नागलोक (nAgaloka)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Spoken Sanskrit
Englishनागलोक - nAgaloka - - world of serpents or serpents-demons
नागलोक - nAgaloka - - race of these beings collectively
नागलोक nAgaloka world of serpents or serpents-demons
नाग nAga relating to serpents or serpents-demons
देवजन devajana troop or collection of gods or demons or serpents
पाताल pAtAla one of the 7 regions under the earth and the abode of the nAgas or serpents and demons
Monier Williams Cologne
EnglishApte Hindi
Hindiनागलोकः
नागः-लोकः -
"सांपों की दुनिया, सांपों का कुल, भूलोक के नीचे अवस्थित पाताल लोक"
Shabdartha Kaustubha
Kannadaनागलोक
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಸರ್ಪಗಳ ಲೋಕ / ಪಾತಾಳ ಲೋಕ
व्युत्पत्तिः - > नागाधिष्ठितो लोकः
विस्तारः - > ಇದು ಸಪ್ತ ಅಧೋಲೋಕಗಳಲ್ಲೊಂದು. (ವಿವರಕ್ಕೆ "पाताल" ಪದದಲ್ಲಿ ನೋಡಿ)
L R Vaidya
EnglishSanskrit Tibetan
Tibetanklu yi 'jig rten
नागलोक
klu'i 'jig rten
नागलोक
klu'i 'dzin
नागलोक
अभिधानचिन्तामणिः
Sanskritनोदधिघनवाततनुवातनभःस्थिताः ॥ १३५९ ॥
रत्नशर्करावालुकापङ्कधूमतमःप्रभाः ।
महातमःप्रभा चेत्यधोधो नरकभूमयः ॥ १३६० ॥
क्रमात्पृथुतराः सप्ताथ त्रिंशत्पञ्चविंशतिः ।
पञ्च पञ्चदश त्रीणि लक्षाण्यूनं च पञ्चभिः ॥ १३६१ ॥
लक्षं पञ्चैव नरकावासाः सीमन्तकादयः ।
एतासु स्युः क्रमेणाथ पातालं वडवामुखम् ॥ १३६२ ॥
बलिवेश्माधोभुवनं नागलोको रसातलम् ।
घनोदधि (पुं), घनवात (पुं), तनुवात (पुं), नभःस्थित (पुं), रत्नप्रभा (स्त्री), शर्कराप्रभा (स्त्री), वालुकाप्रभा (स्त्री), पङ्कप्रभा (स्त्री), धूमप्रभा (स्त्री), तमःप्रभा (स्त्री), महातमःप्रभा (स्त्री), नरकभूमि (स्त्री), पाताल (क्ली), वडवामुख (क्ली), बलिवेश्मन् (क्ली), अधोभुवन (क्ली), नागलोक (पुं), रसातल (क्ली)
अभिधानरत्नमाला
Sanskritवडवामुख
वडवामुख, पाताल, वैरोचननिकेतन, अधोभुवन, नागलोक, रसातल
वडवामुखं पातालं वैरोचननिकेतनम् ।
तथाधोभुवनं प्रोक्तं नागलोको रसातलम् ॥ ६२३ ॥
verse 3.1.1.623
page 0071
Mahabharata
EnglishNāgaloka (“the world of the Nāgas (Serpents)”). § 17 (Uttaṅka): I, 3, ††793, ††796, ††815, ††823.--§ 197 (Bhīmasenarasapāna): I, 129, 5059, 5065.--§ 360 (Tīrthayātrāp.): III, 82, 5055.--§ 362 (do.): III, 83, 5085.-§ 458 (Mārkaṇḍeyas.): III, 188, 12875.--§ 524c (Vishṇu): III, 272, 15810 (pl.).--§ 564 (Mātalīyop.): V, 97, 3519
98, 3529
99, 3547 (ºsya nābhishṭhāne…Pātālaṃ)
102, 3616, 3620.--§ 585b (Irāvat): VI, 90, 3980 (ºe saṃvṛddhaḥ, sc. Irāvat).--§ 784c (Uttaṅka): The N. extended thousand of yojanas on all sides, and had many walls of pure gold, and was decked with jewels and gems
there were many fine tanks of water with flights of staircases made of pure crystal, and many rivers of clear and transparent water
Uttaṅka also saw many trees with diverse species of birds
the gate was five yojanas high and 100 yojanas in width: XIV, 58, 1719, 1722, 1723, 1725, 1726, 1730, 1738, 1739.
पुराणम्
Englishनागलोक / NĀGALOKA. The world of the Nāgas or pātāla. vāsuki is its chief. (Ādi Parva, Chapter 127, Verse 60). There is a pond in nāgaloka and a drink of its water bestows the strength of a thousand elephants. (Ādi Parva, Chapter 127, Verse 68). pātāla is thousands of miles away from earth. Its area exceeds a thousand yojanas, and it is surrounded by magnificent forts studded with gems. The steps at the entrance of the fort are also decorated with gold and gems. There are beautiful gardens, fountains and singing birds in pātāla. Its outer doors are hundred yojanas in length and five in width. (aśvamedha Parva, Chapter 58, Verse 37).
