| YouTube Channel

निःक्षेप (niHkSepa)

 
शब्दसागरः
English
निःक्षेप
m.
(-पः)
1. Throwing, sending, putting away.
2. Spending. 3
Passing, (as time.)
4. Wiping away, (as tears)
E.
निर् and क्षिप् to
throw, घञ्
aff.
Yates
English
निः-क्षेप (पः) 1.
m.
Throwing
send-
ing, putting away
passing
(time)
wiping (tears).
Wilson
English
निःक्षेप
m.
(-पः)
1 Throwing, sending, putting away.
2 Spending.
3 Passing, (as time.)
4 Wiping away, (as tears.)
E.
निर्, and क्षिप to throw, घञ्
aff.
Apte
English
निःक्षेपः [niḥkṣēpḥ], 1 Throwing, sending away.
Spending (time).
Wiping (tears).
Apte 1890
English
निःक्षेपः 1 Throwing, sending away.
2 Spending (time).
3 Wiping (tears).
Monier Williams Cologne
English
निः-°क्षेप
m.
throwing or sending away, removing,
Kull.
Monier Williams 1872
English
निः-क्षेप, अस्, m. throwing, sending, putting
away
spending, passing (time)
wiping away (as
tears).
Apte Hindi
Hindi
निःक्षेपः
पुं*
- निर् + क्षिप् + घञ्
"फेंकना, भेज देना"
निःक्षेपः
पुं*
- निर् + क्षिप् + घञ्
व्यय करना
निःक्षेपः
पुं*
निस्-क्षेपः -
निक्षेप
L R Vaidya
English
niHkzepa {% m. %} the same as निक्षेप q.v.
Edgerton Buddhist Hybrid
English
[niḥkṣepa, see nikṣepa.]
वाचस्पत्यम्
Sanskrit
निः(नि)क्षेप
पु०
निर्--(नि)वा क्षिप--भावे घञ् अर्पणे(गच्छितराखा) अष्टादशविवादान्तर्गते विवादभेदे ।स वीर० मि० विस्तरेण दर्शितो यथा“अथ निः(नि)क्षेपाख्यव्यवहारपदम् तत्र निः(नि)क्षेपो नाम स्वद्रव्यस्य विश्वासेन पुरुषान्तरे स्थापनम् ।तथा नारदः “स्वद्रव्यं यत्र विस्रम्भान्निः(नि)-क्षिपत्यविशङ्कितः निः(नि)क्षेपो नाम तत्प्रोक्तंव्यवहारपदं बुधैरिति” नच न्यासोपनिध्योरतिव्याप्ति-स्तयोर्लक्ष्यत्वान्निः (नि)क्षेप एव ग्राहकस्यासमक्षं सम-र्पितो न्यास इत्युच्यते अतएव वृहस्पतिः “राजचौ-रादिकभयाद्दायादानां वञ्चनात् स्थाप्यतेऽन्यगृहेद्रव्यं न्यासः परिकीर्त्तितः” इति अयमेवागणि-तद्रव्यस्थापने उपनिधिरित्युच्यते तथा नारदः“असङ्ख्यातमविज्ञातं समुद्रं यन्निधीयते तज्जानीया-दुपनिधिं निः(नि)क्षेपङ्गणितं विदुरिति” असङ्ख्यातम्अनाख्यातम् अविज्ञातम् अदर्शितम् अतएव वृह-स्पतिः “असमक्षं व्यवहितमसङ्ख्यातमदर्शितम् मुद्रा-ङ्कितञ्च यद्द्रव्यं तदौपनिधिकं स्मृतमिति” व्यवहितंकरण्डकादौ प्रक्षिप्य पिहितम् अतएव याज्ञवल्क्यः“वासनस्थमविज्ञातं हस्तेऽन्यस्य यदर्प्यते द्रव्यन्तदौप-निधिकं प्रतिदेयन्तथैव तदिति” वासनं द्रव्याधारकरण्डकादि तत्स्थं