| YouTube Channel

नायिका (nAyikA)

 
Spoken Sanskrit
English
नायिका nAyikA
f.
mistress
नायिका nAyikA
f.
class of female personifications representing illegitimate sexual love
नायिका nAyikA
f.
nAyikA
नायिका nAyikA
f.
courtezan
नायिका nAyikA
f.
noble lady
नायिका nAyikA
f.
heroine in a drama
नायिका nAyikA
f.
inferior form or zakti of durgA
नायिका nAyikA
f.
heroine
नायिका nAyikA
f.
nAyikA
चामुण्डा cAmuNDA
f.
one of the 8 nAyikAs of durgA
अनुनायिका anunAyikA
f.
female character subordinate to a nAyikA or leading female character in a drama
Apte
English
नायिका [nāyikā], 1 A mistress.
A wife.
The heroine of a poetic composition. (According to S. D. a नायिका is of three kinds स्वा or स्वीया, अन्या or परकीया, and साधारणस्त्री. For further classification, see S. D.* 97-112, and Rasamañjarī 3-94
cf.
अन्यस्त्री also).
A kind of musk.
Apte 1890
English
नायिका 1 A mistress.
2 A wife.
3 The heroine of a poetic composition. (According to S. D. a नायिका is of three kinds स्वा or स्वीया, अन्या or परकीया, and साधारणस्त्री. For further classification, see S. D. 97-112, and Rasamañjarī 3-94
cf. अन्यस्त्री also).
4 A kind of musk.
Monier Williams Cologne
English
नायिका a
f.
See नायिका
नायिका b
f.
(of °यक, q.v.) a noble lady,
Vet.
mistress, courtezan (cf. नाकाधिप-)
the heroine in a drama,
Sāh.
&c.
an inferior form or Śakti of Durgā (of which there are 8, viz. Ugra-caṇḍā, Pra-caṇḍā, Caṇḍogrā, Caṇḍa-nāyikā, Ati-caṇḍā, Cāmuṇḍā, Caṇḍā, and Caṇḍa-vatī
cf.
कुल-न्°),
Cat.
a class of female personifications representing illegitimate sexual love (they are called Balinī, Kāmeśvarī, Vimalā, Aruṇā, Medinī, Jayinī, Sarveśvarī, Kauleśī),
RTL.
188
=
next,
L.
=
Macdonell
English
नायिका nāy-ikā,
f.
high-born lady
mistress
🞄heroine.
Apte Hindi
Hindi
नायिका
स्त्री*
- "नायक + टाप्, इत्वम् "
स्वामिनी
नायिका
स्त्री*
- "नायक + टाप्, इत्वम् "
पत्नी
नायिका
स्त्री*
- "नायक + टाप्, इत्वम् "
किसी काव्य या नाटक की नायिका
Shabdartha Kaustubha
Kannada
नायिका
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > (ನಾಟಕಗಳಲ್ಲಿ) ಶೃಂಗಾರ ರಸದ ಸ್ಥಾಯಿಭಾವವಾದ ರತಿಗೆ ಆಲಂಬನ (ಆಶ್ರಯ)ಳಾದ ಹೆಂಗಸು
निष्पत्तिः - > णीञ् (प्रापणे) - "ण्वुल्" (३-१-१३३) -"टाप्" (४-१-४)
विस्तारः - > ನಾಯಿಕೆಯು १)स्वस्त्री २)अन्यस्त्री ३)साधारणस्त्री ಎಂದು ಮೂರು ವಿಧ.
नायिका
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಶ್ರೇಷ್ಠ ಹೆಂಗಸು /ಕುಲೀನ ಹೆಂಗಸು
L R Vaidya
English
nAyikA {% f. %} 1. A mistress
2. a wife
3. the heroine in a piece of poetic composition (she is either स्वीया, परकीया or साधारणस्त्री). See under अन्यस्त्री.
