निरूह (nirUha)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishSpoken Sanskrit
Englishनिरूह - nirUha - - logic
निरूह - nirUha - - certainty
निरूह - nirUha - - one having no ellipsis
निरूह - nirUha - - complete sentence
निरूह - nirUha - - purging clyster
निरूह - nirUha - - disputation
निरूह - nirUha - - enema not of an oily kind
निरूह - nirUha - - ascertainment
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wilson
EnglishApte
Englishनिरूहः [nirūhḥ], 1 An enema, not of an oily kind.
Logic, disputation.
Certainty, ascertainment.
A purging clyster.
A sentence having no ellipsis, a complete sentence.
Apte 1890
EnglishMonier Williams Cologne
EnglishMonier Williams 1872
English1. निर्-ऊह, अस्, m. a purging clyster
an enema
not of an oily kind, = नि-ग्रह?
(for 2. निर्-
ऊह see below.)
—निरूह-वस्ति-विधि, इस्, m., N.
of the twenty-fifth chapter of the Śārṅga-dhara-saṃ-
hitā, a medical work by Śārṅga-dhara.
—निरूहा-
धिकार (°ह-अध्°), अस्, m., N. of a chapter of a
medical work by Vṛnda.
Apte Hindi
Hindiनिरूहः
- नि+रुह्+घञ्
वस्तिकर्म का एक प्रकार
निरूहः
- नि+रुह्+घञ्
"तर्क, युक्ति"
निरूहः
- नि+रुह्+घञ्
"निश्चितता, निश्चय"
निरूहः
- नि+रुह्+घञ्
"वाक्य जिसमेंन्यूनपद न हों, संपूर्ण वाक्य"
Shabdartha Kaustubha
Kannadaनिरूह
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ದೇಹದೊಳಗಿನ ದೋಷವನ್ನು ಹೋಗಲಾಡಿಸಲು ಪ್ರಯೋಗಿಸುವ ಒಂದು ವಿಧ ಬಸ್ತಿ ಕ್ರಿಯೆ/ಪಿಚಕಾರಿ
निष्पत्तिः - > निर्+ऊह(वितर्के) कर० "घञ्" (३-३-१२१)
प्रयोगाः - > "अनायान्तं मुहूर्तात्तु निरूहं शोधनैर्हरेत्। तीक्ष्णैर्निरूहैर्मतिमान् क्षारमूत्राम्लसंयुतैः"
उल्लेखाः - > सुश्रुत० चिकित्सा० ३८-१७
निरूह
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ತರ್ಕ/ವಾದವಿವಾದ/ಚರ್ಚೆ
निरूह
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಅಧ್ಯಾಹಾರಪದಗಳಿಲ್ಲದ ವಾಕ್ಯ
निरूह
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ನಿಶ್ಚಯ
विस्तारः - > "निरूहो बस्तिभेदे च ऊहशून्ये च निश्चिते" मेदि०
L R Vaidya
EnglishSanskrit Tibetan
Tibetanjam rtsi
निरूह
शब्दकल्पद्रुमः
Sanskritनिरूहः, (निर् + ऊह शून्ये + घञ् ।) वस्ति-भेदः । यथा, --“वस्तिर्द्विधानुवासाख्यो निरूहश्चेतिसंज्ञितः ।यः स्नेहैर्दीयते स स्यादनुवासननामकः ।कषायक्षीरतैलैर्यो निरूहः स निगद्यते ॥
”इति सारकौमुदी ॥
अथ निरूहवस्तिकर्म्मविधिः ।आत्रेय उवाच ।“चतुरङ्गुलां वेणुमयीं नाडीं प्रतिलक्षणं कृत्वातथा वस्तिप्रतिकर्म्म कुर्य्यात् ।नातिचोष्णे च काले च न शीते नच भोजिते ।न निद्रादौ न मूत्रार्त्ते विष्ठार्त्ते नच वेदभाक् ॥
