| YouTube Channel

नरकमुक्त (narakamukta)

 
Shabdartha Kaustubha
Kannada
नरकमुक्त
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ನರಕಯಾತನೆಯನ್ನು ಅನುಭವಿಸಿದ ನಂತರ ಬಿಡುಗಡೆ ಹೊಂದಿದವನು
शब्दकल्पद्रुमः
Sanskrit
नरकमुक्तः, त्रि, (नरकात् मुक्तः ।) नरकागतः ।यथा, --“नरकात् प्रतिमुक्तस्तु पापयोनिषु जायते ।पतितात् प्रतिगृह्याथ खरयोनिं व्रजेद्बुधः
नरकात् प्रतिमुक्तस्तु कृमिर्भवति पातकी ।उपाध्यायं व्यलीकन्तु कृत्वा श्वा भवति द्विजः
तज्जायां मनसा वाञ्छंस्तद्द्रव्यं वाप्यसंशयम् ।गर्द्दभो जायते जन्तुर्म्मित्रस्यैवापमानकृत्
शत्रोरितरमाक्रुश्य शारिका संप्रजायते ।पितरौ पीडयित्वा तु कच्छपत्वञ्च जायते
भर्त्तुः पिण्डमुपाश्रन्तो हित्वान्यानि सेवयेत् ।सोऽपि मोहसमापन्नो जायते वानरो मृतः
न्यासापहर्त्ता नरकात् विमुक्तो जायते कृमिः ।असूयकश्च नरकान्मुक्तो भवति राक्षसः
विश्वासहर्त्ता नरो मीनयोनौ प्रजायते ।यवधान्यानि हृत्वा तु जायते मूषिको मृतः
परदाराभिमर्षात्तु वृको घोरोऽभिजायते ।भ्रातृभार्य्याप्रसङ्गत्वे कोकिलो जायते नरः
गुर्व्वादिभार्य्यागमनाच्छूकरो जायते नरः ।यज्ञदानविवाहानां विघ्नकर्त्ता भवेत् कृमिः
देवतापितृविप्राणामदत्वा योऽन्नमश्नुते ।प्रमुक्तो नरकाद्वापि वायसः प्रजायते
ज्येष्ठभ्रात्रवमानाच्चः क्रौञ्चयोनौ प्रजायते ।शूद्रश्च ब्राह्मणीं गत्वा कृमियोनौ प्रजायते
तस्यामपत्यमुत्पाद्य काष्ठान्तःकीटको भवेत् ।कृतघ्नः कृमिकः कीटः पतङ्गो वृश्चिकस्तथा
अशस्त्रं पुरुषं हत्वा नरः संजायते खरः ।कृमिः स्त्रीवधकर्त्ता बालहन्तावजायते
भोजनं चोरयित्वा तु मक्षिका जायते नरः ।हृत्वान्नञ्चैव मार्ज्जारस्तिलहृच्चैव मूषिकः
घृतं हृत्वा नकुलः काको मद्गुरमामिषम् ।मधु हृत्वा नरो दंशः पूपं हृत्वा पिपीलकः
अपो हृत्वा तु पापात्मा वायसः संप्रजायते ।हृते कांस्ये हारीतः कपोतो वा प्रजायते
हृत्वा तु काञ्चनं भाण्डं कृमियोनौ प्रजायते ।कार्पासिके हृते क्रौञ्चो वह्निहर्त्ता वकस्तथा
मयूरो वर्णकं हृत्वा शाकं पत्रञ्च जायते ।जीवञ्जीवकतां याति रक्तवस्त्रापहृन्नरः
छुच्छुन्दुरिः शुभान् गन्धान् वंशं हृत्वा शशोभवेत् ।षण्डः कलापहरणे काष्ठहृत् काष्ठकीटकः
पुष्पापहृद्दरिद्रस्तु पङ्गुर्यवापहृन्नरः ।शाकहर्त्ता हारीतस्तोयहर्त्ता चातकः
गृहहृन्नरकान् गत्वा रौरवादीन् सुदारुणान् ।तृणगुल्मलतावल्लीत्वक्सारतरुतां व्रजेत्
एष एव क्रमो दृष्टो गोसुवर्णादिहारिणाम् ।विद्यापहारी मूकश्च गत्वा नरकान् बहून्
असमिद्धेऽग्नौ हुते मन्दाग्निः संप्रजायते ।परनिन्दाकृतघ्नत्वं परमर्म्मावघातनम् ।नैष्ठुर्य्यं निर्घृणत्वञ्च परदारोपसेवनम् ।परस्वहरणाशौचं देवतानाञ्च कुत्सनम्
निकृत्य वञ्चनं नणां कार्पण्यञ्च नृणां बुधः ।उपलक्षणादि जानीयात् मुक्तानां नरकादनु
”प्रसङ्गात् स्वर्गागतलक्षणमप्याह ।“दया भूतेषु संवादः परलोकं प्रतिक्रिया ।सत्यं भूतहिता चोक्तिर्व्वेदप्रामाण्यदर्शनम्
गुरुदेवर्षिपूजा केवलं साधुसङ्गमः ।सत्क्रियाभ्यसनं मैत्री स्वर्गिणां लक्षणं विदुः
अष्टाङ्गयोगविज्ञानात् प्राप्नोत्यात्यन्तिकं लयम्
