नवमी (navamI)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Spoken Sanskrit
English नवमी navamI ninth
नवमी navamI 9th day of a lunar half-month
Apte Hindi
Hindiनवमी
- -
चान्द्रमास के पक्ष का नवाँ दिन
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Shabdartha Kaustubha
Kannadaनवमी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಒಂಬತ್ತನೆಯ
निष्पत्तिः - > "डट्" (५-२-४८) - डटो मडागमः (५-२-४९) - "ङीप्" (४-१-१५)
व्युत्पत्तिः - > नवानां पूरणः
L R Vaidya
EnglishWordnet
Sanskrit नवमी
चान्द्रमासस्य कस्यापि पक्षस्य नवतमा तिथिः।
"अद्य कृष्णपक्षस्य नवमी अस्ति।"
Sanskrit Tibetan
Tibetandgu po
१) नवम २) नवमी ३) शूर्पक
शब्दकल्पद्रुमः
Sanskritनवमी, (नवम + टित्त्वात् ङीप् ।) तिथि-विशेषः । सा चन्द्रस्य नवमकलाक्रियारूपा ।शुक्लपक्षे ९ कृष्णपक्षे २४ पञ्जिकाकारसङ्केतेनएतदङ्कबोधिता ॥
अथ नवमीव्यवस्था । “साचाष्टमीयुता ग्राह्या युग्मात् । भविष्ये ।‘मासैश्चतुर्भिर्यत् पुण्यं विधिना पूज्य चण्डिकाम् ।तत् फलं लभते वीर नवम्यां कार्त्तिकस्य च ॥
’तथा भविष्ये ।‘माघे मासि तु या शुक्ला नवमी लोकपूजिता ।महानन्देति सा प्रोक्ता सदानन्दकरी नृणाम् ॥
स्नानं दानं जपो होमो देवार्च्चनमुपोषणम् ।सर्व्वं तदक्षयं प्रोक्तं यदस्यां क्रियते नरैः ॥
’तथा कालिकापुराणम् ।‘नवम्यां नववर्षाणि राजन् ! पिष्टाशनो भवेत् ।तस्य तुष्टा भवेद्गौरी सर्व्वकामप्रदा शुभा ॥
’अद्येत्यादि नवम्यान्तिथावारभ्य नव वर्षाणियावत् प्रतिशुक्लनम्यां पिष्टेतरभोजननिवृत्ति-व्रतमिति सङ्कल्पे विशेषः । सर्व्वकामप्रदगौरी-तोषः फलम् ।” इति तिथितत्त्वम् ॥
श्रीराम-नवमीव्यवस्था तच्छब्दे द्रष्टव्या ॥
* ॥
इयं दुर्गा-तिथिः । तत्र तस्याः पूजा कर्त्तव्या । यथा, --ब्रह्मोवाच ।“इयं देवी वरारोहा यातु शैलं हिमाचलम् ।तत्र यूयं सुराः सर्व्वे गत्वा नन्दत माचिरम् ॥
नवम्याञ्च सदा पूज्या इयं देवी समाधिना ।वरदा सर्व्वलोकानां भविष्यति न संशयः ॥
नवम्यां यश्च पिष्टाशी भविष्यति हि मानवः ।नारी वा तस्य सम्पन्नं भविष्यति मनोगतम् ॥
”इति वराहपुराणम् ॥
कार्त्तिकशुक्लनवम्यां जगद्धात्रीपूजाप्रमाणानियथा, --“प्रपूजयेज्जगद्धात्रीं कार्त्तिके शुक्लपक्षके ।दिनोदये च मध्याह्ने सायाह्ने नवमेऽहनि ॥
”इति मायातन्त्रे १७ पटलः ॥
“कुम्भराशिगते चन्द्रे नवम्यां कार्त्तिकस्य च ।उषस्यर्द्धोदितो भानुर्द्दुर्गामाराध्य यत्नवान् ॥
पुत्त्रारोग्यधनं लेभे लोकसाक्षित्वमेव च ।तां तिथिं प्राप्य मनुजः शनिभौमदिने यदि ।प्रपूजयेन्महादुर्गां धर्म्मकामार्थमोक्षदाम् ॥
”इति कात्यायनीतन्त्रे ७८ पटलः ॥
“कार्त्तिके शुक्लपक्षे तु त्रेतायाः प्रथमेऽहनि ।त्रिसन्ध्यं पूजयेद्देवीं दुर्गां सम्पत्प्रवृद्धये ॥
”इत्युत्तरकामाख्यातन्त्रे ११ पटलः ॥
अथ नवमीजातफलम् । यथा, कोष्ठीप्रदीपे ।“विरोधकर्त्ता सुजनैरगम्यःपरापकारार्थमतिः कुशीलः ।आचारहीनः कृपणः कठोरःप्रसूतिकाले नवमी यदि स्यात् ॥
”
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