वस्तिकर्म्मनिरूहञ्च कारयेत्तं निरस्य च ।आदौ मूत्रविष्ठोत्सर्गं कृत्वा गुदं प्रक्षाल्यनातिशिथिलशय्यायां शाययित्वा वामाङ्गे वाम-पादं दक्षिणाङ्गे दक्षिणपादञ्च सङ्कोच्य जङ्घो-परि संस्थाप्य गुदाभ्यन्तरे द्व्यङ्गुलमात्रां नाडींसुधीः सञ्चारयेत् । ततः शनैः शनैः वस्तिंनिष्पीड्य द्बिपलपरिमिततैलेन निरूहं कुर्य्यात् ।निरूहानन्तरं शनैः शनैरुत्तानं शाययित्वोर्ड्घी-कृत्य च पश्चात् सङ्कोच्य पाणिभिः पञ्चवारान्स्फिक्पिण्डान् त्रोटयेत् । ततः स्वस्थं कृत्वाक्षणेनाप्यामाशयं मलस्थानं बोधयति । वस्त्यु-दरवातान् दोषान् निवारयति । पण्डितास्तंवस्तिनिरूहं तद्वस्तिकर्म्म च विदुः ।” इतिहारीतोत्तरे सूत्रस्थाने तृतीयोऽध्यायः ॥
“नरो विरिक्तस्तु निरूहदानंविवर्ज्जयेत् सप्तदिनान्यवश्यम् ।शुद्धो विरेकेण निरूहदानंतद्ध्यस्य शून्यं विकृषेच्छरीरम् ॥
”“विश्वक्स्थितं दोषचयं निरस्यसर्व्वान् विकारान् शमयेन्निरूहः ।देहे निरूहेण विशुद्धमार्गेसस्नेहनं वर्णवलप्रदश्च ॥
”इति सिद्धिस्थाने प्रथमेऽध्याये ॥
“ससैन्धवक्षौद्रयुतः सतैलोदेयो निरूहो बलवर्णकारी ।आनाहपार्श्वामययोनिदोषान्गुल्मानुदावर्त्तरुजञ्च हन्यात् ॥
यष्ट्याह्वमूलाष्टपलेन सिद्धंपयः शताह्वाफलपिप्पलीभिः ।युक्तं ससर्पिर्मधुवातरक्तःवैस्वर्य्यवीसर्पहितो निरूहः ॥
”इति सिद्धिस्थाने तृतीयेऽध्याये चरकेणोक्तम् ॥
)ऊहशून्यः । निश्चितम् । इति मेदिनी । हे, १८ ॥
निग्रहः । तर्कः । इति हेमचन्द्रः ॥
वाचस्पत्यम्
Sanskritनिरूह निर् + ऊह--करणे घञ् । सुश्रुतोक्ते दोषनि-र्हरणोपावे वस्तिभेदे “तत्र द्विविधो वस्तिः नैरूहिकःस्वैहिकञ्च । आस्थापयं निरूह इत्यनर्थान्तरम् । तस्यविकल्पोमाधुतैलिकः । तस्य पर्य्यायशब्दो यापनोयुक्त-रयः सिद्धवस्तिरिति । स दोषनिर्हरणाच्छरीररोगहर-णाद्वा निरूहः वयःस्थापनादायुःस्थापनद्वाऽऽस्थापनम् ।माधुतैलिकविधानञ्च निरूहक्रमचिकित्सिते वक्ष्यामः” ।“तत्र यथाप्रमाणगुणविहितः स्नेहवस्तिविकल्पोऽनुवा-सनः पादावकृष्टः । अनुवसन्नपि न दुष्यत्यनुदिवसं वादीयते इत्यनुवासनः । तस्यापि विकल्पोऽर्द्धार्द्धमात्राव-कृष्टोऽपरिहार्य्यो मात्रावस्तिरिति” । “निरूहः शोधनो-ल्लेखी स्नेहनो वृंहणो मतः । निरूहशोधितान्मार्गान्सम्यक्स्नेहोऽनुगच्छति । अपेतसर्वदोषासु नाडीष्विववहज्जलम् । सर्वदोषहरश्चासौ शरीरस्य च जीवनः ।तस्माद्विशुद्धदेहस्य स्नेहवस्तिर्विधीयते । तत्रोन्मादभ-यशोकपिपासारोचकाजीर्णार्शःपाण्डु रोगभ्रममदमूर्च्छा-च्छर्दिकुष्ठमहोदरस्थौल्यश्वासकासकण्टशोषशोफोपसृष्टक्षतक्षीणचतुस्त्रिमासगर्भिणीदुर्वलाग्न्यसहाबालवृद्धौ च वा०तरोगादृते क्षीणा नानुवास्या नास्थापयिव्याः” । उ-दरी च प्रमेही च कुष्ठी स्थूलश्च मानवः अवश्यं स्था-पनीयाश्च नानुवास्याः कथञ्चन । असाध्यता विकाराणांस्यादेषामनुवासनात्” ।तत्प्रयोगप्रकारश्च तत्रैवीक्तो यथा“अथातो निरूहोपक्रमचिकित्सितं व्याख्यास्यामः ।