नवरात्र (navarAtra)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Spoken Sanskrit
English नवरात्र navarAtra period of 9 days
नवरात्र navarAtra 9 days from the Ist of the light half of month Azvina to the 9th
नवरात्र navarAtra 9 days from the Ist of the light half of month Azvina to the 9th
Wilson
EnglishMonier Williams Cologne
EnglishApte Hindi
Hindiनवरात्रम्
नवन्-रात्रम् -
नौ दिन का समय
नवरात्रम्
नवन्-रात्रम् -
अश्विन मास के प्रथम नौ दिन जो दुर्गा पूजा के दिन माने जाते हैं।
Shabdartha Kaustubha
Kannadaनवरात्र
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಒಂಬತ್ತು ರಾತ್ರಿಗಳು
निष्पत्तिः - > "अच्" (५-४-८७) - सङ्ख्यापूर्वं रात्रं क्लीबम् (लिङ्गा १३१) इति क्लीबत्वम्।
व्युत्पत्तिः - > नवानां रात्रीणां समाहारः
L R Vaidya
EnglishIndian Epigraphical Glossary
Englishशब्दकल्पद्रुमः
Sanskritनवरात्रं, (नवानां रात्रीणां समाहारः ।तत् साधनत्वेनास्त्यस्येति अच् ।) आश्विनशुक्ल-प्रतिपदादिनवमीपर्य्यन्तनवदिनकर्त्तव्यदुर्गाव्रत-विशेषः । तस्यारम्भः । देवीपुराणे डामरतन्त्रेच देवीवचः ।“अमायुक्ता न कर्त्तव्या प्रतिपत् पूजने मम ।मुहूर्त्तमात्रा कर्त्तव्या द्वितीयादिगुणान्विता ॥
”मार्कण्डेयदेवीपुराणयोः ।“पूर्व्वविद्धा तु या शुक्ला भवेत् प्रतिपदाश्विनी ।नवरात्रव्रतं तस्यां न कार्य्यं शुभमिच्छता ॥
”अत्रोपवासादिकमुक्तं हेमाद्रौ भविष्ये ।“एवञ्च विन्ध्यवासिन्यां नवरात्रोपवासतः ।एकभक्तेन नक्तेन तथैवायाचितेन च ॥
पूजनीया जनैर्देवी स्थाने स्थाने पुरे पुरे ।स्नातैः समुदितैर्हृष्टैर्ब्राह्मणैः क्षत्त्रियैर्नृपैः ॥
वैश्यैः शूद्रैर्भक्तियुक्तैर्म्लेच्छैरन्यैश्च मानवैः ॥
”मदनरत्ने देवीपुराणेऽपि ।“कन्यासंस्थे रवौ शक्र ! शुक्लामारभ्य नन्दिकाम् ।अपाशी ह्यथवैकाशी नक्ताशी वाथ वाय्वदः ॥
भूमौ शयीत चामन्त्र्य कुमारीर्भोजयेन्मुदा ।वस्त्रालङ्कारदानैश्च सन्तोष्याः प्रतिवासरम् ॥
बलिञ्च प्रत्यहं दद्यादोदनं मांसमाषवत् ।त्रिकालं पूजयेद्देवीं जपस्तोत्रपरायणः ॥
”स्कान्दे ।“मासि चाश्वयुजे शुक्ले नवरात्रे विशेषतः ।संपूज्य नवदुर्गाञ्च नक्तं कुर्य्यात् समाहितः ॥
नवरात्राभिधं कर्म्म नक्तव्रतमिदं स्मृतम् ।तिथिवृद्ध्वौ तिथिह्रासे नवरात्रमपार्थकम् ॥
अष्टरात्रे न दोषोऽयं नवरात्रतिथिक्षयः ॥
” * ॥
तत्र पूजाविधिः । सा च जयन्तीत्यादिमन्त्रेणनवाक्षरेण वा कार्य्या । यथा । सङ्कल्पं विधायघटं संस्थाप्य तत्र देवीमावाह्य षोडशोपचारैःपूजयित्वा माषभक्तवलिं कुष्माण्डादिबलिं वानिवेदयेत् ॥
* ॥
ततः कुमारीपूजा । यदुक्तंहेमाद्रौ स्कान्दे ।“एकैकां पूजयेत् कन्यामेकवृद्ध्या तथैव च ।द्विगुणं त्रिगुणं वापि प्रत्येकं नवकन्तु वा ॥
”तथा, --“नवभिर्लभते भूमिमैश्वर्य्यं द्विगुणेन तु ।एकवृद्ध्या लभेत् क्षेममेकैकेन श्रियं लभेत् ॥
”अथ कुमारीनिर्णयः ।“एकवर्षा तु या कन्या पूजार्थे तां विवर्ज्जयेत् ।गन्धपुष्पफलादीनां प्रीतिस्तस्या न विद्यते ॥
”तेन द्विवर्षमारभ्य दशवर्षपर्य्यन्तम् । कुमारिका १त्रिमूर्त्तिः २ कल्याणी ३ रोहिणी ४ काली ५चण्डिका ६ शाम्भवी ७ दुर्गा ८ सुभद्रा ९ इतिनवनामभिस्ताः पूजनीयाः । आसामावाहन-मन्त्रः । यथा, --“मन्त्राक्षरमयीं लक्ष्मीं मातॄणां रूपधारिणीम् ।नवदुर्गात्मिकां साक्षात् कन्यामावाहयाम्यहम् ॥
