| YouTube Channel

नियतः (niyataH)

 
शब्दकल्पद्रुमः
Sanskrit
नियतः, त्रि, (नि + यम + क्तः ।) संयतः यथा, “कार्त्तिके शुक्लपक्षस्य द्वितीयायां नराधिप ! ।पुष्पाहारो वर्षमेकं तत्रैव नियतात्मवान्
”इति भविष्यपुराणे द्बितीयकल्पः
(सेवापरः यथा, रामायणे ।“प्रायच्छत मुनेस्तस्य वल्कलं नियतो गुरोः
”)नित्यः यथा, --“अन्यथासिद्धिशून्यस्य नियता पूर्व्ववर्त्तिता ।कारणत्वं भवेत्तस्य त्रैविध्यं परिकीर्त्तितम्
”इति भाषापरिच्छेदे १६
(यथा कश्चित् ।“चन्द्रे लक्ष्मीः प्रभा सूर्य्ये गतिर्वायौ भुवि क्षमा ।एतत्तु नियतं सर्व्वं त्वयि चानुत्तमं यशः
”निपूर्व्वयमधातोर्बद्धार्थकत्वात् बद्धोऽपि यथा, नियताञ्जलिः
संयुक्तः वासक्तः यथा, महाभारते १३४ ५९ ।“प्रतिज्ञामात्मनो रक्षन् सत्ये नियतः सदा
”)