वासनस्थम् हस्तग्रहणमुपलक्ष-णम् अतएव नारदः “निः(नि)क्षिप्यते परगृहे तदौप-निधिकं स्मृतमिति” तथा चायमेतेषाम्भेदः ग्राह-कस्य समक्षं गणयित्वा स्थापितं निः(नि)क्षेपः गृहस्वा-मिनोऽसमक्षं गणितं वा तस्मिन्नामते एतद्दातव्यमित्यु-क्त्वाऽन्यस्य तत्पुत्रादेर्हस्ते दत्तं न्यासः मुद्राङ्कितमस-मक्षमनणितं स्थापितमुपनिधिरिति निः(नि)क्षेपादीनांस्थापनप्रकारमाह मनुः “कुलजे वृत्तसम्पन्ने धर्मज्ञेसत्यवादिनि महापक्षे धनिन्यार्य्ये निः(नि)क्षेपं निः-(नि)क्षिपेद्बुधः” इति महापक्षे बहुतरबन्धुयुक्ते ।निः(नि)क्षेपग्रहणमुपलक्षणम् वृहस्पतिः “स्थानंगृहञ्च तद्वर्णं विधानञ्च गुणन्तथा सत्यं शौचं वन्धुजनंपरीक्ष्य स्थापयेन्निधिमिति” निधिरुपनिधिः एतदप्यु-पलक्षणम् निः(नि)क्षेपादीनां रक्षणं कथं कर्तव्यं ग्रा-हकेणेत्याह वृहस्पतिः “ससाक्षिकं रहोदत्तं द्विबिधंसमुदाहृतम् पुत्रवत्परिपाल्यं तद्विनश्यत्यनवेक्षणे” इति ।पालयितुः फलभपालयितुर्दोषञ्चाह “ददतो यद्भवेत् पुण्यंहेमकूप्याम्बरादिकम् तत् स्यात्फलमतो न्यासो यथैव श-रणागतः भर्तृद्रोहं यथा नार्याः पुंसः पुत्रसुहृद्बधे ।दोषो भवेत्तथा न्यासे भक्षितोपेक्षिते नृणाम् न्यास-द्रव्य” गृह्णीयात्तन्नाशस्त्वयशस्करः गृहीतं पाल-येद्यत्नात् सकृद्याचितमर्पयेदिति” न्यासग्रहणमुपलक्ष-णम् तेन फलरक्षणादिकं निः(नि)क्षेपादित्रयसाधार-णमिति मन्तव्यम् दैवराजोपघाते ग्राहकस्य दोषइत्याह वृहस्पतिः “दैवराजोपघातेन यदि तन्नाशमाप्नु-यात् ग्रहीतृद्रव्यसहितं तद्दोषोऽत्र विद्यत” इति ।ग्रहीतुरिति शेषः उपेक्षादिद्रव्यदोषाभावादिति मावः ।ग्रहीतृद्रव्यसहितमित्युपेक्षाभावनिश्चयायोक्तम् तेन क-थञ्चिन्निः(नि)क्षिप्तमात्रस्य विनाशे प्रमाणान्तरादुपेक्षाभावेनिश्चिते ग्रहीतुर्दोषो विद्यते इति मन्तव्यम् दैव-राजग्रहणमसमाधेयनिमित्तोपलक्षणार्थम् अतएवकात्यायनः “राजदैविकचौरैर्वा निः(नि)क्षिप्तं यत्रनाशितम् ग्रहीतुः सह भाण्डेन दातुर्नष्टन्तदुच्यते”इति भाण्डेन अर्थेन नारदोऽपि “ग्रहीतुःसह योऽर्थेन नष्ट एव दायिनः दैवराजकृते तद्वन्नचेत्तज्जिह्मकारितमिति” तद्वदितिपदेनैकमुपमेयमन्य-दुपमानमित्यवगम्यते तेनैवं योजना ग्रहीतुरर्थेन सहयो नष्टः दायिन एव एवन्दैवराजकृते यो नष्टः सोऽपिदायिन एव नष्ट इति दैवग्रहणन्तस्करोपलक्षणम् अत-एव याज्ञवल्क्यः “न दाप्योपहतन्तन्तु राजदैविकत-स्करैरिति” दैविकपदस्यार्थो विवृतो मनुना “चौरैर्हृ-तञ्जलेनोढमग्निना दग्धमेव वा दद्याद्यदि तस्मात्स्वंन संहरति किश्चनेति” यदि तस्मान्निः(नि)क्षेपादल्प-मपि धनन्न संहरति गृह्णाति तर्हि दद्यादित्यर्थः ।