एवमभ्यर्च्चनं कुर्य्यात् कुमारीणां प्रयत्नतः ।कञ्चुकैश्चैव वस्त्रैश्च गन्धपुष्पाक्षतादिभिः ॥
नानाविधैर्भक्ष्यभोज्यैर्भोजयेत् पायसादिभिः ॥
”तासां त्याज्यत्वमाह ।“ग्रन्थिस्फुटितशीर्णाङ्गीं रक्तपूयव्रणाङ्किताम् ।जात्यन्धां केकरां काणीं कुरूपां तनुरोमशाम् ।सन्त्यजेद्रोगिणीं कन्यां दासीगर्भसमुद्भवाम् ॥
”तासां जातिविशेषे फलविशेषो यथा, --“ब्राह्मणीं सर्व्वकार्य्ये च जयार्थे नृपवंशजाम् ।लाभार्थे वैश्यवंशोत्थां सुतार्थे शूद्रवंशजाम् ॥
दारुणे चान्त्यजातानां पूजयेद्विधिना नरः ॥
”अत्र वेदचण्डीपाठ उक्तः । रुद्रयामले ।“एवं चतुर्व्वेदविदो विप्रान् सर्व्वान् प्रसादयेत् ।तेषाञ्च वरणं कार्य्यं वेदपारायणाय वै ॥
”तथा, --“एकोत्तराभिवृद्ध्या तु नवमीं यावदेव हि ।चण्डीपाठं जपेच्चैव जापयेद्वा विधानतः ॥
” * ॥
अत्राश्ववतोऽश्वपूजनमुक्तम् । मदनरत्ने देवी-पुराणे ।“अश्वयुक्शुक्लप्रतिपत्स्वातियोगे शुभे दिने ।पूर्व्वमुच्चैःश्रवा नाम प्रथमं श्रियमाहरत् ॥
तस्मात् साश्वैर्नरैस्तत्र पूज्योऽसौ श्रद्धया सह ।पूजनीयाश्च तुरगा नवमीं यावदेव हि ॥
शान्तिः स्वस्त्ययनं कार्य्यं तथा तेषां दिने दिने ।धान्यं भल्लातकं कुष्ठं वचा सिद्धार्थकास्तथा ॥
पञ्चवर्णेन सूत्रेण ग्रन्थिन्तेषान्तु बन्धयेत् ।वायव्यैर्वारुणैः सौरैः शाक्रैमैन्त्रैः सवैष्णवैः ॥
वैश्वदेवैस्तथाग्नेयैर्होमः कार्य्यो दिने दिने ॥
”तत्र गजपूजापि । कल्पतरौ ।“ज्येष्ठायोगे पुरा तत्र गजाश्चाष्टौ महाबलाः ।पृथिवीमवहन् पूर्व्वं सशैलवनकाननाम् ॥
कुमुदैरावतौ पद्मः पुष्पदन्तोऽथ वामनः ।सुप्रतीकोऽञ्जनो नीलस्तस्मात्तांस्तत्र पूजयेत् ॥
”अथ प्रतिपदादिषु विशेषो दुर्गाभक्तितरङ्गिण्यांभविष्ये ।“केशसंस्कारद्रव्याणि प्रदद्यात् प्रतिपद्दिने ।पक्वतैलं द्वितीयायां केशसंयमहेतवे ॥
दर्पणञ्च तृतीयायां सिन्दूरालक्तकन्तथा ।मधुपर्कं चतुर्थ्यान्तु तिलकं नेत्रमण्डनम् ॥
पञ्चम्यामङ्गरागञ्च शक्त्यालङ्करणानि च ।षष्ठ्यां विल्वतरौ बोधं सायंसन्ध्यासु कारयेत् ॥
सप्तम्यां प्रातरानीय गृहमध्ये प्रवेशयेत् ।उपोषणमथाष्टम्यामात्म्यशक्त्या तु पूजनम् ॥
नवम्यामुग्रचण्डायाः पूजां कुर्य्याद्बलिन्तथा ।संपूज्योपोषणं कुर्य्यात् दशम्यां शावरोत्सवैः ॥
अनेन विधिना यस्तु देवीं प्रीणयते नरः ।स्कन्दवत् पालयेद्देवी तं पुत्त्रधनकीर्त्तिभिः ॥
”आश्विनशुक्लपक्षे मूलनक्षत्रे सरस्वतीस्थापनम् ।यथोक्तं निर्णयामृते देवीपुराणे ।“मूलेषु स्थापनं देव्याः पूर्व्वाषाढासु पूजनम् ।उत्तरासु बलिं दद्यात् श्रवणेन विसर्ज्जयेत् ॥
”रुद्रयामलेऽपि ।“मूलऋक्षे सुराधीश पूजनीयां सरस्वतीम् ।पूजयेत् प्रत्यहं देव यावद्वैष्णवमृक्षकम् ॥
नाध्यापयेन्न च लिखेन्नाधीयीत कदाचन ।पुस्तके स्थापिते देवि ! विद्याकामो द्बिजोत्तमः ॥
”स्त्रीणाञ्च नवरात्रे ताम्बूलचर्व्वणादिकं ननिषिद्धम् । तदुक्तं व्रतहेमाद्रौ गारुडे ।“गन्धालङ्कारताम्बूलपुष्पमालानुलेपनम् ।उपवासे न दुष्यन्ति दन्तधावनमञ्जनम् ॥
”एतत् सभर्तृकोपवासविषयम् ॥
* ॥