Kridanta Forms
Sanskrit
नय् (ण꣡यँ॒ गतौ णयँ रक्षणे - भ्वादिः - सेट्)
ल्युट् = नयनम्
अनीयर् = नयनीयः - नयनीया
ण्वुल् = नायकः - नायिका
तुमुँन् = नयितुम्
तव्य = नयितव्यः - नयितव्या
तृच् = नयिता - नयित्री
क्त्वा = नयित्वा
ल्यप् = प्रणय्य
क्तवतुँ = नयितवान् - नयितवती
क्त = नयितः - नयिता
शानच् = नयमानः - नयमाना
नी (णी॒ञ् प्रापणे - भ्वादिः - अनिट्)
ल्युट् = नयनम्
अनीयर् = नयनीयः - नयनीया
ण्वुल् = नायकः - नायिका
तुमुँन् = नेतुम्
तव्य = नेतव्यः - नेतव्या
तृच् = नेता - नेत्री
क्त्वा = नीत्वा
ल्यप् = प्रणीय
क्तवतुँ = नीतवान् - नीतवती
क्त = नीतः - नीता
शतृँ = नयन् - नयन्ती
शानच् = नयमानः - नयमाना
Wordnet
Sanskrit
Synonyms:
नायिका
noun
रूपके साहित्ये वा प्रमुखं स्त्रीपात्रम्।
"अस्यां कथायां नायिका स्वपत्युः हत्यां करोति।"
शब्दकल्पद्रुमः
Sanskrit
नायिका,
स्त्री,
(नयति या नी + ण्वुल् टाप्अत इत्वञ्च ।) दुर्गाशक्तिः सा अष्टधा ।यथा, --“ततोऽष्टनायिका देव्या यत्नतः परिपूजयेत्
उग्रचण्डां प्रचण्डाञ्च चण्डोग्रां चण्डनायिकाम् ।अतिचण्डाञ्च चामुण्डां चण्डां चण्डवतीन्तथा
पद्मे चाष्टदले चैताः प्रागादिक्रमतस्तथा ।पञ्चोपचारैः संपूज्य भैरवान्मध्यदेशतः
”इति प्रकृतिखण्डे ६१ अध्यायः
शृङ्गाररसालम्बनविभावरूपा नारी सा चत्रिविधा स्वीया परकीया सामान्यवनिताचेति तत्र स्वामिन्येवानुरक्ता स्वीया स्वीयापित्रिविधा मुग्धा मध्या प्रगल्मा तथाअङ्कुरितयौवना मुग्धा सा ज्ञातयौवनाअज्ञातयौवना सैव क्रमशो लज्जाभय-पराधीनरतिर्नवोढा सैव क्रमशो जात-प्रश्रया विश्रब्धनवोढा समानलज्जामदनामध्या एषैव चातिप्रश्रयादतिविश्रब्धनवोढा ।पतिमात्रविषयकेलिकलापकोविदा प्रगल्भा ।मध्याप्रगल्मे मानावस्थायां प्रत्येकं त्रिविधे ।धीरा अधीरा धीराधीरा चेति व्यङ्ग्य-कोपप्रकाशा धीरा अव्यङ्ग्यकोपप्रकाशाअधीरा व्यङ्ग्याव्यङ्ग्यकोपप्रकाशा धीराधीरा ।एते धीरादयस्त्रयो भेदा द्बिधा भवन्ति ज्येष्ठाकनिष्ठा परिणीतत्वे सति भर्त्तुरधिकस्नेहाज्येष्ठा परिणीतत्वे सति भर्त्तुर्न्यूनस्नेहा कनिष्ठा
अप्रकटपरपुरुषानुरागा परकीया सा चद्विविधा परोढा कन्यका गुप्ता विदग्धालक्षिता कुलटा अनुशयानामुदिताप्रभृतीनांपरकीयायामेवान्तर्भावः गुप्ता त्रिविधा वृत्त-सुरतगोपना वर्त्तिष्यमाणसुरतगोपना वर्त्त-मानसुरतगोपना विदग्धा द्विविधा वाग्वि-दग्धा क्रियाविदग्धा चेति अनुशयाना त्रिविधा ।वर्त्तमानस्थानविघट्टनेन भाविस्यानाभावशङ्कयास्वानधिष्ठितसङ्केतस्थले भर्तुर्गमनानुमानेन