”इति गारुडे कर्म्मविपाकः २२९ अध्यायः
वाचस्पत्यम्
Sanskrit
नरकमुक्त
पु०
नरकान्मुक्तः नरकान्मुक्ते “कपूयचरणाःकपूयां योनिमापद्येरन्” श्रुतिः अनुशयशब्दे १८८ पृ०दृश्यम् गारुडे २२९ अ० ततो मुक्तानां पापविशेषात्योनिभेदप्राप्तिरुक्ता यथा“नरकात् प्रतिमुक्तस्तु पापयोनिषु जायते पतितात्प्रतिगृह्याथ खरयोनिं व्रजेद्बुधः नरकात् प्रतिमुक्तस्तुकृमिर्भवति पातकी उपाध्याये व्यलीकन्तु कृत्वा श्वाभवति द्विजः तज्जायां मनसा वाञ्छंस्तद्द्रव्यं वाप्यसं-शयम् गर्दभो जायते जन्तुर्मित्रस्यैबापमानकृत् शत्रो-वितरमाक्रुश्य शारिका संप्रजायते पितरौ पीडयित्वा तुकच्छपत्वञ्च जायते भर्त्तुः पिण्डमुपाश्नन् यो हित्वाऽन्यानि सेवयेत् सोऽपि मोहसमापन्नो जायते बा-नरो मृतः न्यासापहर्त्ता नरकात् विमुक्तो जायतेकृमिः असूयकश्च नरकान्मुक्तो भवति राक्षसः विश्वा-सहर्त्ता नरो मीनयोनौ प्रजायते यवधान्यानिहृत्वा तु जायते मूषिको मृतः परदारामिमर्षात्तु वृकोषोरोऽभिजायते भ्रातृभार्य्याप्रसङ्गत्वे कोकिलो जायतेनरः गुर्वादिभार्थ्यागमनाच्छूकरो जायते नरः यज्ञ-दानविवाहानां विघ्नकर्त्ता भवेत् कृमिः देवतापितृ-विप्राणामदत्त्वा योऽन्नमश्नुते प्रमुक्तो नरकाद्वापि वा-यसः प्रजायते ज्येष्ठभ्रात्रवमानाच्च क्रौञ्चयोनौप्रजायते शूद्रश्च ब्राह्मणीं गत्वा कृभियोनौ प्रजायते ।तस्यामपत्यमुत्पाद्य काष्ठान्तः कीटको भवेत् कृतघ्नःकृमिकः कीटः पतङ्गो वृश्चिकस्तथा अशस्त्रं पुरुषंहत्वा नरः संजायते खरः कृमिः स्त्रीषधकर्त्ता चबालहन्ता प्रजायते भोजनं चोरयित्वा तु मक्षिकाजायते नरः हृत्वान्नञ्चैव मार्ज्जारस्तिलहृच्चैवमूषिकः घृतं हृत्वा नकुलः काको मद्गुरमामिषम् ।मधु हृत्वा नरो दंशः पूपं हृत्वा पिपीलकः अपोहृत्वा तु पापात्मा वायसः संप्रजायते हृते कांस्ये चहारीतः कपोतो वा प्रजायते हृत्वा तु काञ्चनं भाण्डंहमियोनौ प्रजायते कार्पासिके हृते क्रौञ्चो वह्नि-हर्त्ता वकस्तथा मयूरो वर्णकं हृत्वा शाकं पत्रञ्चजायते जीवञ्जीवकतां याति रक्तवस्त्रापहृन्नरः ।छुच्छुन्दुरिः शुभान् गन्धान् वंशं हृत्वा शशो भवेत् ।षण्डः कलापहरणे काष्ठहृत् काष्ठकीटकः पुष्पाप-हृद्दरिद्रस्तु पङ्गुर्यवापहृन्नरः शाकहर्त्ता हारीत-स्तोयहर्त्ता चातकः गृहह्णत् नरकान् गत्वारौरवादीन् सुदारुणान् तृणगुल्मलतावलीत्वकसारतरुतां व्रजेत् एष एव क्रमो दृष्टो गोसुवर्णादि-हारिणाम् विद्यापहारी मूकश्च गत्वा नरकान्बहून् असमिद्धेऽग्नौ हुते मन्दाग्निः संप्रजायते ।परनिन्दाकृतघ्नत्वं परमर्मावघातनम् नैष्ठुर्य्यं निर्घृण-त्वञ्च परदारोपसेवनम् परस्वहरणाऽशौचं देवता-नाञ्च कुत्सनम् निकृत्या वञ्चनं नॄणां कार्पण्यञ्च नृणांबुधः उपलक्षणाद्विजानीयात् मुक्तानां नकरादनु”प्रसङ्गात् स्वर्गादागतलक्षणं तत्रैव यथा “दयाभूतेषु संवादःपरलोकं प्रति क्रिया सत्यं भूतहिता चोक्तिर्वेदप्रामाण्यदर्शनम् गुरुदेवर्षिपूजा केवलं साधुसङ्गमः ।सत्क्रियाभ्यसनं मैत्री स्वर्गिणां लक्षणं विदुः अष्टाङ्ग-योगविज्ञानात् प्राप्नोत्यात्यन्तिकं लयम्” अधिकं कर्म-विपाक शब्दे १७४२ पृ० दृश्यम्