हेमाद्रौ ।आश्विनमाघचैत्रश्रावणमासचतुष्टये कृष्णा-ष्टम्यादिपञ्चदशरात्रव्रतमभिधाय । अथवा नव-रात्रञ्च सप्तपञ्चत्रिकं दिवा । इत्यक्तम् । देवी-पुराणे ।“नवरात्रव्रतेऽशक्तस्त्रिरात्रञ्चैकरात्रकम् ।व्रतञ्चरति यो भक्तस्तस्मै दास्यामि वाञ्छितम् ॥
” *(यथाच देवीभागवते । ३ । २६ -- २७ ।“शृणु राजन् ! प्रवक्ष्यामि नवरात्रव्रतं शुभम् ।शरत्काले विशेषेण कर्त्तव्यं विधिपूर्व्वकम् ॥
वसन्ते च प्रकर्त्तव्यं तथैव प्रेमपूर्व्वकम् ।द्बावृतू यमदंष्ट्राख्यौ नूनं सर्व्वजनेषु वै ॥
शरद्वसन्तनामानौ दुर्गमौ प्राणिनामिह ।तस्माद्यत्नादिदं कार्य्यं सर्व्वत्र शुभमिच्छता ॥
द्वावेव सुमहाघोरावृतू रोगकरौ नृणाम् ।वसन्तशरदावेव जननाशकरावुभौ ॥
तस्मात्तत्र प्रकर्त्तव्यं चण्डिकापूजनं बुधैः ।चैत्राश्विने शुभे मासे भक्तिपूर्व्वं नराधिप ! ॥
अमावस्याञ्च सम्प्राप्य सम्भारं कल्पयेच्छुभम् ।हविष्यञ्चाशनं कार्य्यमेकभुक्तन्तु तद्दिने ॥
मण्डपस्तु प्रकर्त्तव्यः समे देशे शुभे स्थले ।हस्तषोडशमानेन स्तम्भध्वजसमन्वितः ॥
गौरमृद्गोमयाभ्याञ्च लेपनं कारयेत्ततः ।तन्मध्ये वेदिका शुभ्रा कर्त्तव्या च समा स्थिरा ॥
चतुर्हस्ता च हस्तोच्छ्रा पीठार्थं स्थानमुत्तमम् ।तोरणानि विचित्राणि वितानञ्च प्रकल्पयेत् ॥
रात्रौ द्बिजानथामन्त्र्य देवीतत्त्वविशारदान् ।आचारनिरतान् दान्तान् वेदवेदाङ्गपारगान् ॥
प्रतिपद्दिवसे कार्य्यं प्रातःस्नानं विधानतः ।नद्यां नदे तडागे वा वाप्यां कूपे गृहेऽथ वा ॥
प्रातर्न्नित्यं पुरः कृत्वा द्विजानां वरणं ततः ।अर्ध्यपाद्यादिकं सर्व्वं कर्त्तव्यं मधुपूर्व्वकम् ॥
वस्त्रालङ्करणादीनि देयानि च स्वशक्तितः ।वित्तशाठ्यं न कर्त्तव्यं विभवे सति कर्हिचित् ॥
विप्रैः सन्तोषितैः कार्य्यं सम्पूर्णं सर्व्वथा भवेत् ।नव पञ्च त्रयश्चैको देव्याः पाठे द्विजाः स्मृताः ॥
वरयेद्ब्राह्मणं शान्तं पारायणकृते तदा ।स्वस्तिवाचनकं कार्य्यं वेदमन्त्रविधानतः ॥
वेद्यां सिंहासनं स्थाप्य क्षौमवस्त्रसमन्वितम् ।तत्र स्थाप्याम्बिका देवी चतुर्हस्तायुधान्विता ॥
रत्नभूषणसंयुक्ता मुक्ताहारविराजिता ।दिव्याम्बरधरा सौम्या सर्व्वलक्षणसंयुता ॥
शङ्खचक्रगदापद्मधरा सिंहे स्थिता शिवा ।अष्टादशभुजा वापि प्रतिष्ठाप्या सनातनी ॥
अर्च्चाभावे तथा यन्त्रं नवार्णमन्त्रसंयुतम् ।स्थापयेत् पीठपूजार्थं कलसं तत्र पार्श्वतः ॥
पञ्चपल्लवसंयुक्तं वेदमन्त्रैः सुसंस्कृतम् ।सुतीर्थजलसम्पूर्णं हेमरत्नैः समन्वितम् ॥
पार्श्वे पूजार्थसम्भारान् परिकल्प्य समन्ततः ।गीतवादित्रनिर्घोषान् कारयेन्मङ्गलाय वै ॥
तिथौ हस्तान्वितायाञ्च नन्दायां पूजनं वरम् ।प्रथमे दिवसे राजन् ! विधिवत् कामदं नृणाम् ॥
नियमं प्रथमं कृत्वा पश्चात् पूजां समाचरेत् ।उपवासेन नक्तेन चैकभक्तेन वा पुनः ॥
करिष्यामि व्रतं मातर्नवरात्रमनुत्तमम् ।साहाय्यं कुरु मे देवि ! जगदम्ब ! ममाखिलम् ॥
यथाशक्ति प्रकर्त्तव्यो नियमो व्रतहेतवे ।पश्चात् पूजा प्रकर्त्तव्या विधिवन्मन्त्रपूर्व्वकम् ॥
चन्दनागुरुकर्पूरैः कुसुमैश्च सुगन्धिभिः ।मन्दारकरजाशोकचम्पकैः करवीरकैः ॥
मालतीब्रह्मकापुष्पैस्तथाबिल्वदलैः शुभैः ।पूजयेज्जगतां धात्रीं धूपैर्दीपैर्व्विधानतः ॥
फलैर्नानाविधैरर्घ्यं प्रदातव्यञ्च तत्र वै ।नारिकेलैर्मातुलिङ्गैर्दाडिमीकदलीफलैः ॥
नारङ्गैः पनसैश्चैव तथा पूर्णफलैः शुभैः ।अन्नदानं प्रकर्त्तव्यं भक्तिपूर्व्वं नराधिप ! ॥