अथानुवासितमास्थापयेत्स्वभ्यक्तस्विन्नशरीरमुत्सृष्टवहि-र्वेषमप्रवाते शुचौ वेश्मनि मध्याह्ने प्रततायां शय्याया-प्रधःसुपरिग्रहायां श्रोणिपदेशव्यूढायामनुपधानायांवामपार्श्वशायिनमाकुञ्चितदक्षिणसक्थिमितरप्रसारितसक्थिंसुमनसं जीर्णान्नं वाग्यतं सुनिषस्मदेहं विदित्वाततो वामपादस्योपरि नेत्रं कृत्वेतरपादाङ्गुष्ठाङ्गुलिभ्यांकर्णिकामुपरि निष्पीड्य सव्यपाणिकनिष्ठिकानामिकाभ्यांवस्तेर्मुखार्द्धं सङ्कोच्य मध्यमप्रदेशिन्यङ्गुष्ठैरर्द्धन्तु विवृ-तास्यं कृत्वा वस्तावौषधं प्रक्षिप्य दक्षिणहस्ताङ्गुष्ठप्रदे-शिनीभ्यां चानुसिक्तमनायतमबुद्बुदमसङ्कुचितमवातमौ-षधासन्नमुपसंगृह्य पुनरितरेण गृहीत्वा दक्षिणेनावसि-ञ्चेत्ततः सूत्रेणैवषौधान्ते द्विस्त्रिर्वावेष्ट्य बध्नीयात् । अथदक्षिणेनोत्तानेन पाणिना वस्तिं गृहीत्वा वामहस्तम-ध्यमाङ्गलिप्रदेशिनीभ्यां नेत्रमुपसंगृह्याङ्गुष्ठेन नेत्रद्वारंपिधाय धृताभ्यक्ताग्रनेत्रं घृताक्तगुदाय प्रयच्छेदनुपृष्ठ-यंशं सममुन्धुखमाकर्णिकं मेत्रं प्रणिधत्स्नेति ब्रूयात् ।वस्तिं सव्ये करे कृत्वा दक्षिणेनावपीडयेत् । एकेनैवा-पपीडेन न द्रुतं न बिलम्बितम्” ततो नेत्रमपनीयत्रिशन्मात्राः पीडनकालादुपेक्ष्योत्तिष्ठेत्यातुरं ब्रूयात् ।आतुरमुपवेशयेदुत्कटुकं वस्त्यागमनार्थम । निरूहप्रत्यागमनकालस्तु मुहूर्त्तो भवति । “अनेन विधिना वस्तिंदद्याद्वस्तिविशारदः । द्वितीयं वा तृतीयं वा चतुर्थं वायथार्थतः । सम्यग्निरूढलिङ्गे तु प्राप्ते वस्तिं निवा-रयेत् । अपि हीनक्रमं कुर्य्यान्न तु कुर्य्यादनिक्रमम् ।विशेषात्सुकुमाराणां हीनएव क्रमो हितः । यस्य स्या-द्वस्तिरत्यल्पवेगो हीनमलानिलः । दुर्निरूढः स विज्ञेयोमूत्रार्त्त्यरुचिजाड्यवान् । यान्येव प्राक्प्रयुक्तानि लि-ङ्गान्यतिविरेचिते । तान्येवातिनिरूढेऽपि विज्ञेयानिविपश्चिता । यस्य क्रमेण गच्छन्वि विट्पित्तकफवायवः ।लाघवं चोपजायेत सुनिरूढं तमादिशेत् । सुनिरूढंततोजन्तुं स्नानवन्त तु भोजयेत् । पित्तक्लेस्मानिलाविष्टंक्षीरयूषरसैः क्रमात् । सर्वं वा जाङ्गलरसैर्भोजयेदवि-कारिभिः । त्रिभागहीनमर्द्धं वा हीनमात्रमथापि वा ।यथाग्निदोषं मात्रेयं भोजनस्य विषीयते । अनन्तरंततो युञ्ज्याद्यथास्वं स्नेहवस्तिना । विविक्तता मन-स्तुष्टिः स्निग्धता व्याधिनिग्रहः । आस्थापनस्नेहवस्त्योःसम्यग्दाने तु लक्षणम् । तदहस्तस्य पवनाद्भयं बलवद-दिष्यते । रसौदनस्तेन शस्तस्तदहश्चानुवासनम् । पश्चा-दग्निबलं मत्वा पवनस्य च चेष्टितम् । अन्नोपस्तम्भितेकोष्ठे स्नेहवस्तिर्विधीयते । अनायान्तं मुहूर्त्तात्तु नि-रूहं शोधनैर्हरेत् । तीक्ष्णैर्निरूहैर्मतिमान् क्षारमूत्रा-म्लसंयुतैः । विगुखानिलविष्टव्यं चिरं तिष्ठन्निरूह-चम् । शूलाऽरतिज्वरानाहं मरणं वा प्रवर्त्तयेत् । तत्तुभुक्तवते देयमास्थापनमिति स्थितिः । विसूचिकां वाजनयेच्छर्दिं वापि सुदारुणम् । कोपयेत्सर्वदोषान्वातस्य हद्यादमोजिने । जीर्णान्नस्याशये दोषाः पुंसः प्र-व्यक्तिमागताः । निःशेषाः सुशृमायान्ति भोजनेनाप्रपी-डिताः । न वास्थापनविक्षिप्तमक्षमग्निः प्रधावति । त-स्मादास्थापनं देयं निराहाराय जानता । आवस्थिकंक्रमञ्चापि मत्वा कायं निरूहणम् । मलेऽपकृष्टेऽदोषाणांबलवत्त्वं न विद्यते” । वस्तिभेदश्च (पिचकारी) ख्यातः“वस्तिर्द्विधानुवास्याख्योनिरूहश्चेति संज्ञितः । यःस्नेहैर्दीयते स स्यादनुवासननामकः । कषायक्षीरतै-लैश्च निरूहः स निगद्यते” इति वेद्यसारकौ० । ल्युट् ।निरूहणमप्यत्र
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