*
वित्तमात्रोपाधिकसकलपुरुषाभिलाषा सामान्य-वनिता एता अन्यसम्भोगदुःखिता वक्रोक्ति-गर्व्विता मानवत्यश्च तिस्रो भवन्ति वक्रोक्ति-गर्व्विता द्बिविधा प्रेमगर्व्विता सौन्दर्य्यगर्व्विताच मानवती यथा प्रियापराधसूचिका चेष्टामानः लघुर्मध्यमो गुरुश्चेति अल्पा-पनेयो लघुः कष्टापनेयो मध्यमः कष्टतमा-पनेयो गुरुः
*
एताः षोडश अष्टाभिरव-स्थाभिः प्रत्येकमष्टविधा प्रोषितभर्त्तृकाखण्डिता उत्कण्ठिता कलहान्तरिता विप्र-लब्धा वासकसज्जा स्वाधीनपतिका अभिसा-रिका चेति गणनादष्टाविंशत्यधिकं शतं भेदाभवन्ति तासामुत्तममध्यमाधमगणनया चतु-रधिकाशीतिशतत्रयं भेदा भवन्ति तत्रासांदिव्य-अदिव्य-दिव्यादिव्यभेदेन गणनया द्विपञ्चा-शदधिकशतयुतसहस्रं भेदा भवन्ति इति रस-मञ्जरी
*
(यथा साहित्यदर्पणे ६५ -- ९३ ।“अथ नायिका त्रिविधा स्वाऽन्या साधारणस्त्रीति ।नायकसामान्यगुणैर्भवति यथासम्भवैर्युक्ता
विनयार्जवादियुक्ता गृहकर्मपरा पतिव्रता स्वीया ।सापि कथिता त्रिविधा मुग्धा मध्या प्रगल्भेति
प्रथमावतीर्णयौवनमदनविकारा रतौ वामा ।कथिता मृदुश्च माने समधिकलज्जावती मुग्धा
मध्या विचित्रसुरता प्ररूढस्मरयौवना ।इषत्प्रगल्भवचना मध्यमव्रीडिता मता
स्मरान्धा गाढतारुण्या समस्तरतकोविदा ।भावोन्नता दरव्रीडा प्रगल्भाक्रान्तनायका
ते धीरा चाप्यधीरा धीराधीरेति षड्विधे ।प्रियं सोत्प्रासवक्रोक्त्या मध्याधीरा दहेद्रुषा
धीराधीरा तु रुदितैरधीरा परुषोक्तिभिः ।प्रगल्भा यदि धीरा स्याच्छन्नकोपाकृतिस्तदा
उदास्ते सुरते तत्र दर्शयन्त्यादरान् बहिः ।धीराधीरा तु सोल्लुण्ठभाषितैः खेदयेदमुम्
तर्जयेत्ताडयेदन्या प्रत्येकं ता अपि द्विधा ।कनिष्ठज्येष्ठरूपत्वान्नायकप्रणयं प्रति
मध्याप्रगल्भयोर्भेदास्तस्माद् द्बादश कीर्त्तिताः ।मुग्धा त्वेकैव तेन स्युः स्वीयाभेदास्त्रयोदश
परकीया द्बिधा प्रोक्ता परोढा कन्यका तथा ।यात्रादिनिरताऽन्योढा कुलटा गलितत्रपा
कन्या त्वजातोपयमा सलज्जा नवयौवना ।धीरा कलाप्रगल्भा स्याद्वेश्या सामान्यनायिका
निर्गुणानपि द्वेष्टि रज्यति गुणिष्वपि ।वित्तमात्रं समालोक्य सा रागं दर्शयेद् बहिः
काममङ्गीकृतमपि परिक्षीणधनं नरम् ।मात्रा निष्क्रामयेदेषा पुनः सन्धानकाङ्क्षया
तस्कराः पण्ड्रका मूर्खाः सुखप्राप्तधनास्तथा ।लिङ्गिनश्छन्नकामाद्या आसां प्रायेण वल्लभाः
एषापि मदनायत्ता क्वापि सत्यानुरागिणी ।रक्तायां वा विरक्तायां रतमस्यां सुदुर्लभम् ।अवस्थाभिर्भवन्त्यष्टावेताः षोडषभेदिताः ।स्वाधीनभर्तृका तद्वत् खण्डिताऽथाभिसारिका