नैवेद्यानि विचित्राणि सर्व्वान्नसंयुतानि च ।ओदनं पायसञ्चैव पूपांश्च वटकांस्तथा ॥
मांसाशनं ये कुर्व्वन्ति तैः कार्य्यं पशुहिंसनम् ।महिषाजवराहाणां बलिदानं विशिष्यते ॥
देव्यग्रे निहता यान्ति पशवः स्वर्गमव्ययम् ।न हिंसा पशुजा तत्र निघ्नतां तत्कृतेऽनघ ! ॥
अहिंसा याज्ञिकी प्रोक्ता सर्व्वशास्त्रविनिर्णये ।देवतार्थे विसृष्टानां पशूनां स्वर्गतिर्ध्रुवा ॥
होमार्थञ्चैव कर्त्तव्यं कुण्डञ्चैव त्रिकोणकम् ।स्थण्डिलं वा प्रकर्त्तव्यं त्रिकोणं मानतः शुभम् ॥
त्रिकालं पूजनं नित्यं नानाद्रव्यैर्म्मनोहरैः ।गीतवादित्रनृत्यैश्च कर्त्तव्यश्च महोत्सवः ॥
नित्यं भूमौ च शयनं कुमारीणाञ्च पूजनम् ।वस्त्रालङ्करणैर्द्दिव्यैर्भोजनैश्च सुधामयैः ॥
एकैकां पूजयेन्नित्यमेकवृद्ध्या तथा पुनः ।द्बिगुणं त्रिगुणं वापि प्रत्येकं नवकञ्च वा ॥
विभवस्यानुसारेण कर्त्तव्यं पूजनं किल ।वित्तशाव्यं न कर्त्तव्यं राजञ्छक्तिमखे सदा ॥
एकवर्षा न कर्त्तव्या कन्या पूजाविधौ नृप ! ।परमज्ञा तु भोगानां गन्धादीनाञ्च बालिका ॥
कुमारिका तु सा प्रोक्ता द्बिवर्षा या भवेदिह ।त्रिमूर्त्तिश्च त्रिवर्षा च कल्याणी चतुरब्दिका ॥
रोहिणी पञ्चवर्षा च षड्वर्षा कालिका स्मृता ।चण्डिका सप्तवर्षा स्यादष्ठवर्षा च शाम्भवी ॥
नववर्षा भवेद्दुर्गा सुभद्रा दशवार्षिकी ।अत ऊर्द्ध्वं न कर्त्तव्या सर्व्वकार्य्यविगर्हिता ॥
एभिश्च नामभिः पूजा कर्त्तव्या विधिसंयुता ।तासां फलानि वक्ष्यामि नवानां पूजने सदा ॥
कुमारी पूजिता कुर्य्याद्दुःखदारिद्र्यनाशनम् ।शत्रुक्षयं धनायुष्यबलवृद्धिं करोति वै ।त्रिमूर्त्तिपूजनादायुस्त्रिवर्गस्य फलं भवेत् ।धनधान्यागमश्चैव पुत्त्रपौत्त्रादिवृद्धयः ॥
विद्यार्थी विजयार्थी च राज्यार्थी यश्च पार्थिवः ।सुखार्थी पूजयेन्नूनं कल्याणीं सर्व्वकामदाम् ॥
रोहिणीं रोगनाशाय पूजयेद्बिधिवन्नरः ।कालिकां शत्रुनाशार्थं पूजयेद्भक्तिपूर्व्वकम् ॥
ऐश्वर्य्यधनकामश्च चण्डिकां परिपूजयेत् ।पूजयेच्छाम्भवीं नित्यं नृप ! संमोहनाय च ॥
दुःखदारिद्र्यनाशाय संग्रामे विजयाय च ।क्रूरशत्रुविनाशार्थं तथोग्रकर्म्मसाधने ॥
दुर्गाञ्च पूजयेद्भक्त्या परलोकसुखाय च ।वाञ्छितार्थस्य सिद्ध्यर्थं सुभद्रां पूजयेत् सदा ॥
श्रीरस्त्विति च मन्त्रेण पूजयेद्भक्तितत्परः ।श्रीयुक्तमन्त्रैरथवा बीजमन्त्रैरथापि वा ॥
कुमारस्य च तत्त्वानि या सृजत्यपि लीलया ।कादीनपि च देवांस्तां कुमार्रां पूजयाम्यहम् ॥
सत्त्वादिभिस्त्रिमूर्त्तिर्या तैर्हि नानास्वरूपिणी ।त्रिकालव्यापिनी शक्तिस्त्रिमूर्त्तिं पूजयाम्यहम् ॥
कल्याणकारिणी नित्यं भक्तानां पूजितानिशम् ।पूजयामि च तां भक्त्या कल्याणीं सर्व्वकामदाम् ॥
रोहयन्ती च बीजानि प्राग्जन्मसञ्चितानि वै ।या देवी सर्व्वभूतानां रोहिणीं पूजयाम्यहम् ॥
काली कालयते सर्व्वं ब्रह्माण्डं सचराचरम् ।कल्पान्तसमये या तां कालिकां पूजयाम्यहम् ॥
चण्डिकां चण्डरूपाञ्च चण्डमुण्डविनाशिनीम् ।तां चण्डपापहरिणीं चण्डिकां पूजयाम्यहम् ॥
अकारणात् समुत्पत्तिर्यन्मयैः परिकीर्त्तिता ।यस्यास्तां सुखदां देवीं शाम्भवीं पूजयाम्यहम् ॥
दुर्गा त्रायति भक्तं या सदा दुर्गार्त्तिनाशिनी ।दुर्ज्ञेया सर्व्वदेवानां तां दुर्गां पूजयाम्यहम् ॥
सुभद्राणि च भक्तानां कुरुते पूजिता सदा ।अभद्रनाशिनीं देवीं सुभद्रां पूजयाम्यहम् ॥
