| YouTube Channel

नागः (nAgaH)

 
Apte Hindi
Hindi
नागः
पुं*
- नाग + अण्
"साँप, विशेष कर काला साँप"
नागः
पुं*
- नाग + अण्
"एक काल्पनिक नागदैत्य जिसका मुख मनुष्य जैसा और पूंछ साँप जैसी होती है तथा जो पाताल में रहता है- @ भग* १०/२९, @ रघु* १५/८३"
नागः
पुं*
- नाग + अण्
हाथी
नागः
पुं*
- नाग + अण्
मगरमच्छ
नागः
पुं*
- नाग + अण्
"क्रूर, अत्याचारी व्यक्ति"
नागः
पुं*
- नाग + अण्
गण्यमान्य और पूज्य व्यक्ति
नागः
पुं*
- नाग + अण्
बादल
नागः
पुं*
- नाग + अण्
खूंटी
नागः
पुं*
- नाग + अण्
"नागकेसर, नागरमोथा"
नागः
पुं*
- नाग + अण्
शरीरस्थ पाँच प्राणों में वह वायु जो डकार के द्वारा बाहर निकलती है।
नागः
पुं*
- नाग + अण्
सात की संख्या
नागः
पुं*
- "न गच्छति इति अगः, अग इति नागः"
साँप
नागः
पुं*
- "न गच्छति इति अगः, अग इति नागः"
हाथी
नागः
पुं*
- "न गच्छति इति अगः, अग इति नागः"
बादल
नागः
पुं*
- "न गच्छति इति अगः, अग इति नागः"
बिगुल
Wordnet
Sanskrit
Synonyms:
गजः, हस्ती, करी, दन्ती, द्विपः, वारण-, मातङ्गः, मतङ्गः, कुञ्जरः, नागः, द्विरदः, इभः, रदी, द्विपायी, अनेकपः, विषाणी, करेणुः, पद्मी, लम्बकर्णः, शुण्डालः, कर्णिकी, दन्तावलः, स्तम्बेरमः, दीर्घवक्त्रः, द्रुमारिः, दीर्घमारुतः, विलोमजिह्वः, शक्वा, पीलुः, महामृगः, मतङ्गजः, षष्ठिहायनः
noun
वन्यपशुः , यस्य वक्षो अथ कक्षावलयः, श्लथाश्च लम्बोदरसः त्वग्बृहतीगलश्च पेचकेन सह स्थूला कुक्षिः अस्ति। तथा यः शुण्ावान् अस्ति।
"हया जिहेषिरे हर्षाद् गम्भीरं जगजुः गजाः।"
Synonyms:
नागः, भुजङ्गः, फणी
noun
सर्पविशेषः, तीव्रविषयुक्तः, फणालाङ्गुलयुक्तः सर्पः।
"नागः चन्दनतरौ वसति।"
Synonyms:
नागः
noun
हिमालयस्था प्राचीना जातिः।
"हिमालयः एव नागानां निवासस्थानम् अस्ति।"
Synonyms:
वत्सनाभः, अमृतम्, विषम्, उग्रम्, महौषधम्, गरलम्, मारणम्, नागः, स्तौकृंकम्, प्राणहारकम्, स्थावरादि
noun
विषवृक्षविशेषः।
"वत्सनाभः मधुरः अस्ति।"
Synonyms:
गजः, हस्ती, करी, दन्ती, द्विपः, वारणः, मातङ्गः, मतङ्गः, कुञ्जरः, नागः, द्विरदः, इभः, रदी, द्विपायी, अनेकपः, विषाणी, करेणुः, लम्बकर्णः, पद्मी, शुण्डालः, कर्णिकी, दन्तावलः, स्तम्बेरमः, दीर्घवक्त्रः, द्रुमारिः, दीर्घमारुतः, विलोमजिह्वः, शक्वा, पीलुः, मामृगः, मतङ्गजः, षष्ठिहायनः
noun
पशुविशेषः- सः पशुः यः विशालः स्थूलः शुण्डायुक्तः च।
"गजाय इक्षुः रोचते।"
Synonyms:
मेघः, अभ्रमम्, वारिवाहः, स्तनयित्नुः, बलाबकः, धाराधरः, जलधरः, तडित्वान्, वारिदः, अम्बुभृत्, घनः, जीमूतः, मुदिरः, जलमुक्, धूमयोनिः, अभ्रम्, पयोधरः, अम्भोधरः, व्योमधूमः, घनाघनः, वायुदारुः, नभश्चरः, कन्धरः, कन्धः, नीरदः, गगनध्वजः, वारिसुक्, वार्मुक्, वनसुक्, अब्दः, पर्जन्यः, नभोगजः, मदयित्नुः, कदः, कन्दः, गवेडुः, गदामरः, खतमालः, वातरथः, श्नेतनीलः, नागः, जलकरङ्कः, पेचकः, भेकः, दर्दुरः, अम्बुदः, तोयदः, अम्बुवाबः, पाथोदः, गदाम्बरः, गाडवः, वारिमसिः, अद्रिः, ग्रावा, गोत्रः, बलः, अश्नः, पुरुभोजाः, वलिशानः, अश्मा, पर्वतः, गिरिः, व्रजः, चरुः, वराहः, शम्बरः, रौहिणः, रैवतः, फलिगः, उपरः, उपलः, चमसः, अर्हिः, दृतिः, ओदनः, वृषन्धिः, वृत्रः, असुरः, कोशः
noun
पृथ्वीस्थ-जलम् यद् सूर्यस्य आतपेन बाष्परुपं भूत्वा आकाशे तिष्ठति जलं सिञ्चति च।
"कालिदासेन मेघः दूतः अस्ति इति कल्पना कृता"
Synonyms:
नागः, काद्रवेयः
noun
ते सरीसृपाः ये कद्रोः उत्पन्नाः कश्यपस्य वंशजाः येषां निवासः पाताले अस्ति इति मन्यन्ते।
"नागानाम् अष्टकुलानि सन्ति इति मन्यन्ते।"
Tamil
Tamil
நாக3: : நல்லபாம்பு, யானை, மேகம், எண் ஏழு , கடுமையான மனிதன்.
अमरकोशः
Sanskrit
Word: नागः
Root: नागः
Gender: undefined
Number: undefined
Meaning(s):
carpenter
speaker in the prelude of a drama [sUtradhAra]
Shloka(s):
3|3|4|2 तक्षको नागवर्द्धक्योरर्कः स्फटिकसूर्ययोः॥ (नानार्थवर्गः)
Synonym(s):
3|3|4|2 तक्षकः (तक्षक) (पुं) carpenter, speaker in the prelude of a drama [sUtradhAra]
Related word(s):
जातिः सरीसृपः
शब्दकल्पद्रुमः
Sanskrit
नागः,
पुं,
(नगे भवः नग + अण् यद्बा, दह-त्यस्मात् विषाग्निनेति दह + “दहेर्गो लोपो-दश्च नः ।” उणां ६१ गः अन्तलोपः ।दस्य नः बाहुलकात् नकारस्य ना ।) पन्नगः ।(यथा, विष्णुपुराणे ९६ ।“जगृहुश्च विषं नागाः क्षीरोदाच्च समुत्थितम्
”)हस्ती (यथा, रघुः ८३ ।“भेजे भिन्नकटैर्नागैरन्यानुपरुरोध यैः
”)क्रूरचारी मेघः नागकेशरः पुन्नागः ।नागदन्तकः मुस्तकः देहानिलप्रभेदः ।“उद्गारे नाग इत्युक्तो नीलजीमूतसन्निभः
”इति शारदातिलकटीका
उत्तरपदस्थिते श्रेष्ठः इति मेदिनी गे, १०
(सीसकम् अस्योत्पत्तिर्नामानि गुणाश्च ।यथा, भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ।“दृष्ट्वा भोगिसुतां रम्यां वासुकिस्तु मुमोच यत् ।वीर्य्यं जातस्ततो नागः सर्व्वरोगापहो नृणाम्
”“नागस्तु नागशततुल्यबलं ददातिव्याधिं विनाशयति जीवनमातनोति ।वह्निं प्रदीपयति कामबलं करोतिमृत्युञ्च नाशयति सन्ततसेवितः सः