कलहान्तरिता विप्रलब्धा प्रोषितभर्तृका ।अन्या वासकसज्जा स्याद्बिरहोत्कण्ठिता तथा
कान्तो रतिगुणाकृष्टो जहाति यदन्तिकम् ।विचित्रविभ्रमासक्ता सा स्यात् स्वाधीनभर्तृका
पार्श्वमेति प्रियो यस्या अन्यमम्भोगचिह्नितः ।सा खण्डितेति कथिता धीरैरीर्ष्याकषायिता
अभिसारयते कान्तं या मन्मथवशंवदा ।स्वयं वाऽभिसरत्येषा धीरैरुक्ताऽभिसारिका
संलीना स्वेषु गात्रेषु मूकीकृतविभूषणा ।अवगुण्ठनसंवीता कुलजाऽभिसरेत् यदि
विचित्रोज्ज्वलवेशा तु बलन्नूपुरनिस्वना ।प्रमोदस्मेरवदना स्याद् वेश्याऽभिसरेत् यदि
मदस्खलितसंलापा विभ्रमत्फुल्ललोचना ।आविद्धगतिसञ्चारा स्यात् प्रेष्याभिसरेद् यदि
*प्रसङ्गादभिसारस्थानानि कथ्यन्ते ।क्षेत्रं वाटी भग्नदेवालयो दूतीगृहं वनम् ।मालयञ्च श्मशानञ्च नद्यादीनां तटी तथा
एवं कृताभिसाराणां पुंश्चलीनां विनोदने ।स्थानान्यष्टौ तथा ध्वान्तच्छन्नेषु क्वचिदाश्रयः
*
चाटुकारमपि प्राणनाथं रोषादपास्य या ।पश्चात्तापमवाप्नोति कलहान्तरिता तु सा
प्रियः कृत्वापि सङ्केतं यस्या नायाति सन्निधिम् ।विप्रलब्धा तु सा ज्ञेया नितान्तमवमानिता
नानाकार्य्यवशाद् यस्या दूरदेशं गतः पतिः ।सा मनोभवदुःखार्त्ता भवेत् प्रोषितभर्तृका
कुरुते मण्डनं यस्याः सज्जिते वासवेश्मनि ।सा तु वासकसज्जा स्याद्विदितप्रियसङ्गमा
आगन्तुं कृतचित्तोऽपि दैवान्नायाति यत्प्रियः ।तदनागमदुःखार्त्ता विरहोत्कण्ठिता तु सा
इति साष्टाविंशतिशतमुत्तममध्यमाधमस्वरूपतः ।चतुरधिकाशीतियुतं शतत्रयं नायिकाभेदानांस्यात्
क्वचिदन्योन्यसाङ्क्यर्य्यमासां लक्ष्येषु दृश्यते ।इतरा अप्यसंख्यास्ता नोक्ता विस्तरशङ्क्षया
”एतासामुदाहरणानि तत्रैव विस्तरशो द्रष्टव्यानि
अथासामलङ्काराः यथा, तत्रैव ९४ ।“यौवने सत्त्वजास्तासामष्टाविंशतिसंख्यकाः ।अलङ्कारास्तत्र भावहावहेलास्त्रयोऽङ्गजाः
शोभा कांन्तिश्च दीप्तिश्च माधुर्य्यञ्च प्रगल्भता ।औदार्य्यं धैर्य्यमित्येते सप्तैव स्युरयत्नजाः
लीलाविलासौ विच्छित्तिर्विव्वोकः किलकिञ्चितम् ।मोट्टायितं कुट्टमितं विभ्रमो ललितं मदः
विकृतं तपनं मौग्ध्यं विक्षेपश्च कुतूहलम् ।हसितं चकितं केलिरित्यष्टादशसंख्यकाः ।स्वभावजाश्च भावाद्या दश पुंसां भवन्त्यपि
”अथ मुग्धाकन्ययोरनुरागेङ्गितानि यथा, तत्रैव १२३ ।“दृष्टा दर्शयति व्रीडां सम्मुखं नैव पश्यति ।प्रच्छन्नं वा भ्रमन्तं वा तिर्य्यक् तं पश्यति प्रियम्
बहुधा पृच्छ्यमानापि मन्दमन्दमधोमुखी ।सगद्गदस्वरं किञ्चित् प्रियं प्रायेण भाषते
अन्यैः प्रवर्त्तितां शश्वत् सावधाना तत्कथाम् ।शृणोत्यन्यत्र दत्ताक्षी प्रिये बालानुरागिणी