एभिर्म्मन्त्रैः पूजनीयाः कन्यकाः सर्व्वदा बुधैः ।वस्त्रालङ्करणैर्माल्यैर्गन्धैरुच्चावचैरपि ॥
”“हीनाङ्गीं वर्ज्जयेत् कन्यां कुष्ठयुक्तां व्रणाङ्किताम् ।गन्धस्फुरितहीनाङ्गीं विलासकुलसम्भवाम् ॥
जात्यन्धां केकरां काणीं कुरूपां बहुरोमशाम् ।सन्त्यजेद्रोगिणीं कन्यां रक्तपुष्पादिनाङ्किताम् ॥
दासीगर्भसमुद्भूतां गोलकां कन्यकोद्भवाम् ।वर्ज्जनीयाः सदा चैताः सर्व्वपूजादिकर्म्मसु ॥
अरोगिणीं सुरूपाङ्गीं सुन्दरीं व्रणवर्ज्जिताम् ।एकवंशसमुद्भूतां कन्यां सम्यक् प्रपूजयेत् ॥
ब्राह्मणी सर्व्वकार्य्येषु जयार्थे नृपवंशजा ।लाभार्भे वैश्यवंशोत्था क्षेमे च शूद्रवंशजा ॥
ब्राह्मणैर्ब्रह्मजाः पूज्याः राजन्यैर्ब्रह्मक्षत्त्रजाः ।वैश्यैस्त्रिवर्गजाः पूज्याश्चतस्रः पादसम्भवैः ॥
कांरुभिश्चैव वंशोत्था यथायोग्यं प्रपूजयेत् ।नवरात्रविधानेन भक्तिपूर्व्वं सदैव हि ॥
अशक्तो नियतं पूजां कर्त्तुं चेन्नवरात्रके ।अष्टम्याञ्च विशेषेण कर्त्तव्यं पूजनं सदा ॥
पुराष्टम्यां भद्रकाली दक्षयज्ञविनाशिनी ।प्रादुर्भूता महाघोरा योगिनीकोटिभिः सह ॥
अतोऽष्टम्यां विशेषेण कर्त्तव्यं पूजनं सदा ।नानाविधोपहारैश्च गन्धमाल्यानुलेपनैः ॥
पायसैरामिषैर्होमैर्ब्राह्मणानाञ्च भोजनैः ।फलपुष्पोपहारैश्च तोषयेज्जगदम्बिकाम् ॥
उपवासे ह्यशक्तानां नवरात्रव्रते पुनः ।उपोषणत्रयं प्रोक्तं यथोक्तं फलदं नृप ! ॥
सप्तम्याञ्च तथाष्टम्यां नवम्यां भक्तिभावतः ।त्रिरात्रकरणात् सर्व्वं फलं भवति पूजनात् ॥
सम्पूर्णं तद्व्रतं प्रोक्तं विप्राणाञ्चैव भोजनैः ।व्रतानि यानि चान्यानि दानानि विविधानि च ॥
नवरात्रव्रतस्यास्य नैव तुल्यानि भूतले ।धनधान्यप्रदं नित्यं सुखसन्तानवृद्धिदम् ॥
आयुरारोग्यदञ्चैव स्वर्गदं मोक्षदं तथा ।विद्यार्थी वा धनार्थी वा पुत्त्रार्थी वा भवेन्नरः ।तेनेदं विधिवत् कार्य्यं व्रतं सौभाग्यदं शिवम् ॥
विद्यार्थी सर्व्वविद्यां वै प्राप्नोति व्रतसाधनात् ।राज्यभ्रष्टो नृपो राज्यं समवाप्नोति सर्व्वथा ॥
पूर्व्वजन्मनि यैर्नूनं न कृतं व्रतमुत्तमम् ।ते व्याधिनो दरिद्राश्च भवन्ति पुत्त्रवर्ज्जिताः ॥
बन्ध्या च या भवेन्नारी विधवा धनवर्ज्जिता ।अनुमा तत्र कर्त्तव्या नेयं कृतवती व्रतम् ॥
नवरात्रव्रतं प्रोक्तं न कृतं येन भूतले ।स कथं विभवं प्राप्य मोदतेऽत्र तथा दिवि ॥
रक्तचन्दनसंमिश्रैः कोमलैर्विल्वपत्रकैः ।भवानी पूजिता येन स भवेन्नृपतिः क्षितौ ॥
” * ॥
)अथ नवरात्रपारणानिर्णयः । सा च दशम्यांकार्य्या ॥
* ॥
दशम्यां विशेषस्तु भार्गवार्च्चन-दीपिकायां भविष्ये ।“शमीयुक्तं जगन्नाथं भक्तानामभयङ्करम् ।अर्च्चयित्वा शमीवृक्षमर्च्चयेच्च ततः पुनः ॥
”शमीमन्त्रः । स्कान्दे हेमाद्रौ गोपथब्राह्मणे ।“अमङ्गलानां शमनीं शमनीं दुष्कृतस्य च ।दुःस्वप्ननाशिनीं धन्यां प्रपद्येऽहं शमीं शुभाम् ॥
”तथा भविष्ये ।“शमी शमयते पापं शमी शत्रुविनाशिनी ।अर्ज्जुनस्य धनुर्द्धारी रामस्य प्रियवादिनी ॥
करिप्यमाणा या यात्रा यथाकालं सुखं मया ।तत्र निर्व्विव्नकत्रीं त्वं भव श्रीरामपूजिते ॥
”अथ बलनीराजनम् । कल्परत्ने । तत्र मन्त्रः ।“चतुरङ्गं बलं मह्यं निरनिष्टं व्रजत्विह ।सर्व्वत्र विजयो मेऽस्तु त्वत्प्रसादात् सुरेश्वरि ! ॥