शब्दकल्पद्रुमः
Sanskritवाचस्पत्यम्
Sanskritनागलोक ६ त० । नागाधिष्ठिते लोके पाताले नाग-शब्दे तेषां पातालस्थितिकारणं दर्शितम् । पातालाव-स्थानभेदादि पुराणसर्वस्वे विष्णुपुराणाद्युक्तं यथा“पराशर उवाच विस्तार एष कथितः पृथिव्या भवतोमया । सप्ततिस्तु सहस्राणि द्विजोच्छ्रायोऽपि कथ्यते ।दशसाहस्रमेकैकं पातालं मुनिसत्तम! । सुतलं वितलञ्चैवनितलञ्च गभस्तिमत् । महाग्रमतलञ्चापि पातालञ्चापिसत्तम! । भूमयो यत्र मैत्रेय! वरप्रासादशोभिताः ।तेषु दानवदैतेयजातयः शतसंघशः । निवसन्ति महा-नागजातयश्च महामुने!” ब्रह्माण्डे “प्रथमेऽस्मिंस्तलेख्यातमसुरेन्द्रस्य मन्दिरम् । नमुचर्देवशत्रोश्च महाना-दस्य चानघ! । पुरञ्च शङ्कुकर्णस्य कबन्धस्य च मन्दि-रम् । किंविषयस्य च पुरं प्रहृष्टजनसङ्कुलम् । राक्ष-सस्य च भीमस्य शूलदन्तस्य चालयः । लोहिताक्षकुविन्दानां नगरं श्वापदस्य च । धनञ्जयस्य सदनंनागेन्द्रस्य महात्मनः । कालियस्य च नागस्य नगरंकलसस्य च । एवं पुरसहस्राणि नागदानवरक्षसाम् ।ज्ञेयानि प्रथमे चैव कृष्णभौमे तले द्विज! । द्वितीयेऽस्मिस्तले ज्ञेयं दैत्येन्द्रस्य सुरक्षसः । महाजम्भस्य च तथानगरं प्रथसस्य च । हयग्रीवस्य कृष्णस्य निजं तस्यच मन्दिरम् । शङ्खाख्यस्य च दैत्यस्य नगरं गोमुखस्यच । राक्षसस्य च नीलस्य मेघस्य क्रथकस्य च । पुरञ्चकृष्णपादस्य महोष्णीषस्य चालयः । कम्बलस्य च नागस्यपुरमश्वतरस्य च । कद्रुपुत्रस्य च पुरं तक्षकस्य महा-त्मनः । एवं पुरसहस्राणि नागदानवरक्षसाम् । द्वितीये-ऽस्मिंस्तले विप्राः पाण्डुभौमे न संशयः । तृतीये तुतले ख्यातं प्रह्लादस्य महात्मनः । अनुह्लादस्य च पुरंपुरमग्निमुखस्य च । तारकाख्यस्य च पुरं पुरं त्रिशिरसस्तथा । शिसुमारस्य च पुरं हृष्टपुष्टजनाकुलम् ।च्यवनस्य च विज्ञेयं राक्षसस्य च मन्दिरम् । मन्दरस्यो-रगपतेर्विशालस्य च मन्दिरम् । एवं पुरसहस्राणि ना-गदानवरक्षसाम् । तृतीयेऽस्मिंस्तले ज्ञेयं रक्तभौमे नसंशयः । तत्रापि दैत्यसिंहस्य कालनेमेः पुरं महत् ।तथालम्बस्य च पुरं नगरं कुञ्जरस्य च । राक्षसेन्द्रस्य चपुरं सुमालेर्बहुविस्तरम् । मुञ्जस्य कोकनागस्य वृकष-क्त्रस्य चालयः । बहुयोजनसाहस्रं बहुपक्षिगणाकु-लम् । नगरं वैनतेयस्य चतुर्थेऽस्मिन्रसारले । पञ्चमेशर्कराभौमे बहुयोजनविस्तृतम् । विरीचनस्य नगरंदैत्यसिंहस्य वामतः । व्यायतास्याग्निजिह्वस्य हिरण्या-क्षस्य चालयः । पुरञ्च विद्युज्जिह्वस्य राक्षसेन्द्रस्य धी-मतः । महामेघस्य च पुरं रक्षसो देवविद्विषः ।किर्भीरस्य च नागस्य स्वस्तिकस्य जयस्य च । एवं पुर-सहस्राणि नागदानवरक्षसाम् । पञ्चमेऽस्मिंस्तले ज्ञेयंशर्करानिलये तथा । षष्ठे तले केशरिणो दैत्येन्द्रस्यपुरं स्मृतम् । सुपर्वणः पुलोम्नश्च नगरं महिषस्य च ।