पाकेन हीनौ किलवङ्गनागौकुष्ठानि गुल्मांश्च तथातिकष्टान् ।कण्डूं प्रमेहानिलसादशोथःभगन्दरादीन् कुरुतः प्रयुक्तौ
”)ताम्बूली देशभेदः इति नानार्थटीकायांभरतः
पर्व्वतविशेषः (यथा, विष्णुपुराणे ।२ २८ ।“शङ्खकूटोऽथ ऋषभो हंषो नागस्तथापरः ।कालाञ्जराद्याश्च तथा उत्तरे केसराचलाः
”)नगे गिरौ चन्दनादितरौ वा भवः गच्छ-तीति अगः अगः नागः इति वा तक्षक-कर्कोटप्रभृतिर्देवयोनिर्मनुष्याकारः फणालाङ्गुल-युक्तः इति भरतः
तत्पर्य्यायः काद्रवेयः ।२ इत्यमरः
नागोत्पत्तिर्यथा, --“सृजता ब्रह्मणा सृष्टिं मरीचिः सूतिकारणम् ।प्रथमं मनसा ध्यातस्तस्य पुत्त्रस्तु कश्यपः
तस्य दाक्षायणी भार्य्या कद्रुर्नाम शुचिस्मिता ।मारीचो जनयामास तस्यां पुत्त्रान्महाबलान्
अनन्तं वासुकिञ्चैव कम्बलञ्च महाबलम् ।कर्कोटकञ्च राजेन्द्र ! पद्मं चान्यं सरीसृपम्
महापद्मं तथा शङ्खं कुलिकञ्चापराजितम् ।एते कश्यपदायादाः प्रधानाः परिकीर्त्तिताः ।एतेषान्तु प्रसूत्या तु इदमापूरितं जगत्
कुटिला हीनकर्म्माणस्तीक्ष्णास्योत्थविषोल्वणाः ।दृष्ट्या संदृश्य मनुजान् भस्म कुर्य्यः क्षणाद्ध्रुवम्
शब्दगामी यथा स्पर्शो मनुष्याणां नराधिप ! ।अहन्यहनि जायेत क्षयः परमदारुणः
आत्मनस्तु क्षयं दृष्ट्वा प्रजाः सर्व्वाः समन्ततः ।जग्मुः शरण्यं शरणं परन्तु परमेश्वरम्
इमं सेवार्थमुद्दिश्य प्रजाः सर्व्वा महीपते ! ।ऊचुः कमलजं देवं पुराणं ब्रह्मसंज्ञितम्
देवा ऊचुः ।देव देवेश लोकानां प्रसूतिः परमेश्वर ।त्राहि नस्तीक्ष्णदंष्ट्रेभ्यो भुजङ्गानौ महात्मनाम्
अहन्यहनि ये देव ! पश्येयुरुरगा दृशा ।मनुष्यं मृगयूथं वा तत् सर्व्वं भस्मसाद्भवेत्
त्वया सृष्टिः कृता देव नीयते सा भुजङ्गमैः ।एतजज्ञात्वा तु दुर्वृत्तं तत् कुरुष्व महामते
ब्रह्मोवाच ।अहं रक्षां विधास्यामि भवतीनां संशयः ।व्रजध्वं स्वानि धिष्ट्यानि प्रजापालाः ससाध्वसाः
एवमुक्ताः प्रजास्तेन ब्रह्मणाव्यक्तमूर्त्तिना ।आगतासु प्रजास्वाद्यस्तानाहूय भुजङ्गमान्
शशाप परमक्रुद्धो वासुकिप्रमुखांस्तथा ।ब्रह्मोवाच ।यतो मत्प्रभवान्नित्यं क्षयं नयत मानुषान्
भवान्तरे तथान्यस्मिन्मातुः शापात् सुदारुणात् ।भवितातिक्षयो घारो नूनं स्वायम्भुवान्तरे
एवमुक्तास्तु वेपन्तो ब्रह्मणा भुजगोत्तमाः ।निपत्य पादयोस्तस्य इदमूचुर्व्वचस्तदा
नागा ऊचुः ।भगवन् ! कुटिला जातिरस्माकं भवता कृता ।विषोल्वणत्वं क्रूरत्वं दृक्शस्त्रत्वञ्च नस्तथा
सम्पादितं त्वया देव इदानीं शमयाच्युत !