”अथ सकलानामपि नायिकानामनुरागेङ्गितानि ।यथा, तत्रैव १२४ -- १२५ ।“चिराय सविधे स्थानं प्रियस्य बहु मन्यते ।विलोचनपथञ्चास्य गच्छत्यनलङ्कृता
कापि कुन्तलसंव्यानसंयमव्यपदेशतः ।बाहुमूलं स्तनौ नाभिपङ्कजं दर्शयेत् स्फुटम्
आच्छादयति वागाद्यैः प्रियस्य परिचारकान् ।विश्वसित्यस्य भित्रेषु बहुमानं करोति
सखीमध्ये गुणान् ब्रूते स्वधनं प्रददाति ।सुप्ते स्वपिति दुःखस्य दुःखं धत्ते सुखे सुखम्
स्थिता दृष्टिपथे शश्वत् प्रिये पश्यति दूरतः ।आभाषते परिजनं सम्मुखे स्मरविक्रियम्
यत् किञ्चिदपि संवीक्ष्य कुरुते हसितं मुधा ।कर्णकण्डूयनं तद्बत् कवरीमोक्षसंयमौ
जृम्मते स्फोटयत्यङ्गं बालमाश्लिष्य चुम्बति ।भाले तथा वयस्याया आरभेत् तिलकक्रियाम्
अङ्गुष्ठाग्रेण लिखति सकटाक्षं निरीक्षते ।दशति स्वाधरं चापि ब्रूते प्रियमधोमुखी
मुञ्चति तं देशं नायको यत्र दृश्यते ।आगच्छति गृहं चास्य कार्य्यव्याजेन केनचित्
दत्तं किमपि कान्तेन धृत्वाङ्गे मुहुरीक्षते ।नित्यं हृष्यति तद्योगे वियोगे मलिना कृशा
मन्यते बहु तच्छीलं तत्प्रियं मन्यते प्रियम् ।प्रार्थयतेऽल्पमूल्यानि सुप्ता परिवर्त्तते
विकारान् सात्त्विकानस्य सम्मुखी नाधिगच्छति ।भाषते सूनृतं स्निग्धमनुरक्ता नितम्बिनी
एतेष्वधिकलज्जानि चेष्टितानि नवस्त्रियाः ।मध्यव्रीडानि मध्यायाः स्रंसमानत्रपाणि तु
अन्यस्त्रियाः प्रगल्भायास्तथा स्युर्वारयोषितः
लेख्यप्रस्थापनैः स्निग्धैर्वीक्षितैर्मृदुभाषितैः ।दूतीसम्प्रेषणैर्नार्य्या भावाभिव्यक्तिरिष्यते
*
)कस्तूरीविशेषः यथा, राजनिर्घण्टे ।“चूर्णाकृतिस्तु खरिका तिलका तिलाभाकौलत्थवीजसदृशी कुलत्थिकाख्या ।स्थूला यतः कियदियं किल पिण्डिका स्या-त्तस्याश्च किञ्चिदधिकापि नायिकैषा
वाचस्पत्यम्
Sanskrit
नायिका स्त्री नी--ण्वुल् कापि अत इत्त्वम् प्रापिकायांस्त्रियां शृङ्गाररसालम्बनभूतायां स्त्रियां तद्भेदादिसा० द० उक्तं यथा“अथ नायिका त्रिविधा स्वाऽन्या साधारणस्त्रीति ।नायकसामान्यगुणैर्भवति यथासम्भवैर्युक्ता विनयार्जवा-दियुक्ता गृहकर्मपरा पतिव्रता स्वीया साऽपि कथितात्रिविथा मुग्धा मध्या प्रगल्भेति प्रथमावतीर्णयौवनभ-दनविकारा रतौ वामा कथिता मृदुश्च माने समधिकल-ज्जावती मुग्धा मध्या विचित्रसुरता प्ररूढस्मरयौवना ।ईषत्प्रगल्भवचना मध्यमव्रीडिता मता स्मरान्धा नाढ-तारुण्या समस्तरतकोविदा भावोन्नता दरव्रीडाप्रगल्भाऽऽक्रान्तनायका ते धीरा चाप्यधीरा धीरा-धीरेति षडिविधे प्रियं सोत्प्रासवक्रोक्त्या मध्या-धीरा दहेद्रुषा धीराधीरा तु रुदितैरधीरा परुषो-क्तिभिः प्रगल्भा यदि धीरा स्याच्छन्नकोपाकृतिस्तदा ।