| YouTube Channel

नर्मदेश (narmadeza)

 
वाचस्पत्यम्
Sanskrit
नर्मदेश
न०
नर्मदया स्थापित इशो यत्र काशीस्थे शिव-लिङ्गभेदे तदाविर्भवकथा काशीख० ९२ अ० यथा“निशम्येति विधेर्वाक्यं नर्मदा सरिदुत्तमा धातुर्वरंपरित्यज्य प्राप्ता वाराणसीं पुरीम् सर्वेभ्योऽपि हिपुण्येभ्यः काश्यां लिङ्गे प्रतिष्ठिते अपरा तृनुद्दिष्टाकैश्चित् श्रेयस्करी क्रिया अथ सा नर्मदा पुण्याविधिपूर्वं प्रतिष्ठितिम् व्यधात् पिलिम्पिलातीर्थे त्रिपि-ष्टपसमीपतः ततः शम्भुः प्रसन्नोऽभूत् तस्यै नद्यैशुभात्मने वरं वृणीष्व सुभगे! यत्तुभ्यं रोचतेऽनघे! ।सरिद्वरा निशम्येति रेवा प्राह महेश्वरम् किं वरेणेहदेवेश! भृशं तुच्छेन धूर्जटे! निर्द्वन्द्वा त्वत्पदद्वन्द्वेभक्तिरस्तु ममेश्वर! श्रुत्वेति नितरान्तुष्टो रेवागिरस-नुत्तमाम् प्रोवाच सरित्श्रेष्ठे! त्वयोक्तं यत्तथास्तुतत् गृहाण पुण्यनिलये वितरामि वरान्तरम् या-वत्योदृशदः सन्ति तव रोधसि नर्मदे तावत्यो लिङ्ग-रूपिण्यो भविष्यन्ति वरान्मम अन्यञ्च ते वरं दद्यांतमप्याकर्णयोत्तमम् दुष्प्राप्यं यच्च तपसां राशिभिःपरमार्थतः सद्यः पापहरा गङ्गा सप्ताहेन कलि-न्दजा त्र्यह्वा सरस्वती रेवे! त्वन्तु दर्शनमात्रतः ।अपरं वरं दद्यां नर्मदे! दर्शनाघहे भवत्या स्थापितंलिङ्गं नर्मदेश्वरसंज्ञितम् एतल्लिङ्गं महापुण्यं मुक्तिंदास्यति शाश्वतीम् अस्य लिङ्गस्य ये भक्तास्तान् दृष्ट्वा सू-र्यनन्दनः प्रणमिष्यति यत्नेन महाश्रेयोभिवृद्धये ।सन्ति लिङ्गान्यनेकानि काश्यां देवि! पदेपदे परं हिनर्मदेशस्य महिमा कोऽपि चाद्भुतः इत्युक्त्वा देवदेवेशस्तस्मिन् लिङ्गे लयं ययौ नर्मदापि प्रहृष्टाऽऽसीत् पा-वित्र्यं प्राप्य चाद्भुतम् स्वदेशं परिप्राप्ता दृष्टि-मात्राथहारिणी”