार्यक्रिया। विधिना आत्मसमीपं प्रापयन् इत्यर्थः। ज्ञानम् = प्रमेयनिश्चयः। भृतिः = वेतनम्। भृतिदानेन स्वसमीपं प्रापयन् इत्यर्थः। विगणनम् = ऋणादेर्नियातनम्। राज्ञे देयं भागं परिशोधयन् इत्यर्थः। व्ययः = धर्मार्थं विनियोगः। धर्मार्थिं शतं विनियुञ्जान इत्यर्थः।]]
12
=>
[दण्डम्]
13
=>
[पृष्ठम्०६२९+ २८]
14
=>
[माणवकं]
15
=>
[तत्त्वं]
16
=>
[कर्मकरान्]
17
=>
[करं]
18
=>
[शतं]
19
=>
[क्रोधं]
20
=>
[[१। ‘कर्तृस्थे चाशरीरे कर्मणि’ (१-३-३७) इति शानच्। क्रोधम् अपगमयन् इत्यर्थः।]]
21
=>
[[२। ‘सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप्’ (३-२-६१) इति क्विप्। ‘अग्रग्रामाभ्यां नयतेर्णो वाच्यः’ इति वचनेन णत्वम्। नयतेरित्युक्तेः ‘ग्रामणायः’ इति कर्मण्यण्यपि णत्वं भवति। स्पष्टमिदं ‘वाऽसरूपोऽस्त्रियाम्’ (३-१-९४) इत्यत्र भाष्ये।]]
22
=>
[[आ। ‘सायन्तनीं तिथिप्रण्यः पङ्कजानां दिवातनीम्’। भ। का। ५। ६५।]]
23
=>
[[B। ‘सार्धं कुमारसेनान्या शून्यश्चासीति को नयः।।’ भ। का। ५। ७।]]
24
=>
[[३। ‘दुन्योरनुपसर्गे’ (३-१-१४२) इति कर्तरि णप्रत्ययः। उपसृष्टात्तु पचाद्यजेव। केवलात् नीधातोः कर्तरि नय इति प्रयोगस्तु बाहुलकात् बोध्यः। ‘दुन्योः--’ (३-१-१४२) इत्यत्र, ‘वेति केचित्’ इति प्रक्रियाकौमुदी।]]
25
=>
[[४। ‘कर्मण्यण्’ (३-२-१) इति प्रपूर्वकनीधातोरणि, ‘उपसर्गादसगासे--’ (८-४-१४) इति णत्वे रूपम्।]]
26
=>
[[५। ‘तृन्’ (३-२-१३५) इति ताच्छीलिके तृनि, ‘नयतेः षुक् च’ (वा। ३-२-१३५) इति षुगागमे रूपम्। नेष्टा = ऋत्विग्विशेषः।]]
27
=>
[[६। ‘दाम्नीश--’ (३-२-१८२) इत्यादिना करणे ष्ट्रन्प्रत्ययः। नेत्रम् = चक्षुरिन्द्रियम्।]]
28
=>
[[७। ‘तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्’ (३-३-१०) इति क्रियार्थायां क्रियायां सत्यां भविष्यति ण्वुल्। स्त्रियाम्, ‘प्रत्ययस्थात्--’ (७-३-४४) इतीत्वम्।]]
29
=>
[[C। ‘पराक्रपज्ञः प्रि{??}सन्ततिस्तं नम्रः क्षितीन्द्रोऽतुनितीषुरूचे।।’ भ। का। २। ५१।]]
30
=>
[[८। यङन्तात् पचाद्यचि (३-१-१३४) अङ्गस्यानेकाचत्वात् ‘एरनेकाचः--’ (६-४-८२) इति यणादेशः।]]
31
=>
[पृष्ठम्०६३०+ ३०]
32
=>
[[१। ‘विपूयविनीयजित्या मुञ्जकल्कहलिषु’ (३-१-११७) इति सूत्रेण विपूर्वकादस्मात् क्यपि रूपं निपातितम्। विनीयः = कल्कः। ‘पिष्टौषधे पक्वान्नतैलादीना- मृजीषे, पाके वर्तते।’ इति माधवधातुवृत्तिः।]]
33
=>
[कल्कः]
34
=>
[[२। ‘आनाय्योऽनित्ये’ (३-१-१२७) इत्यनेन आङ्पूर्वादस्माण्ण्यति, आयादेशो निपात्यते। आनीयते इत्यानाथ्यः = दक्षिणाग्निविशेषः। ‘स हि गार्हपत्यादा- नीयते, अनित्यश्च सततमप्रज्वलनात्। ‘आनाय्यः = गोधुक्।’ इति क्षीरस्वामी। आनेयोऽन्यः घटादिः।’ इति सिद्धान्तकौमुदी।]]
35
=>
[दक्षिणाग्निः]
36
=>
[घटः]
37
=>
[[३। ‘प्रणाय्योऽसम्मतौ’ (३-१-१२८) इति प्रपूर्वकादस्मात् ण्यदायादेशौ निपात्येते असम्मतावर्थे। सम्मतिः = प्रीतिविषयीभवनम्, भोगेष्वादरश्च। तद्भिन्नोऽर्थो- ऽसम्मतिः। चोरः प्रणाथ्यः = प्रीत्यनर्हः। शिष्यः प्रणाय्यः = विरक्तः।]]
38
=>
[[आ। ‘न प्रणाय्यो जनः कच्चिन्निकाय्यं तेऽधितिष्ठति।’ भ। का। ६। ६७।]]
39
=>
[चोरः, विरक्तश्च]
40
=>
[[४। ‘पाय्यसान्नाय्य--’ (३-१-१२९) इत्यादिना ण्यदायादेशयो रूपमेवम्। सान्ना- य्यम् = दधिपयसी।]]
41
=>
[हविः]
42
=>
[[५। माधवधातुवृत्तौ तु ‘दुर्णयः’ इति णत्वविशिष्टतया रूपमुपलभ्यते। ‘दुरः षत्वणत्वयोः--’ (वा। १-४-६०) इति वचनात् णत्वाभावविशिष्ट एव शब्दः साधुरिति प्रतिभाति।]]
43
=>
[[६। ‘श्रिणीभुवोऽनुपसर्गे’ (३-३-२४) इति भावेऽजपवादो घञ्। उपसृष्टात्तु ‘एरच्’ (३-३-५६) इत्यजेव--निर्णयः इत्यादि।]]
44
=>
[[७। भावे नय इति तु बाहुलकात् ज्ञेयः। एवम् उन्नय इत्यपि।]]
45
=>
[[८। ‘अवोदोर्नियः’ (३-३-२६) इति अव-उत्पूर्वकादस्मात् घञि साधुः।]]
46
=>
[[९। ‘परिन्योर्नीणोर्द्यूताभ्रेषयोः’ (३-३-३७) इति परौ उपसर्गे घञ् द्यूतेऽभिधेये। परिणा- येन शारान् हन्ति। परिणायः = समन्तात् द्यूतसाधनानाम् अक्षाणां नयनम्।]]
47
=>
[[१०। ‘जालमानायः’ (३-३-१२४) इति जालेऽभिधेये आङ्पूर्वकादस्माद् घञ् संज्ञायाम्। ‘पुंसि संज्ञायां घः--’ (३-३-११८) इत्यस्यापवादः।]]
48
=>
[जालम्]
49
=>
[पृष्ठम्०६३१+ २५]
50
=>
[[१। ‘नयतेर्डिच्च’ [द। उ। २। ८।]
51
=>
[[२। औणादिके [द। उ। ७-२६।]
52
=>
[[३। औणादिके [द। उ। ८। ३१।]