नागयष्टि (nAgayaSTi)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishWilson
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Apte Hindi
Hindiनागयष्टिः
नागः-यष्टिः -
नये खुदे तालाब में पानी की गहराई नापने के लिए अंशांकित बांस विशेष
नागयष्टिः
नागः-यष्टिः -
धरती में छेद करने का वर्मा
Shabdartha Kaustubha
Kannadaनागयष्टि
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಕೆರೆ ಕೊಳ ಮೊದಲಾದವುಗಳ ದಡದಲ್ಲಿ ನೆಟ್ಟಿರುವ ವಲಸೆ ಮೊದಲಾದ ಮರದ ಕಂಬ
व्युत्पत्तिः - > नागाधिष्ठिता यष्टिः
L R Vaidya
Englishशब्दकल्पद्रुमः
Sanskritनागयष्टिः, (नागाधिष्ठिता यष्टिः ।) पुष्क-रिण्यादिस्थितकाष्ठविशेषः । रैकाठ इतिभाषा ॥
तत्पर्य्यायः । नागाञ्चला २ । इतिजटाधरः ॥
(यथा, हयशीर्षे ।“वैणवं वारुणञ्चैव पुन्नागं नागकेशरम् ।वकुलं चम्पकञ्चैव विल्वञ्चैवाथ खादिरम् ॥
एतेषामेव दारूणां नागयष्टिः प्रकीर्त्तिता ।सवक्रकोटरं त्यक्त्वा तस्मात् कुर्य्यात् यथेप्सि-तम् ॥
”)
वाचस्पत्यम्
Sanskritनागयष्टि स्त्री नागाधिष्ठानं यष्टिः । तडागादौ आरोप्येवारुणादिकाष्ठमये नागविशेषस्याधिष्ठानरूपे स्तम्भभेदे(रैकाठ) तद्विधानं तदघिष्ठातृनागनामज्ञापनं चजलाशयोत्सर्गे उक्तं यथा कापिले “नागानामष्टनामानि लिखितानि पृथक् पृथक् । ततः कुम्भे चनिःक्षिप्य गायत्र्या च विलोड्य वै । उद्धरेत् पत्रिका-मेकां तत्र वैनागमीक्षयेत् । यस्य नामोद्धरेद्वत्स!स वै जलाधिपः स्मृतः । तं वै संपूज्य गन्धाद्यैर्दद्यात्क्षीरञ्च पायसम्” । पत्राण्याम्रस्य । योगीश्वरधृतवच-नात् । “यथाऽष्टौ नामान्याम्रस्य पत्रे कृत्वा तुयत्नतः” तानि च गारुडे । “अनन्तो वासुकिः पद्मोमहापद्मोऽथ तक्षकः । कुलीरः कर्कटः शङ्खो ह्यष्टौनागाः प्रकीर्त्तिताः” ततश्च अनन्तवासुकिकर्कोटकपद्म-महापद्मतक्षकशङ्खकुलीराणां नामान्याम्रपत्रे लिखित्वाकुम्भमध्ये निक्षिप्य गायत्र्या गोमूत्रेण वा “छन्दसा-मथ्नामीति” रघुनाथधृतमन्त्रेणालोड्य यस्य नामोत्तिष्ठतितं यष्ट्यां समाबाह्यानेन नागेन अस्य जलाशयस्य रक्षाकर्त्तव्येति ब्राह्मणान् श्रावयेत् । हयशीर्षे “वैल्वकंवारुणञ्चैव पुन्नागं नागकेसरम् । बकुलं चम्पकञ्चैवविल्वञ्चैवाथ खादिरम् । एतेषामेव दारुणां नागयष्टिःप्रकीर्त्तिता । सवक्रकोटरं त्यक्त्वा तस्मात् कुर्य्यात् यथे-प्सितम्” । तथा च वृहस्पतिः “शूलचक्राङ्कितं कृत्वास्थापयित्वा जलाशये । द्वादशाङ्गुलमानन्तु वाप्यां चक्रंप्रकल्पयेत् । षोडशं पुष्करिण्यान्तु विंशतिस्तु सरो-वरे । सागरे हस्तमात्रन्तु लौहं ताम्रञ्च पैत्तलम् ।चक्रञ्च विविधं प्रोक्तं कुर्य्यात्तेषां यथेप्सितम्” ।स्वार्थे क तत्रार्थे त्रिका० ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