”गौडनिबन्धे ज्योतिषे ।“कृत्वा नीराजनं राजा बलवृद्ध्यै यथाक्रमम् ।शोभनं खञ्जनं पश्येत् जलगोष्ठस्य सन्निधौ ॥
”इति निर्णयसिन्धुः ॥
वाचस्पत्यम्
Sanskritनवरात्र नवभिः रात्रिभिर्निर्वृत्तं तद्धितार्थे द्विगुः“द्विगोर्लुगनपत्ये” तद्धितस्य ठको लुक् अच्समा० । नवमीरात्रिभिस्तदुपलक्षितैर्दिनैर्वा निर्वृत्ते यागादौ “नवरात्रा-श्चत्वारः” कात्या० श्रौ० ४ । ३ । १४ “नवरात्रे त्रिक्कुत्काः”कात्या० श्रौ० ३५ । १३ । नवरात्रसाध्ये २ व्रतभेदे तद्वि-धानकालनिर्णयादि नि० सि० उक्त यथा“अथाश्विनशुक्लप्रतिपदि नवरात्रारम्भः । तन्निर्णयःभार्गवार्चनदीपिकायां देवीपुराणे सुमेधा उवाच“शृणु राजन्! प्रवक्ष्यामि चण्डिकापूजनक्रमम् ।आश्विनस्य सिते पक्षे प्रतिपत्सुशुभे दिने” इत्युपक्रम्यो-क्तम् । “शुद्धे तिथौ प्रकर्त्तव्यं प्रतिपच्चोर्ध्वगामिनी ।आद्यास्तु नाडिकास्त्यक्त्वा षोडश द्वादशापि वा । अप-राह्णे च कर्त्तव्यं शुद्धसन्ततिकाङ्क्षिभिः” । इदं चाप-राह्णयोगिन्याः प्राशख्यं द्वितीयदिने प्रतिपदोऽभावेज्ञेयम् । तथा च तत्रैव देवीपुराणे डामरतन्त्रे च देवीवचः “अमायुक्ता न कर्त्तव्या प्रतिपत् पूजने मम ।मुहूर्तमात्रा कर्तव्या द्वितीयादिगुणान्विता । आद्याःषोडश नाङीस्तु लब्ध्वा यः कुरुते नरः । कलश-स्थापने तत्र ह्यरिष्टं जायते ध्रुवम्” । मार्कण्डेयदेवीपुराणयोः “पूर्वविद्धा तु या शुक्ला भवेत् प्रतिपदा-श्विनी । नवरात्रव्रतं तस्यां न कार्यं शुभमिच्छता ।देशभङ्गो भवेत्तत्र दुर्भिक्षं चोपजायते । नन्दायां दर्श-युक्तायां यत्र स्यान्मम पूजनमिति” । स्कान्देऽपि “प्रति-पद्याश्विमे मासि सा शुद्धा शुभदा भवेत् । भाद्रपञ्च-दशीकृष्णा तया युक्ता न शस्यते । विरुद्धफलदा सा हिपुत्रदारभयावहेति” । तथा “वर्जनीया प्रयत्नेन अमा-युक्ता तु पार्थिव! । द्वितीयादिगुणैर्युक्ता प्रतिपत् सर्व-कामदा” । तथा देवीपुराणे “यो मां पूजयते नित्यंद्वितीयादिगुणान्विताम् । प्रतिपच्छारदीं ज्ञात्वा सोऽश्नुतेसुखमव्ययम् । क्रियते चेदमायुक्ता प्रतिपत् स्थापनेमम । तस्य शापायुतं दत्त्वा भस्मशेषं करोम्यहम् ।अग्रहात् कुरुते यस्तु कलशख्यापनं मम । तस्य सम्प-द्विनाशः स्याज्ज्येष्ठः पुत्रो विनश्यति । अमायुक्ता नकर्त्तव्या प्रतिपच्चण्डिकार्चने । धनार्थिभिर्विशेषेण वंश-हानिश्च जायते । न दर्शवलया युक्ता प्रतिपच्चण्डि-र्चने । उदये द्विमुहूर्त्तापि ग्राह्या सोदयगामिनी” इतिदेवीपुराणे “या चाश्वयुजि मासे स्यात् प्रपितद्भद्रयान्विता ।शुद्धा ममार्चनं तस्यां शतयज्ञफलप्रदम्” । रुद्रयामले“अमायुक्ता सदा चैव प्रतिपन्निन्दिता मता । तत्र चेत्स्थापयेत्कुम्भं दुर्भिक्षं जायते ध्रुवम् । प्रतिपत् स-द्वितीया तु कुम्मारोपणकर्मणि” इति । यद्यपि रुद्र-यामलं डामरं च निर्मूलं तथाप्यविरोधात् प्रचाराच्चतद्वचनानि लिख्यन्ते । तिथितत्त्वे देवीपुराणेऽपि “प्रात-रावाहवेद्देवीं प्रातरेव प्रवेशयेत् । प्रातःप्रातश्च संपूज्यप्रातरेब विसर्जयेत्” । तत्रैव “शरत्काले महापूजाक्रियते या च वार्षिकी । सा कार्य्योदयनामिन्यां न तत्रतिथियुग्मता” । तथा “कुहूकाष्ठोपसंयुक्तां वर्जयेत् प्रति-पत्तिथिम् । राज्यनाशाय सा प्रोक्ता निन्दिता चाश्व-पूजन” इति । एषु वचनेषु कलशस्थापनग्रहणात् तदेवप्रथमदिने निषिद्धं न तूपवासादि तस्य “प्रतिपदाप्य-भावास्येति युग्मवाक्यात् । “शुक्ला स्यात् प्रतिपत्तिथिःप्रथमतः” इति दीपिकोक्तेः “शुक्लपक्षे दर्शविद्धेति”माधवोक्तेश्च पूर्वदिने प्राप्तस्य बाधे मानाभावादिति केचित् ।