| YouTube Channel

नीचः (nIcaH)

 
Wordnet
Sanskrit
Synonyms:
अधमः, क्षुद्रः, नीचः, नराधमः, अवमः
noun
भयदयालज्जाशून्यः पुरुषः।
"अधमः नीचकार्यं कर्तुं बिभेति।"
अमरकोशः
Sanskrit
Word: नीचः
Root: नीच
Gender: पुं
Number: all
Meaning(s):
low
deep
base
mean
vile
short
lowered
not high
inferior
dwarfish
depressed
insignificant
kind of perfume
Shloka(s):
2|10|16|1 विवर्णः पामरो नीचः प्राकृतश्च पृथग्जनः। (शूद्रवर्गः)
2|10|16|2 निहीनोऽपसदो जाल्मः क्षुल्लकश्चेतरश्च सः॥ (शूद्रवर्गः)
3|3|192|2 उदारो दातृमहतोरितरस्त्वन्यनीचयोः॥ (नानार्थवर्गः)
Synonym(s):
2|10|16|1 विवर्णः (विवर्ण) (पुं) low, wan, pale, vile, stupid, colorless, out-caste, colourless, unlettered, bad-coloured, without color, belonging to a mixed caste, man of low caste or of degrading occupation
2|10|16|1 पामरः (पामर) (पुं) low, base, fool, vile, idiot, wretch, wicked, villain, man of lowest extraction, affected with skin-disease
2|10|16|1 नीचः (नीच) (पुं) low, deep, base, mean, vile, short, lowered, not high, inferior, dwarfish, depressed, insignificant, kind of perfume
2|10|16|1 प्राकृतः (प्राकृत) (पुं) low, usual, vulgar, normal, artless, natural, ordinary, original, unrefined, Prakritic, vernacular, primordial, provincial, low or vulgar man, dissolution of the universe, resolution or re-absorption into prakRti, belonging to or derived from prakRti or the original element
2|10|16|1 पृथग्जनः (पृथग्जन) (पुं) fool, low man, villain, multitude, blockhead, low person, man fellow, vulgar man, common people, ordinary professing Buddhist, man of lower caste or character or profession
2|10|16|2 निहीनः (निहीन) (पुं)
2|10|16|2 अपसदः (अपसद) (पुं) outcast, castaway, children of six degrading marriages
2|10|16|2 जाल्मः (जाल्म) (पुं) vile, rogue, cruel, rascal, wretch, villain, contemptible, inconsiderate
2|10|16|2 क्षुल्लकः (क्षुल्लक) (पुं) low, poor, hard, vile, small, wicked, pained, little, indigent, youngest, malicious, abandoned, distressed, small shell
2|10|16|2 चेतरः (चेतर) (पुं)
3|3|192|2 इतरः (इतर) (पुं) low, vile, another, rejected, the rest, expelled, the other, this - that, different from, the one - the other, remaining one of two
Related word(s):
परा_अपरासंबन्धः शूद्रः
जातिः मनुष्यः
शब्दकल्पद्रुमः
Sanskrit
नीचः, त्रि, (निकृष्टामीं लक्ष्मीं शोभां चिनोतीति ।चि + “अन्येभ्योऽपि दृश्यते ।” इति डः ।) हीन-जातिकर्म्मा वर्व्वरः इत्यमरटीकायां भरतः
तत्पर्य्यायः विवर्णः पामरः प्राकृतः ४पृथग्जनः निहीनः अपसदः जाल्मः ८क्षुल्लकः इतरः १० इत्यमरः १० १६
अपशदः ११ खुल्लकः १२ इति भरतः
हीनः१३ क्षुल्लः १४ क्षुण्णः १५ वेतकः १६ इतिशब्दरत्नावली
नीचसङ्गदोषो यथा, --“न प्राप्नोति सुखं किञ्चिन्नीचसङ्गान्महानपि ।प्रेतसङ्गान्महादेवो नग्नो भस्मविभूषितः
प्रविश्य निलयं नीचः स्त्रीधनादिकमिष्यते ।स्वयं नेतुं शक्नोति तदा नाययति ध्रुवम्
स्थिते गुणेऽपि नीचस्तु यत्नाद्दोषं प्रपद्यते ।किञ्चित्तु सङ्गमासाद्य तदुक्तं स्यात् सनातनम्
सतां श्रुत्वा गुणं नीचः श्रोतुमायाति बन्धुवत् ।ततः समयमासाद्य प्रकाशयति तद्धसन्
मनस्येकं वचस्येकं कर्म्मण्येकं महात्मनाम् ।मनस्यन्यद्बचस्यन्यत् कर्म्मण्यन्यद्दुरात्मनाम्
”इति पाद्मे क्रियायोगसारे अध्यायः
अपि ।“बुद्धिश्च हीयते पुंसां नीचैः सह समागमात् ।मध्यमे मध्यतां याति श्रेष्ठतां याति वित्तमे
”इति शान्तिपर्व्व
*
अनुच्चः तत्पर्य्यायः वामनः न्यङ् ३खर्व्वः ह्रस्वः इत्यमरः ७०
(यथा, --“नीचरोमनखश्मशुनिर्म्मलाङ्घ्रिमलायनः ।स्नानशीलः ससुरभिः सुवेषोऽनुल्वणोज्ज्वलः ।धारयेत् सततं रत्नसिद्धमन्त्रमहौषधीः
”इति वाभटे सूत्रस्थाने द्वितीयेऽध्याये
)निम्नः यथा, --“शैत्यं नाम गुणस्तवैव सहजः स्वाभाविकीस्वच्छताकिं ब्रूमः शुचितां भवन्ति शुचयः स्पर्शेनयस्यापरे ।किञ्चान्यत् कथयामि ते स्तुतिपदं त्वं जीविनांजीवनंत्वञ्चेन्नीचपथेन गच्छसि पयः कस्त्वां निषेद्धुंक्षमः
”इति लक्ष्मणसेनः
*
चोरकनामगन्धद्रव्ये, पुं इति राजनिर्घण्टः