तथा एव “समुद्रे नाप्नुयात्किञ्चिद्यदि तस्मान्नसंहरेदिति” क्वचित् केनचिद्धेतुना नष्टमपि ग्रहीताभूल्यद्वारेण दाप्य इत्याह कात्यायनः “ज्ञात्वाद्रव्यवियोगन्तु दाता यत्र विनिः(नि)क्षिपेत् सर्वोपाय-विनाशेऽपि ग्रहीता नैव दाप्यते” इति निः(नि)-क्षेपग्रहीतारं प्रत्याह कात्यायनः “निः(नि)क्षिप्तंयस्य यत्किञ्चित् तत्प्रयत्नेन पालयेत् दैवराजकृतादन्योविनाशस्तस्य कीर्त्त्यते” इति यस्य पार्श्वे यत् स्था-पितन्तत्तेनावहितेन रक्षणीयम् यतो दैवराजकृता-दन्यो विनाशस्तस्य ग्राहकस्य दोपेण कृतत्वेन कीर्त्त्यतेइत्यर्थः केवलन्दुष्कीर्त्तिरेव तस्य किन्तु विनाशेजाते वस्तुगत्या दोषो वह्वर्थहानिश्चेत्याह एव“यस्य दोषेण यत्कञ्चिद्विनश्येत ह्रियेत वा तद्द्रव्यंतोदयन्दाप्यो दैवराजकृताद्विनेति” दोषः उपेक्षादि-लक्षणः वृहस्पतिरपि “भेदेनोपेक्षया न्यासं ग्रहीतायदि नाशयेत् याच्यमानो दद्याद्वा दाप्यन्तत्सोद-यम्भवेदिति” कात्यायनोऽपि “न्यासादिकं परद्रव्यं प्रभ-क्षितमुपेक्षितम् अज्ञाननाशितञ्चैव येन दाप्यः एवतदिति” अत्र विशेषमाहतुर्व्यासकात्यायनौ “भक्षितेसोदयन्दाप्यः समन्दाप्य उपेक्षिते किञ्चिदूनं प्रदाप्यःस्याद्द्रव्यमज्ञाननाशितमिति” किञ्चिदूनञ्चतुर्थांशन्यून-मिति मिताक्षरायाम् याचनानन्तरमदत्तस्य पश्चाद्दैव-राजकृतेऽपि विनाशे तन्मूलमात्रं दातव्यमित्याह व्यासः“याचनानन्तरं नाशे दैवराजकृतेऽपि सः ग्रहीताप्रतिदाप्यः स्यान्मूलमात्रन्न संशयः इति प्रत्यर्पण-विलम्बमात्रापराधे सवृद्धिकदानस्यान्याय्यत्वात् राज्ञेच तत्समो दण्डो देय इत्याह नारदः “याच्यमानस्तुयो दातुर्निः(नि)क्षेपन्न प्रयच्छति दण्ड्यः राज्ञोभवति नष्टे दाप्यश्च तत्सममिति” नष्टे दैवतो राजतोवेति शेषः याज्ञवल्क्योऽपि “भ्रंशश्चेन्मार्गितेऽदत्तेदाप्यो दण्डञ्च तत्सममिति” मार्गिते याचितेऽदत्तेसति यदि भ्रंशो दैवराजकृतो नाशो भवति तथापितद् द्रव्यं मूल्यपरिकल्पनेन “धनिने ग्राहको दाप्यो-दण्डो राज्ञे तत्समम्” तत्समं दण्डमित्यर्थः ।यः पुनःस्थापकाननुज्ञया निः(नि)क्षेपमुपभुङ्क्ते तस्यदण्डमाह नारदः “यत्रार्थं साधयेत्तेन निः(नि)क्षेपेत्वननुज्ञया तत्रापि दण्ड्यः भवेत्तञ्च सोदयमावहे-दिति” दण्डश्च साधितद्रव्यानुसारेण याज्ञवल्क्योऽपि“आजीवन् स्वेच्छया दण्ड्यो दाप्यस्तञ्चापि सोदयमिति”आजीवन् भोगवृद्ध्यर्थप्रयोगादिना उपजीवन् स्वेच्छयास्वाम्यननुज्ञया वृद्धिप्रमाणमाह कात्यायनः “निः-(नि)क्षेपं वृद्धिशेषञ्च क्रयविक्रयमेव याच्यमानं नचेद्दद्याद्वर्द्धते पञ्चकं शतमिति” निः(नि)क्षेपहर्त्तार-म्प्रत्याह विष्णुः “निः(नि)क्षेपापहारी वृद्धिसहितन्धनंधनिकस्य दाप्यः” अस्य दण्डमाह मनुः “निः(नि)-क्षेपस्यापहर्त्तारं तत्समन्दापयेद्दमम् तथोपनिधिहर्त्ता-रमविशेषेण