राक्षसेन्द्रस्य च पुरं चुक्रोशस्य महात्मनः । तत्रास्तेसुरसापुत्रः शतशीर्षोमुदा युतः । महेन्द्रस्य सखा श्रीमान्वासुकिर्नाम नागराट् । एवं पुरसहस्राणि नागदानष-रक्षसाम् । षष्ठे तलेऽस्मिन् ख्यातानि शिलाभौमे रसा-तले । सप्तमे तु तले ज्ञेयं पाताले पूर्वपश्चिमे । पुरंबलेः प्रमुदितं नरनारीगणायुतम् । असुराशीविवैःपर्णमुद्धतैर्देवशत्रुभिः । मुचुकुन्दस्य दैत्यस्य तत्रैव न-गरं महत् । अनेकैर्दितिपुत्राणां समुदीर्णैर्महासुरैः ।तथैव नागनगरैरृषिमद्भिर्महात्मभिः । दैत्यानां दानवा-नाञ्च समुदीर्णैर्महासुरैः । उदीर्णै राक्षसावासैरनेकैश्चसमाकुलम् । स्वर्लोकादपि रम्याणि पातालानीतिनारढः । प्राह स्वर्गसभामध्ये पातालेभ्यो गतो दिवि ।आह्लादकारिणः शुभ्रा मणयो यत्र सुप्रभाः । नागाभ-रणभूषासु पातालं केन तत्समम् । दैन्यदारिद्र्यरहितै-रितश्चेतश्च शोभिते । पाताले कस्य न प्रीतिर्विमुक्तस्यापिजायते । दिवार्करश्मयो यत्र प्रभां तन्वन्ति नातपम् ।शशिनश्च न शीताय निशि द्योताय केवलम् । भक्ष्यभोज्यमहापानमुदितै रात्रिभोगिभिः । यत्र न ज्ञायते कालोगतोऽपि दनुजादिभिः । वनानि नद्यो रम्याणि सरांसिकमलानि च । पुंष्कोकिलादिनादाश्च मनोज्ञान्यम्ब-राणि च । भूषणान्यतिरम्याणि गन्धाद्यञ्चानुलेपनम् ।वेणुवीणामृदङ्गानामुदितैर्नादितानि च । एतान्यन्यानिचोदारभोगभोग्यानि दानवैः । दैत्योरगैश्च भुज्यन्तेपातालान्तरगोचरैः । पातालागामधश्चान्ते विष्णोर्या ता-मसी तनुः । शेषाख्या तद्गुणान् वक्तुं न शक्ता दैत्यदा-नवाः । योऽनन्तः पठ्यते सिद्ध्वैर्देवदेवर्षिभूषितैः । सह-स्रशिरसा व्यक्तः स्वस्तिकामलभूषणः । फणामणिसह-स्रेण यश्च विद्योतयन् दिशः । सर्वान् करोति निर्वी-र्य्यान् हिताय जगतोऽसुरान् । मदाघूर्णितनेत्रोऽसौयः सदैवैककुण्डलः । किरीटी स्रग्धरो भाति साग्निःश्वेत इवर्क्षराट् । नीलवासा मदोत्सिक्तः श्वेतहारोपशोभितः । साभ्रे गङ्गाप्रपातोऽसौ कैलासाद्रिरिवो-न्नतः । लाङ्गूलासक्तहस्ताग्रो बिभ्रन्मूषलमुत्तमम् ।उपास्यते स्वयं कान्त्या यो वारुण्या च मूर्त्तया । क-ल्पान्ते यस्य वक्त्रेभ्यो विषानलशिखोज्ज्वलः । सङ्क-र्षणात्मको रुद्रो निर्गम्यात्ति जगत्त्रयम् । समस्तपृथिवीभूतमशेषक्षितिमण्डलम् । आस्ते पातालमूलस्थःशेषोऽशेषसुरार्चितः । तस्य वीर्यं प्रभावञ्च स्वरूपंरूपमेव च । न हि वर्णयितुं शक्यं ज्ञातुं वा त्रिदशै-रपि । यस्यैषा सकला पृथ्वी फणामणिशिखारुणा ।आस्ते कुसुममालेव कस्तद्वीर्यं वदिष्यति । यदा विजृ-म्भतेऽनन्तो मदाघूर्णितलोचनः । तदा चलति भूरेषासाद्रितोयाब्धिकानना । यदा तु पर्वणि गजः खेदाच्चा-लयते शिरः । सपर्वतबना नाम तदेयं चलति क्षितिः ।गन्धर्वाप्सरसः सिद्धाः किन्नरोरगचारणाः । नान्तंगुणान्तं गच्छन्ति तेनानन्तोऽयमुच्यते । यस्य नागवधू-हस्तैर्लेपितं हरिचन्दनम् । स्वनिश्वासानिलापास्तंयाति दिक्पटवासताम् । यमामनति देवर्षिर्गर्गोज्योतींषि-तत्त्वतः । भगवान् सकलञ्चैव निमित्तं पटितं फलम् ।तेनेयं नागवर्येण शिरसा विधृता मही । बिभर्त्तिमालांलोकानां सदेवासुरमानुषाम्” नागभुवनादयोऽप्यत्र ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