ब्रह्मोवाच ।यदि नाम मया सृष्टा भवन्तः कुटिलाशयाः ।ततः किं मनुजान्नित्यं भक्षयध्वं गतव्यथाः
नागा ऊचुः ।मर्य्यादां कुरु देवेश ! स्थानञ्चैव पृथक् पृथक् ।नागानां वचनं श्रुत्वा देवो वचनमब्रवीत्
अहं करोमि वो नागाः समयं मनुजैः सह ।तदेकमनसः सर्व्वे शृणुध्वं मम शासनम्
पातालं वितलञ्चैव सुतलाख्यं तृतीयकम् ।दत्तं वै वस्तुकामानां गृहं तत्र गमिष्यथ
तत्र भोगान् बहुविधान् भुञ्जध्वं मम शासनात् ।तिष्ठध्वं सप्तमं यावद्रात्र्यन्तन्ते पुनः पुनः
ततो वैवस्वतस्यादौ काश्यपेया भविष्यथ ।दायादाः सर्व्वदेवानां सपर्णस्य धीमतः
तदा प्रसूतिर्व्वः सर्व्वा भोक्ष्यते चित्रभानुना ।भवतां नैव दोषोऽयं भविष्मति संशयः
ये वै क्रूरा भोगिनो दुर्विनीता-स्तेषामन्तो भविता नान्यथैतत् ।कालं प्राप्तं भक्षयध्वं दशध्वंतथा परान् चापकृतो मनुष्यान्
मन्त्रौषधैर्गारुडमण्डलैश्चबद्धैर्दृष्टा मानवा ये चरन्ति ।तेषां भीतैर्व्वर्त्तितव्यं नचान्य-च्चिन्त्यं कार्य्यं चान्यथा वो विनाशः
इतीरिते ब्रह्मणा ते भुङ्गजाजग्मुः स्थानं क्ष्मातलाख्यं हि सर्व्वे ।तस्थुर्भोगान् भुञ्जमानाः समग्रान्रसातले लीलया संस्थितास्ते
एवं शापं ते तु लब्ध्वा प्रसादञ्च चतुर्मुखात् ।तस्थुः पातालनिलये मुदितेनान्तरात्मना
एतत् सर्व्वञ्च पञ्चम्यां तेषां जातं महात्मनाम् ।अतस्त्वियं तिथिर्धन्या सर्व्वपापहरा शुभा
एतस्यां संयतो यस्तु अम्लन्तु परिवर्ज्जयेत् ।क्षीरेण स्नापयेन्नागांस्तस्य यास्यन्ति मित्रताम्
”इति वराहपुराणम्
एषां शिवभूषणप्रमाणं यथा, --“वासुक्याद्याश्च ये सर्पा यथास्थानञ्च ते हरम् ।भूषयाञ्चक्रुरुद्गम्य शिरोबाह्वादिषु द्रुतम्
”इति कालिकापुराणे शिवविवाहे १८ अः ।कम्बलाश्वतरनागयोः सरस्वत्या गानवरप्राप्ति-विवरणं यथा, --“एवं स्तुता तदा देवी विष्णोर्जिह्वा सरस्वती ।प्रत्युवाच महात्मानं नागमश्वतरं ततः
सरस्वत्युवाच ।वरन्ते कम्बलभ्रातः ! प्रयच्छाम्युरगाधिप ! ।तदुच्यतां प्रदास्यामि यत्ते मनसि वर्त्तते
अश्वतर उवाच ।सहायं देहि देवि ! त्वं पूर्व्वं कम्बलमेव मे ।समस्तस्वरसम्बद्बमुभयोः संप्रयच्छ