पार्थिवः” निः(नि)क्षेपापह्नवे कर्त्तव्यमाहव्यासः “निः(नि)क्षेपन्निह्नुते यस्तु नरो बन्धुबला-न्थितः साक्षिभिर्वाथ द्रव्येण विभाव्य प्रतिदाप्यते”दण्डमाह वृहस्पतिः “गृहीत्वापह्नुते यत्र साक्षिभिःशपथेन वा विभाव्य दापयेद्राजा तत्समं विनयन्तथेति”विनयं दण्डम् ससाक्षिकनिः(नि)क्षेपादौ स्थापकस्या-नृतवादित्वे साक्षिभ्यो यथास्थितमर्थमवगत्य दण्डनीयःस राज्ञेत्याह मनुः “निः(नि)क्षेपो यः कृतो येनयावांश्च कुलसन्निधौ तावानेव विज्ञेयो विब्रुवन्दण्डमर्हतीति” कुलं साक्षिवृन्दम् असाक्षिके त्वाहवृहस्पति “रहोदत्ते निधौ यत्र विसंवादः प्रजायते ।विभावकन्तत्र दिव्यमुभयोरपि स्मृतमिति” उभयो-र्मध्ये एकस्येत्यर्थः उभयग्रहणं “रुच्या वान्यतरः कुर्या-दित्ययमेव पक्षे यथा स्यादिति ग्रहीतृस्थापकयोर-नृतवादित्वे दण्डमाह मनुः “निः(नि)क्षेपस्यापह-र्त्तारमनिः(नि)क्षेप्तारमेव सर्वैरुपायैरन्विच्छेच्छपथै-श्चैव वैदिकैः यो निः(नि)क्षेपं नार्पयति यश्चानिः-(नि)क्षिप्य याचते उभौ तौ चोरवच्छास्यौ दाप्यौ वातत्समं दममिति” चौरवच्छास्यौ चौरवद्दण्ड्यौ चौरव-द्दण्डेन दण्ड्यावितियावत् दण्डस्य प्रमाणमाहसममिति मत्स्यपुराणे यस्तु “यो निः(नि)क्षेपंनार्पयति यश्चानिः(नि)क्षिप्य याचते ताबुभौचौरवच्छास्यौ दाप्यौ द्विगुणं दममिति” द्विगुणोदण्ड उक्तः दुर्वृत्तविषयो ब्राह्मणातिरिक्तविषयो वाअन्यया समदण्डप्रतिपादकमनुवचनविरोधः स्यादिति ।निः(नि)क्षिप्तं द्रव्यमकाले ददतो द्विगुणोदम इत्याहकात्यायनः “ग्राह्यस्तूपनिधिः काले कालहीनन्तुवर्जयेत् कालहीने ददद्दण्डं द्विगुणञ्च प्रदापयेदिति”ग्राह्यः निः(नि)क्षेपकारिणेति शेषः यद्भयादुपनिधिर-न्यस्य हस्ते न्यस्तस्तद्भयातीते काले ग्राह्य इत्यर्थः ।भयातीते काले स्वयमेव नायाचितमर्पणीयम् “सकृ-द्याचितमर्पयेदिति” वृहस्पतिस्मरणात् तद्भये वर्त्तमानेस्वयमेवायाचितन्दीयमानं कालहीनन्तस्य दानन्दौष्ट्ये-नैवेति तद्ददतोऽपि दण्डोयुक्तः प्राड्विवाकं प्रत्याहमनुः “यो निः(नि)क्षेपं याच्यमानो निः(नि)क्षेप्तुर्नप्रयच्छति याच्यः प्राड्विवाकेन तन्निः(नि)क्षेप्तुरस-न्निधौ यदि प्रतिपद्येत यथान्यस्तं यथाश्रितम् ।न तत्र विद्यते किञ्चित् यत्परेणाभियुज्यते” इति यदातु प्रतिपद्येत तदा राजानं प्रत्याह एव “तेषां नदद्यायद्यदि तु तद्धिरण्यं यथाविधि द्वयन्निगृह्य दाप्यःस्यादिति धर्मस्य धारणा निःक्षिप्तस्य धनस्यैव प्रीत्योप-निहितस्य राजा विनिर्णयं कुर्य्यादक्षिण्वन्थासधा-रिणामिति” तेषां अभियोक्तृणाम् द्वयं द्विगुणम् ।