| YouTube Channel

निपुणः (nipuNaH)

 
Wordnet
Sanskrit
Synonyms:
वैज्ञानिकः, वैज्ञानिका, निपुणः, निपुणा
noun
विज्ञानसम्बन्धि विज्ञानक्षेत्रे कार्यरतः वा।
"कलाममहोदयाः भारतस्य प्रथमः वैज्ञानिकः यः राष्ट्रपतिपदं भूषितवान्"
Synonyms:
तज्ज्ञः, कुशलः, निपुणः, विज्ञः, अभिज्ञः, कुशलः
noun
यः विषयम् सविशेषं जानाति।
"सः त्वग्रोगस्य तज्ज्ञः अस्ति।"
Tamil
Tamil
நிபுண: : திறமையுள்ள, கெட்டிக்கார, படித்தறிந்த, நுட்பமான, மிருதுவான, சரியான, முடிந்த, குறைவற்ற.
शब्दकल्पद्रुमः
Sanskrit
निपुणः, त्रि, (नि + पुणं राशीकरणे + ।) कार्य्य-क्षमः (यथा, नागानन्दे सूत्रधारोक्तिः ।“श्रीहर्षो निपुणः कविः परिषदप्येषा गुण-ग्राहिणी
”अन्यच्च, देवीभागवते ५९ ।“न ते रूपं वेत्तुं सकलभुवने कोऽपि निपुणोन नाम्नां संख्यां ते कथितुमिह योग्योऽस्तिपुरुषः
”)तत्पर्य्यायः प्रवीणः अभिज्ञः विज्ञः ४निष्णातः शिक्षितः वैज्ञानिकः कृत-मुखः कृती कुशलः १० इत्यमरः
संख्यावान् ११ मतिमान् १२ कुशाग्रीयमतिः१३ कृष्टिः १४ विदुरः १५ बुधः १६ दक्षः १७नेदिष्ठः १८ कृतधीः १९ सुधीः २० विद्वान् २१कृतकर्म्मा २२ विचक्षणः २३ विदग्धः २४चतुरः २५ प्रौढः २६ बोद्धा २७ विशारदः २८सुमेधाः २९ सुमतिः ३० तीक्ष्णः ३१ प्रेक्षावान्३२ विबुधः ३३ विदन् ३४ इति राजनिर्घण्टः
विज्ञानिकः ३५ कुशली ३६ इति शब्द-रत्नावली
कृदन्तरूपमाला
Sanskrit
1 {@“पुण कर्मणि शुभे”@} 2 ‘पुण कर्मणि शब्दे च’ इति क्षीरस्वामिसम्मतः पाठः।
पोणकः-णिका, पोणकः-णिका, 3 पुपुणिषकः-पुपोणिषकः-षिका
पोपुणकः-णिका
पोणिता-त्री, पोणयिता-त्री, पुपुणिषिता-पुपोणिषिता-त्री, पोपुणिता-त्री
4 पुणन्-न्ती-ती, पोणयन्-न्ती, पुपुणिषन्-पुपोणिषन्-न्ती
-- पोणिष्यन्-न्ती-ती, पोणयिष्यन्-न्ती-ती, पुपुणिषिष्यन्-पुपोणिषिष्यन्-न्ती
-- -- पोणयमानः, पोणयिष्यमाणः, -- पोपुण्यमानः, पोपुणिष्यमाणः
प्रपुण्-प्रपुणौ-प्रपुणः
-- -- -- पुणितम्-तः, पोणितः, पुपुणिषितः-पुपोणिषितः, पोपुणितः-तवान्
5 निपुणः, आचारनिपुणः, पोणः, पुपुणिषुः-पुपोणिषुः, पोपुणः
पोणितव्यम्, पोणयितव्यम्, पुपुणिषितव्यम्-पुपोणिषितव्यम्, पोपुणितव्यम्
पोणनीयम्, पोणनीयम्, पुपुणिषणीयम्-पुपोणिषणीयम्, पोपुणनीयम्
6 7 पुण्यम्- 8 पोण्यम्, पुपुणिष्यम्-पुपोणिष्यम्, पोपुण्यम्
ईषत्पोणः-दुष्पोणः-सुपोणः
-- -- पुण्यमानः, पोण्यमानः, पुपुणिष्यमाणः, पुपोणिष्यमाणः, पोपुण्यमानः
पोणः, पोणः, पुपुणिषः-पुपोणिषः, पोपुणः
पोणितुम्-पोणयितुम्, पुपुणिषितुम्-पुपोणिषितुम्, पोपुणितुम्
9 पुणितिः, पोणना, पुपुणिषा-पुपोणिषा, पोपुणा
पोणनम्, पोणनम्, पुपुणिषणम्-पुपोणिषणम्, पोपुणनम्
पुणित्वा-पोणित्वा, पोणयित्वा, पुपुणिषित्वा-पुपोणिषित्वा, पोपुणित्वा
प्रपुण्य, प्रपोण्य, प्रपुपुणिष्य-प्रपुपोणिष्य, प्रपोपुण्य
पोणम् २, पुणित्वा -पोणित्वा २, पोणम् २, पोणयित्वा २, पुपुणिषम् -पुपोणिषम् २, पुपुणिषित्वा -पुपोणिषित्वा २, पोपुणम्
पोपुणित्वा
10 पुण्डरीकम्।
प्रासङ्गिक्यः
01
=>
(१०१७)
02
=>
(६-तुदादिः-१३३३। अक। सेट्। पर।)
03
=>
[[३। ‘रलो व्युपधात्--’ (१-२-२६) इति कित्त्वविकल्पः। एवं सन्नन्ते सर्वत्र, क्त्वा- प्रत्ययेऽपि, रूपद्वयस्योपपत्तिर्ज्ञेया।]]
04
=>
[[४। ‘तुदादिभ्यः शः’ (३-१-७७) इति कर्तरि शप्रत्ययः। ‘आच्छीनद्योर्नुम्’ (७-१-८०) इति नुम् वा भवति।]]
05
=>
[[५। ‘इगुपधज्ञाप्रीकिरः कः’ (३-१-१३५) इति कर्तरि कप्रत्ययः।]]
06
=>
[पृष्ठम्०८६९+ २४]
07
=>
[[१। ‘जनिकृतिपुणिभ्यः क्यप्’ इति भोजोक्तेः क्यप् प्रत्ययः।]]
08
=>
[[आ। ‘ईशस्य पुण्यसुगमस्य वधं मुणन्तो मल्लाश्च यत्र चुकुणुः शुनका इवोच्चैः।’ धा। का। २। ७६।]]
09
=>
[[२। ‘तितुत्रेष्वग्रहादीनाम्--’ (वा। ७-२-९) इतीट् भवति।]]
10
=>
[[३। ‘पुण’ इत्यस्य धातोर्णकारस्य डकारे, डप्रत्ययस्य रुडागमे एवं रूपम्। ‘पुण्डरीकं सिताम्भोजे सितच्छत्रे मेषजे। पुंसि व्याघ्रेऽग्निदिङ्नागे कोशकारान्तरेऽपि च।।’ इति मेदिनी।]]