नागमाता (nAgamAtA)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Wordnet
Sanskrit सुरसा, नागमाता
रामायणे वर्णिता नागानां माता या समुद्रोल्लङ्घनकाले हनुमन्तं परीक्षितवती।
"हनुमन्तं परीक्षितुं देवाः सुरसाम् अप्रेषयन्।"
अभिधानचिन्तामणिः
Sanskritगन्धाश्मा शुल्वपामाकुष्ठारिर्गन्धिकगन्धकौ ॥ १०५७ ॥
सौगन्धिकः शुकपुच्छो हरितालं तु पिञ्जरम् ।
विडालकं विस्रगन्धि खर्जूरं वंशपत्त्रकम् ॥ १०५८ ॥
आलपीतनतालानि गोदन्तं नटमण्डनम् ।
वङ्गारिर्लोमहृच्चाथ मनोगुप्ता मनःशिला ॥ १०५९ ॥
करवीरा नागमाता रोचनी रसनेत्रिका ।
नैपाली कुनटी गोला मनोह्वा नागजिह्विका ॥ १०६० ॥
गन्धाश्मन् (पुं), शुल्वारि (पुं), पामारि (पुं), कुष्ठारि (पुं), गन्धिक (पुं), गन्धक (पुं), सौगन्धिक (पुं), शुकपुच्छ (पुं), हरिताल (क्ली), पिञ्जर (क्ली), विडालक (क्ली), विस्रगन्धि (क्ली), खर्जूर (क्ली), वंशपत्रक (क्ली), आल (क्ली), पीतन (क्ली), ताल (क्ली), गोदन्त (क्ली), नटमण्डन (क्ली), वङ्गारि (पुं), लोमहृत् (क्ली), मनोगुप्ता (स्त्री), मनःशिला (स्त्री), करवीरा (स्त्री), नागमाता (स्त्री), रोचनी (स्त्री), रसनेत्रिका (स्त्री), नेपाली (स्त्री), कुनटी (स्त्री), गोला (स्त्री), मनोह्वा (स्त्री), नागजिह्विका (स्त्री)
शब्दकल्पद्रुमः
Sanskritनागमाता, [ऋ] (नागानां हस्थिनांमातेव भूषकत्वात् ।) मनःशिला । इति हेम-चन्द्रः । ४ । १२६ ॥
(नागानां सर्पाणां माता ।)मनसादेवी । इति शब्दरत्नावली ॥
(यथा, ब्रह्मवैवर्त्ते । २ । १ । ६७ ।“नागेश्वरस्यानन्तस्य भगिनी नागपूजिता ।नागेश्वरी नागमाता सुन्दरी नागवाहिनी ॥
”सुरसा । इयं हि सागरोल्लङ्घनसमये हनुमतःपरीक्षार्थं देवैरादिष्टा तस्य विघ्नमाचरितुं गतातेन वञ्चिता च । यथा, रामायणे । ६ । १ । १३९ ।“ततो देवाः सगन्धर्व्वाः सिद्बाश्च परमर्षयः ।अब्रुवन् सूर्य्यसङ्काशां सुरसां नागमातरम् ॥
”यथा, च अध्यात्मरामायणे । ६ । १ । ८ -- २४ ।“दृष्ट्वानिलसुतं देवा गच्छन्तं वायुवेगतः ।परीक्षणार्थं सत्त्वस्य वानरस्येदमब्रुवन् ॥
गच्छत्येष महासत्त्वो वानरो वायुविक्रमः ।लङ्कां प्रवेष्टुं शक्तो वा न वा जानीमहे बलम् ॥
एवं विचार्य्य नागानां मातरं सुरसाभिधाम् ।अब्रवीद्देवतावृन्दः कौतूहलसमन्वितः ॥
गच्छ त्वं वानरेन्द्रस्य किञ्चिद्विघ्नं समाचर ।ज्ञात्वा तस्य बलं बुद्धिं पुनरेहि त्वरान्विता ॥
इत्युक्ता सा ययौ शीघ्रं हनुमद्विघ्नकारणात् ।आवृत्य मार्गं पुरतः स्थित्वा वानरमब्रवीत् ॥
एहि मे वदनं शीघ्रं प्रविशस्व महामते ! ।देवैस्त्वं कल्पितो भक्ष्यः क्षुधासम्पीडितात्मनः ॥
तामाह हनुमान् मातरहं रामस्य शासनात् ।गच्छामि जानकीं द्रष्टुं पुनरागम्य सत्वरः ॥
रामाय कुशलं तस्याः कथयित्वा त्वदाननम् ।निवेक्ष्ये देहि मे मार्गं सुरसायै नमोऽस्तु ते ॥
इत्युक्ता पुनरेवाह सुरसा क्षुधितास्म्यहम् ।प्रविश्य गच्छ मे वक्त्रं नोचेत् त्वां भक्षयाम्यहम् ॥
इत्युक्तो हनुमानाह मुखं शीघ्रं विदारय ।प्रविश्य वदनं तेऽद्य गच्छामि त्वरयान्वितः ॥
इत्युक्ता योजनायामदेहो भूत्वा पुरः स्थितः ।दृष्ट्वा हनुमतो रूपं सुरसा पञ्चयोजनम् ।मुखं चकार हनुमान् द्बिगुणं रूपमादधत् ॥
ततश्चकार सुरसा योजनानाञ्च विंशतिम् ।वक्त्रं चकार हनुमांस्त्रिंशद्योजनसम्मितम् ॥
ततश्चकार सुरसा पञ्चाशद्योजनायतम् ।वक्त्वं तदा हनूमांस्तु बभूवाङ्गुष्ठसन्निभः ॥
प्रविश्य वदनं तस्याः पुनरेत्य पुरः स्थितः ।प्रविष्टो निर्गतोऽहं ते वदनं देवि ! ते नमः ॥
एवं वदन्तं दृष्ट्वा सा हनुमन्तमथाब्रवीत् ।गच्छ साधय रामस्य कार्य्यं बुद्धिमतां वर ! ॥
देवैः सम्प्रेषिताहं ते बलं जिज्ञासुभिः कपे ! ।दृष्ट्वा सीतां पुनर्गत्वा रामं द्रक्ष्यसि गच्छ भो ॥
”कद्रुः । इति महाभारतम् ॥
)
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