निगृह्य दण्डयित्वा अचिण्वन् अताडयन् निः(नि)-क्षेप ग्रहीतारं प्रत्याह वृहस्पतिः “स्थापितं येन विधिनायेन यच्च यथाविधि तथैव तस्य तद्देयं देयं प्रत्यन-न्तरे” इति स्थापितेतरस्य यस्य स्थापितद्रव्यस्वाम्यमस्तिस इह प्रत्यनन्तर उच्यत इति स्मृतिचन्द्रिकायां प्रत्यन-न्तरे पुत्रादाविति कल्पतरौ स्थापकं प्रत्याह मनुः“यो यथा निः(नि)क्षिपेद्धस्ते यमर्थं यस्य मानवः सतथैव ग्रहीतव्यो यथा दायस्तथा ग्रहः मिथोदायकृतो येन ग्रहीतो मिथ एव वा मिथ एव प्रदातव्येयथा दायस्तथा ग्रहः समुद्रे नाप्नुयात् किञ्चिदयदि तस्मान्न संहरेदिति” दायो दानं स्थापनमिति यावत्ग्रहोग्रहणं मिथः अन्योन्यमेव एतदुक्तम्भवति ससा-क्षिकं स्थापितम् साक्षिसमक्षं ग्रहीतव्यम् रहसिस्थापितं रहस्येवेति समुद्रे मुद्रासहिते निःक्षेपेमुमूषकादिनोपहते निः(नि)क्षेपं स्थापयित्वा किञ्चिद्दू-सणमाप्नुयात् यदि तस्मान्निः(नि)क्षेपात् प्रतिमुद्राक-रणादिना संहरेत्किञ्चिदित्यर्थः स्थापयितुर्मरणे प्रत्य-नन्तरे तद्देयमित्याह एव “स्वयमेव तु यो दद्यान्मृतस्यप्रत्यनन्तरे राज्ञाऽभियोक्तव्यो निःक्षेप्तुश्चबन्धुभिरिति” अनेन वचनेन वचोभङ्ग्या स्थापके मृतेप्रत्यनन्तरे प्रत्यर्पणं ग्राहकेण कार्य्यमित्युक्तम् स्वय-मेव याचनमन्तरेणेत्यर्थः याचनमन्तरेण दानम्भयादि-कालापाये मन्तव्यम् अन्यथा दोषापत्तेः प्रत्यनन्तरवहुत्वे तु नैकस्मिन् प्रत्यनन्तरे देयं किन्तु सर्वप्रत्य-नन्तरसन्निधाविति निःक्षेप्तुबन्धुभिरभियोक्तव्य इत्य-नेन सूचयाम्बभूव यदा तु ग्राहकः स्वयमेव ददातितदा प्रत्यनन्तरकर्त्तव्यमाह एव “अच्छलेनैवचान्विच्छेत्तमर्थं प्रीतिपूर्वकम् विचार्य्य तस्य वा वृत्तंसाम्नैव परिसाधयेदिति” अन्विच्छेत् अवधारयेत्परिसा-धनं ग्राहकसकाशादादानन्तद्ग्राहकवृत्तिं विचार्य्य सतद्वृत्तग्राहकविषये साम्नैव कार्य्यं भयादिप्रदर्शनेन ।दुर्वृत्तग्राहकविषये तु ऋणादानप्रकरणोक्तेन भयादि-प्रदर्शनाद्युपायान्तरेण छलादिना कार्य्यमित्यस्मादेव वच-नादवगम्यते तथा सद्वृत्ते विप्रतिपन्ने भूतानुसारेणसाधयितुमशक्ये साक्ष्याद्यभावे प्रत्यनन्तरादिना साधु-येत् दुर्वृत्ते तु विप्रतिपन्ने छलादिना परिहरेदितिचास्मादेव वचनादवगम्यते सद्वृत्ते छलादिप्रयोगबच्छ-पथेन शोधनस्याप्यनुचितत्वात् ग्राहके तु मृते पश्चा-द्यदधीनं निःक्षेपादि जायते तेनैव स्थापके प्रत्यनन्तरेवा प्रत्यर्पणीयमित्यतिस्थूलत्वात् स्मृतिकारैरुपेक्षित-मित्यस्मादृणादानप्रकारवदुवन्नेयं यदि ग्राहकोऽसौ स्वयंन ददाति तदा स्थापकः प्रत्यनन्तरो वा पूर्वोक्तमार्गेणा-ग्विच्छेत् सम्प्रतिपन्नं पूर्वोक्तेन प्रकारेण परिग्रहं साध-येदित्येतदपि स्मृतिकारैरुपेक्षितं ज्ञातुं शक्यत्वादिति ।“द्वयीषु निः(नि)क्षेष इवार्पितं द्वयम्” कुमा०
Stchoupak
French
निः-क्षेप-
m.
fait de rejeter, de renvoyer.