नाडीव्रणः (nADIvraNaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Wordnet
Sanskrit नाडीव्रणः
यः प्रचुरपूयमसाधुवृत्तः सदागलद्व्रणः।
"बहुकालं यावत् औषधारोपणेन एव तस्य नाडीव्रणः सम्यक् जातः।"
शब्दकल्पद्रुमः
Sanskritनाडीव्रणः, (नाडीसंलग्नो व्रणः ।) सर्व्वदा-गलद्व्रणः । नाली घा इति भाषा । इत्यमरः ।२ । ६ । ५४ ॥
तस्य निदानं यथा, --“यः शोथमामभिति पक्वमुपेक्षतेऽज्ञोयो वा व्रणं प्रचुरपूयमसाधुवृत्तः ।अभ्यन्तरं प्रविशति प्रविदार्य्य तस्यस्थानानि पूर्व्वविहितानि ततः सपूयः ॥
तस्यातिमात्रगमनाद्गतिरिष्यते तुनाडीव यद्वहति तेन मता तु नाडी ॥
” * ॥
वातादिदोषभेदेन तस्य रूपाणि यथा, --“दोषैस्त्रिभिर्भवति सा पृथगेकशश्चसंमूर्च्छितैरपि च शल्यनिमित्ततोऽन्या ।तत्रानिलात् परुषसूक्ष्ममुखी सशूलाफेनानुविद्धमधिकं स्रवति क्षपासु ॥
पित्तात्तृषाज्वरकरी परिदाहयुक्तापीतं स्रवत्यधिकमुष्णमहःसु चापि ।ज्ञेया कफाद्बहुघनार्ज्जुनपिच्छिलास्रास्तब्धा सकण्डुररुजा रजनीप्रवृद्धा ॥
दाहज्वरश्वसनमूर्च्छनवक्त्रशोषायस्यां भवन्त्यभिहितानि च लक्षणानि ।तामादिशेत् पवनपित्तकफप्रकोपात्घोरामसुक्षयकरीमिव कालरात्रिम् ॥
दोषद्बयाभिहतलक्षणदर्शनेनतिस्रो गतीर्व्यतिकरप्रभवास्तु विद्यात् ॥
”शल्यनिमित्तलक्षणं यथा, --“नष्टं कथञ्चिदनुमार्गमुदीरितेषुस्थानेषु शल्यमचिरेण गतिं करोति ।सा फेनिलं मथितमच्छमसृग्विमिश्र-मुष्णं करोति सहसा सरुजञ्च नित्यम् ॥
”असाध्यकृच्छ्रसाध्ययोर्लक्षणं यथा, --“नाडी त्रिदोषप्रभवा न सिध्येत्शेषाश्चतस्रः खलु यत्नसाध्याः ॥
”इति माधवकरः ॥
* ॥
“विडङ्गत्रिफला कृष्णाचूर्णं लीढं समाक्षिकम् ।हन्ति कुष्ठं कृमीन्मेहनाडीव्रणभगन्दरान् ॥
”इति गरुडपुराणम् ॥
(अस्य चिकित्सान्तरं यथा, --“नाडीनां गतिमन्विष्य शस्त्रेणापाट्य कर्म्मवित् ।सर्व्वव्रणक्रमं कुर्य्यात् शोघनं रोपणादिकम् ॥
नाडीं वातकृतां साधु पाटितां लेपयेद्भिषक् ।प्रत्यक् पुष्पीफलयुतैस्तिलैः पिष्टैः प्रलेपयेत् ॥
पैत्तिकीं तिलमञ्जिष्ठानागदन्तीनिशायुगैः ।श्लैष्मिकीं तिलयष्ट्याह्वनिकुम्भारिष्टसैन्धवैः ॥
शल्यजां तिलमध्वाज्यैर्लेपयेच्छिन्नशोधिताम् ।आरग्वधनिशाकालाच्चूर्णाज्यक्षौद्रसंयुता ।सृत्रवर्त्तिर्व्रणे योज्या शोधनी गतिनाशनी ॥
घोण्टाफलत्वङ्मदनात् फलानिपूगस्य च त्वक् लवणञ्च मुख्यम् ।स्नुह्यर्कदुग्धेन सहैष कल्कोवर्त्तीकृतो हन्त्यचिरेण नाडीम् ॥
वर्त्तीकृतं माक्षिकसंप्रयुक्तंनाडीघ्नमुक्तं लवणोत्तमं वा ।दुष्टव्रणे यद्बिहितञ्च तैलंतत् सेच्यमानं गतिमाशु हन्ति ॥
जात्यर्कसम्पाककरञ्जदन्ती-सिन्धूत्थसौवर्च्चलयावशूकैः ।वर्त्तिः कृता हन्त्यचिरेण नाडींस्नुक्क्षीरपिष्टा सह चित्रकेण ॥
महिषदधिकोद्रवान्नमिश्रं हरति चिरविरूढाञ्च ।भुक्तं कङ्कुनिकामूलचूर्णमतिदारुणां हन्ति ॥
कृशदुर्ब्बलभीरूणां गतिर्म्मर्म्माश्रिता च या ।क्षारसूत्रेण तां भिन्द्यान्न शस्त्रेण कदाचन ॥
एषण्या गतिमन्विष्य क्षारसूत्रानुसारिणीम् ।सूचीं विदध्याद्गत्यन्ते चोन्नम्याशु च निर्हरेत् ॥
सूत्रस्यान्तं समानीय गाढबन्धनमाचरेत् ।ततः क्षारबलं वीक्ष्य सूत्रमन्यत् प्रवेशयेत् ॥
क्षाराक्तं मतिमान् वैद्यो यावन्न च्छिद्यते गतिः ।भगन्दरेऽप्येष विधिः कार्य्यो वैद्येन जानता ॥
गुग्गुलुस्त्रिफलाव्योषैः समांशैराज्ययोजितः ।नाडीदुष्टव्रणं शूल-भगन्दरविनाशनः ॥
इति सप्ताङ्गगुग्गुलुः ॥
स्वर्ज्जिका सिन्धुदन्त्यग्निरूपिकानलनीलिका ।खरमञ्जरीबीजेषु तैलं गोमूत्रपाचितम् ॥
दुष्टव्रणप्रशमनं कफनाडीव्रणापहम् ॥
इति स्वर्ज्जिकाद्यं तैलम् ॥
समूलपत्रां निर्गुण्डीं पीडयित्वा रसेन तु ।तेन सिद्धं समं तैलं नाडीदुष्टव्रणापहम् ॥
हितं पामापचीनान्तु पानाभ्यञ्जननावनैः ।विविधेषु च स्फोटेषु तथा सर्व्वव्रणेषु च ॥
इति निर्गुण्डीतैलम् ।हंसपाद्यरिष्टपत्रं जातीपत्रं ततो रसैः ।तत्कल्कैश्च पचेत्तैलं नाडीव्रणविशोधनम् ॥
इति हंसपादादितैलम् ॥
”इति वैद्यकचक्रपाणिसंग्रहे नाडीव्रणाधि-कारः ॥
)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