उदास्ते सुरते तत्र दर्शयन्त्यादरान् बहिः धीराधीरातु सोल्लुण्ठभाषितैः खेदयेदमुम् तर्जयेत्ताडयेदन्याप्रत्येकं ता अपि द्विधा कनिष्ठज्येष्ठरूपत्वान्नायकप्रणयं प्रति मध्याप्रगल्भयोर्भेदास्तस्माद्द्वादश की-र्त्तिताः मुग्धा त्वेकैव तेन स्युः स्वीयाभेदास्त्रयोदश ।परकीया द्विधा प्रोक्ता परोदा कन्यका तथा यात्रादि-निरताऽन्योढा कुलटा गलितत्रपा कन्या त्वजातोपयमा सलज्जा नवयौवना धीरा कलाप्रगल्भा स्या-द्वेश्या सामान्यनायिका निर्गुणानपि द्वेष्टि नरज्यति गुणिष्वपि वित्तमात्रं समालोक्य सा रामं दर्श-येद् बहिः काममङ्गीकृतमपि परिक्षीणधनं नरम् ।मात्रा निष्क्रामयेदेषा पुनःसन्धानकाङ्क्षया तस्कराःपण्ड्रकामूर्खाः सुखप्राप्तधनास्तथा सिङ्गिनश्छन्नका-माद्या आसां प्रायेण वल्लभाः एषापि मदमायत्ताक्वापि सत्यानुरागिणी रक्तायां वा विरक्तायां रतमस्यांसुदुर्लभम् अवस्थाभिर्भवन्त्यष्टावेताः षोडशभेदिताः ।स्वाधीनभर्तृका तद्वत् खण्डिताऽथाभिसारिका कल-हान्तरिता विगसब्धा प्रोषितमर्तृका अन्या वासक-सज्जा स्याद्विरहोत्कण्ठिता तथा कान्तोरतिगुणाकृष्टोम जहाति यदन्तिकम् विचित्रविभ्रमासक्ता सा स्यात्स्ताघीनभर्तृका पार्श्वमेति प्रियो यस्या अन्यसम्मो-नचिह्नितः सा खण्डितेति कथिता धीरैरीर्ष्याकषा-यिता अभिसारयते कान्तं या मन्मथवशंवदा ।स्वयं वाऽभिसरत्येषा धीरैरुक्ताऽमिसारिका चाटु-कारमपि प्राणनाथं रोषादपास्य या पश्चात्तापमवाप्नोतिकलहान्तरिता तु सा प्रियः कृत्वापि सङ्केतं यस्या ना-याति सन्निधिम् विप्रलब्धा तु सा ज्ञेया नितान्तमवमा-निता नानाकार्य्यवशाद् यस्या दूरदेशं गतः पतिः ।सा मनोभवदुःखार्त्ता भवेत् प्रोषितभर्तृका कुरुते मण्डनंयस्याः सज्जिते वासवेश्मनि सा तु वासकसज्जा स्याद्वि-दितप्रियसङ्गमा आगन्तुं कृतचित्तोऽपि दैवान्नायातियत्प्रियः तदनागमदुःखार्त्ता विरहोत्कण्ठिता तु सा ।इति साष्टविंशतिशतमुत्तममध्यमाधमस्वरूपतः चतर-धिकाशीतियुतं शतत्रयं नायिकाभेदानां स्यात्” ।३ देव्याः शक्तिभेदे “ततोऽष्ट नायिका देव्याः यत्नतः परि-पूजयेत् उग्रचण्डां प्रचण्डां चण्डोग्रां चण्डना-यिकाम् अतिचण्डां चामुण्डां चण्डां चण्डवतींतथा” ब्रह्मवै० प्रकृतिख० ६० अ० कस्तूरीभेदे “चूर्णा-कृतिस्तु खरिका तिलका तिलाभा कौलत्थवीजसदृशी चकुलत्थिकाख्या स्थूला ततः कियदियं किल पिण्डिकास्यात्तस्याश्च किञ्चिदधिकापि नायिकैषा” राजनि०