वस्तुतस्तु पूर्वोक्तवाक्येषु चण्डिकार्चनपूजाग्रहणादुप-वासादेश्चाङ्गत्वात् प्रधानदेवीपूजादावपि परेति युक्तम् ।कलशस्थापनग्रहणं तूपलक्षणम् । अतएव देवलः “व्रतो-पवासनियमे घटिकैकापि या भवेत् । सा तिथिस्तद्दिनेपूज्या विपरीता तु पैतृक” इति । अत्र घटिका मुहूर्त्तइति गौडाः । यदा तु पूर्वदिभे सम्भूर्णा शुद्धा च भूत्वापरदिने वर्द्धते तदा सम्पूर्णत्वादमायोगाभावाच्च पूर्वैवयानि च द्वितीयायोगनिषेधकानि वचनानि केचित्पठन्ति तान्यपि शुद्धाधिकनिषेधपराणि परदिने प्रति-पदोऽत्यन्तासत्त्वे तु दर्शयुतापि पूर्बैव ग्राह्या तदाहलल्लः “तिथिः शरीरं तिथिरेव कारणं तिथिः प्रमाणंतिथिरेव साधनमिति” यानि त्वमायुक्ता प्रकर्त्तव्येत्या-दीनि नृसिंहप्रसादे वचनानि तानि समूलत्वे सत्ये-तद्विषयाणि । अत्रेदं तत्त्वम् । पूर्वोक्तवाक्यानां सर्वेषांहेमाद्र्याद्यलिखितत्वेन निर्मूलत्वात्तैश्चान्यनिर्णयस्यानुक्तेःसामान्यनिर्णयात् पूर्ववत्प्राप्तावपि गौडनिबन्धेषु विशे-षेण निर्णयादौदयिकी ग्राह्या तत्रापि घटिकैकेत्यस्यद्विमुहूर्त्तस्तुतित्वोक्तेर्द्विमुहूर्त्ता ग्राह्या “उदिते दैवतंभाना” वित्यत्र “द्विमुहूर्त्ता त्रिरह्नश्चेति” औदयिक्या द्विमु-हूर्त्तत्वनियमात् तेन उदये द्विमुहूर्त्तापीत्याद्यनुसारोऽपि“मुहूर्त्तमात्रा कर्त्तव्येति” द्विमुहूर्त्तस्तुतिः । अन्यथाद्विमुहूर्त्तविधिवैयर्थ्यात् । केचित्तु मुहूर्त्तमात्रेतिवचनात्ततो न्यूनत्वे परा नेत्याहुः गौडा अप्येवम् ।अत्र देवीपूजैव प्रधानम् उपबासादि त्वङ्गम् “अष्टम्यांच नवम्यां च जगन्मातरमम्यिकाम् । पूजयित्वाश्विनेमासि विशोको जायते नरः” इति हेमाद्रौ भविष्येतस्या एव फलसम्बन्धात् “नवमीतिथिपर्य्यन्तं वृद्ध्यापूजाजपादिकमिति” तत्रैव देवीपुराणात् । “शरत्कालेमहापूजा क्रियते या च वार्षिकी” इति मार्कण्डेयपुरा-णाञ्च पूर्ववचनादष्टमीपूजैव प्रधानमन्यत् सर्वमङ्गमितिगौडाः। एकाहपक्षोऽपि कालिकापुराणे “यस्त्वेकस्या-मथाष्टम्यां नवम्यामथ साधकः । पूजयेद्वरदां देवीं महा-विभवविस्तरैः" इति । तत्त्वं तु राजसूवेऽन्ययागैः सभ-प्रधानायाः सहिताया अप्येवेष्टेरेतयान्नाद्यकामं याज-येदित्येकत्वान्मध्ये विधानाच्च यथा फलार्थोबर्हिः प्रयोग-स्तथा नवरात्रमध्यस्याया अष्टम्या नवम्या वा फलार्थःपृथक्प्रयोगः । रूपनारायणधृतदेवीपुराणे “महानवम्यांपूजेयं सर्वकामप्रदायिका । सर्वेषु सर्ववर्णेषु तवभक्त्या प्रकीर्त्तिता । कृत्वाप्नोति यशो राज्य पुत्रायुर्द्धनसम्पदः” सा च काम्या नित्या च “एवमन्यैरपि तथादेब्धाः कार्यं पपूजनम् । विभूतिमतुलां लब्धुं चतुर्वर्ग-प्रदायकम्” इति “यो मोहादय वाऽऽलस्याद्देवीं दुर्गांमहीत्सवैः । न पूजयति दम्भाद्वा द्वेमाद्वाप्यत्र भैरव! । क्रुद्धाभगवती तस्य काभानिष्टान्निहन्ति वै” इति कालिका-पुराणेऽकरणे निन्दाश्रुतेः “वर्षे वर्षे विधातव्यं स्यापनञ्चविसर्जनम्” इति तिथितत्त्वे देवीपुराणाच्च । अत्रोपवा-सादिकमुक्तं हेमाद्रौ मविष्ये “एवं च विन्ध्यवासिन्यानवरात्रोपवामतः । एकभक्तेन नक्तेन तथैवायाचितेन च । पूजनीया जनैर्देवी स्थाने स्थाने पुरे पुरे ।