| YouTube Channel

निम्नं (nimnaM)

 
शब्दकल्पद्रुमः
Sanskrit
निम्नं, त्रि, निकृष्टा म्ना अभ्यासः शीलमत्र ।(यद्वा, निकृष्टं म्नातीति म्ना + कः ।) नीचम् ।निचु इति नावाल इति भाषा
तत्पर्य्यायः ।गभीरम् गम्भीरम् इत्यमरः १० १५
गभीरकम् इति शब्दरत्नावली
(यथा, कुमारे ।“क ईप्सितार्थस्थिरनिश्चयं मनःपयश्च निम्नाभिमुखं प्रतीपयेत्
”पुं, अनमित्रपुत्त्रः तु सत्राजितप्रसेनयोःपिता यथा, भागवते २४ १२ ।“शिनिस्तस्यानमित्रश्च निम्नोऽभूदनमित्रतः ।सत्राजितः प्रसेनश्च निम्नस्याथासतुः सुतौ
”)