| YouTube Channel

नाकुलः (nAkulaH)

 
Wordnet
Sanskrit
Synonyms:
नाकुलः
noun
नकुलनाम्नः पाण्डवस्य वंशजः।
"अस्मिन् पुस्तके नाकुलस्य अपि कथाः सन्ति।"
Synonyms:
नाकुलः, नाकुली, चविका, सर्पगन्धा, सुगन्धा, रक्तपत्रिका, ईश्वरी, नागगन्धा, अहिभुक्, सरसा, सर्पादंनी, व्यालगन्धा
noun
क्षुपविशेषः।
"नाकुलस्य मूलं शाखा औषधरूपेण उपयुज्येते।"
शब्दकल्पद्रुमः
Sanskrit
नाकुलः,
पुं,
(नकुलस्य गोत्रापत्यम् नकुल +“ऋष्यन्धकवृष्णिकुरुभ्यश्च ।” ११४ ।इत्यण् ।) नकुलपुत्त्रः इति सिद्धान्तकौमुदी
(यथा, महाभारते ४७ ५१ ।“शवराः कुण्डलाश्चैव वत्साश्च सह नाकुलैः ।नकुलः सहदेवश्च वामं पक्षं समाश्रिताः
”तन्त्रविशेषे, क्ली यथा, कूर्म्मपुराणे ।“एवं सम्बोधितो रुद्रो माधवेन मुरारिणा ।चकार मोहशास्त्राणि केशवोऽपि शिवेरितःकापालं नाकुलं वामं भैरवं पूर्व्वपश्चिमम् ।पञ्चरात्रं पाशुपतं तथान्यानि सहस्रशः
”नकुलस्येदम् तस्येदमित्यण् ।) नकुलसम्बन्धिनि, त्रि
(न आकुलः इति विग्रहे अनाकुलश्च
)