सरस्वत्युवाच ।सप्त स्वरा ग्रामरागाः सप्त पन्नगसत्तम ! ।गीतकानि सप्तैव तावत्यश्चापि मूर्च्छनाः
तानाश्चैकोनपञ्चाशत्तथा ग्रामत्रयञ्च यत् ।एतत् सर्व्वं भवान् गाता कम्बलश्चैव ते सखा
ज्ञास्यते मत्प्रसादेन भुजङ्गेन्द्र परन्तथा ।चतुर्व्विधं पदं तालं त्रिप्रकारं लयत्रयम्
यतित्रयं तथा तोद्यं मया दत्तं चतुर्व्विधम्
एतद्भवान् मत्प्रसादात् पन्नगेन्द्रापरञ्च यत् ।अस्यान्तर्गतमापन्नं स्वरव्यञ्जनयोश्च यत्
तदशेषं मया दत्तं भवतः कम्बलस्य ।यथा नान्यस्य भूर्लोके पाताले वापि पन्नग !
प्रणेतारौ भवन्तौ सर्व्वस्यास्य भविष्यतः ।पाताले देवलोके भूर्लोके चैव पन्नगौ
इत्युक्ता सा तदा देवी सर्व्वजिह्वा सरस्वती ।जगामादर्शनं सद्यो नागस्य कमलेक्षणा
”इति मार्कण्डेयपुराणम्
कालियवंशनागहनने दोषो यथा, --“तद्वंशजातान् सर्पांश्च हन्ति यो मानवाधमः ।ब्रह्महत्यासमं पापं भविता तस्य निश्चितम्
मत्पादपद्मचिह्ने यः करोति दण्डताडनम् ।द्बिगुणं ब्रह्महत्याया भविता तस्य किल्विषम्
लक्ष्मीर्यास्यति तद्गेहात् शापं दत्त्वा सुदारुणम् ।वंशायुर्यशसां हानिर्भविता तस्य निश्चितम्
ध्रवं वर्षशतं कालसूत्रं यास्यति मद्भिया
”इति ब्रह्मवैवर्त्तपुराणे श्रीकृष्णजन्मखण्डे १९ अः
वास्तुनागशुद्धिर्यथा, --“वास्तुप्रमाणेन तु गात्रकेणवामेन शेते खलु नित्यकालम् ।त्रिभिस्तु मासैः परिवृत्य पार्श्वंतं वास्तुनागं प्रवदन्ति सिद्धाः
भाद्रादिके वासवदिक्शिराः स्या-न्मार्गादिकेषु त्रिषु याम्यमूर्द्धा ।प्रत्यक्शिराः स्यात् खलु फाल्गुनादौज्यैष्टादिकौवेरशिराः नागः
मूर्द्ध्निं घाते भवेन्मृत्युः पृष्ठे स्यात् पुत्त्रभार्य्ययोः ।जघनेऽर्थक्षयं विद्यात् सर्व्वसम्पत्तथोदरे
एकं नागोडुसंशुद्धौ द्वे चेद्दक्षिणपश्चिमे ।त्रिशालं पूर्व्वतो हीनं कुर्य्याद्बा सौम्यवर्ज्जितम्
केचिद्दक्षिणभागे तु वदन्त्येकं गृहं बुधाः ।न कोणेषु गृहं कुर्य्यान्नाप्यन्त्ये नापि मध्यतः
कोणे धनहानिः स्यादन्ते रिपुभयं भवेत् ।मध्ये सर्व्वनाशः स्यात्तस्मादेतद्विवर्ज्जयेत्
”इति ज्योतिस्तत्त्वम्