गृहे गृहे शक्तिपरैर्ग्रामेग्रामे नवे नवे । स्नातैः प्रमुदितै-र्हृष्टैर्ब्राह्मणैःक्षत्रियैर्नृपैः । वैश्यैः शूद्रैर्भक्तियुक्तैर्म्ले-च्छैरन्यैश्च मानवैः” इति यत्तु रूपनारायणीये भविष्ये“एवं नानाम्लेच्छगणैः पूज्यते सर्वदस्युभिरिति” तत्तामस-पूजापरम् । “विना मन्त्रैस्तामसी स्यात् किरातानान्तु स-म्मतेति” तत्रैवोक्तेः । मदनरत्ने देवीपुराणेऽपि “कन्या-संस्थे रवौ शक्र! शुक्लामारभ्य नन्दिकाम् । अयाची द्व्यथवैकाशी नक्ताशी वाथ वायुभुक् । भूमौ शयीत चामन्त्र्यकुमारी र्भोजयेन्मुदा । वस्त्रालङ्कारदानैश्च सन्तोष्याःप्रतिवासरम् । यलिञ्च प्रत्यहं दद्यादोदनं मांसमाषवत् ।त्रिकालं पूजयेद्देवीं जपस्तोत्रपरायणः” इति नन्दिकाप्रतिपत्तिथिरिति मैथिलाः । षष्ठीति गौडाः । तच्च पूजनंरात्रौ कार्य्यम् “आश्विने मासि मेघान्ते महिषासुरम-र्दिनीम् । निशासु पूजयेद्भक्त्या सोपवासादिकः क्रमात्”इति देवीपुराणात् संग्रहेऽपि “आश्विने मासि मेषान्तेप्रतिपद्या तिथिर्भवेत् । तस्यां नक्तं प्रकुर्वीत रात्री देवींच पूजयेत् । रात्रिरूपा यतो देवी दिवारूपो महेश्वरः ।रात्रिव्रतमिदं देवि! सर्वपापप्रणाशनम् । सर्वकामप्रदंनॄणां सर्वशत्रुनिवर्हणम् । रात्रिव्रतमिदं तस्य रात्रौकर्त्तव्यतेष्यते । नक्तव्रतमिदं यस्मादन्यथा नरके गतिः”इत्यादिवचनाच्च रात्रिव्रतत्वमेवाभिप्रेत्य माधवेनोक्तम् तस्यनक्तव्रतत्वादिति । न तु रात्रिभोजनात् । “ननु मासि चा-श्वयुजे शुक्ले नवरात्रे विशेषवत् । संपूज्य नवदुर्गाञ्च नक्तंकुर्य्यात् समाहितः । नवरात्राभिधं कर्म नक्तव्रतमिदंस्मृतम्” । आरम्भे नवरात्रस्येत्यादि स्कान्दात् माधवो-क्तेश्च नक्तमेव प्रधानमिति चेत् नवरात्रोपवासत इत्या-देरनुपपत्तेः तेन पाक्षिकनक्तानुवादोऽयं नित्यानित्य-संयोगविरोधात् नह्यग्निहोत्रे दध्नं पक्षे प्राप्तस्य दध्ना-जुहोतीत्यस्येन्द्रियकामहोमेऽनुवादो घटते नित्यवदनु-वादायोगादित्युक्तं वार्त्तिके, तथात्राऽपि । तेनात्रतद्वदेव गुणात् फलमिति ज्ञेयम् । ननु रात्रेः कर्म-कालत्वे तद्व्यापिनी पूर्वैव प्रतिपत् प्राप्नुयात् मैवम्न्यायतः प्राप्तावपि पूर्वोक्तवचनैर्वाधात् यथा पूर्वेद्युःकमेकालव्यापिनीमपि त्यक्त्वा स्वल्पापि परैव रामनव-मीति प्रागुक्तम् यथा वा निशीथे सतीमपि पूर्वांजन्माष्टमीं त्यक्त्वा रोहिणीयुक्ता परैवेति माधवेनोक्तम्तथात्रापि । वस्तुतस्तु रात्रेः कर्मकालत्ववचसांहेमाद्र्याद्यलिखनात् समूलत्वं विमृश्यमेव त्रिकालंपूजयेदित्यादिपूर्वविरोधाच्च । माधवोक्तिस्तु पाक्षिकन-क्तानुवाद इत्युक्तम् । तस्मात् सर्वपक्षेषु परैव प्रतिपदितिसिद्धम् । अत्र केचिन्नवरात्रशब्दो नवाहोरात्रपरः“वृद्धौ समाप्तिरष्टम्याम्” ह्रासेन प्रतिपन्निशि । प्रारम्भोनवचण्ड्यास्तु नवरात्रमतोऽर्थवत्” इति देवीपुराणादि-त्याहुः । तन्न ह्रासवृद्ध्योर्न्यूनाधिकत्वापत्तेः अत्रमूलाभावाच्च तेन तिथिवाच्येवायं तदुक्तम् “तिथिवृद्धौतिथिह्रासे नवरात्रमपार्थकम् । अष्टरात्रे न दोषोऽयंनवरात्रं तिथिक्षये” इति । स च नवरात्रशब्दः क्वचिल्ल-क्षणया कर्मवाची यथा । प्रारम्भो नवरात्रस्येत्यत्रेति दिक्”
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
