| YouTube Channel

नग्नः (nagnaH)

 
Apte Hindi
Hindi
नग्नः
पुं*
- -
नंगा भिक्षु
नग्नः
पुं*
- -
क्षपणक
नग्नः
पुं*
- -
पाखंडी
नग्नः
पुं*
- -
"सेना के साथ रहने वाला भाट, घूमता हुआ भाट"
Wordnet
Sanskrit
Synonyms:
कटभी, अनलप्रभा, कुकुन्दनी, पारापतपदी, पीततैला, कनकप्रभा, गीर्लता, ज्योतिर्लता, ज्योतिष्का, तेजस्विनी, तेजोह्वा, तिक्तका, निफला, पण्या, पारावतपदी, पिण्या, पूतितैला, बहुरसा, लगणा, नगणा, लता, लतापुटकी, लवणकिंशुका, श्लेष्मघ्नी, सारस्वती, सुपिङ्गला, स्फुटरङ्गिणी, स्फुटवल्कली, सुमेधा, सुवर्णलता, सुवेगा, स्वर्णलता, दीप्तः, लवणः, शृङ्गी, नग्नः
noun
क्षुपविशेषः
"कटभ्याः वर्णनं सुश्रुतेन कृतम्"
अमरकोशः
Sanskrit
Word: नग्नः
Root: नग्न
Gender: पुं
Number: all
Meaning(s):
new
bare
nude
naked
desert
desolate
naked mendicant
girl before menstruation
bard accompanying an army
Balloon plant [Cardiospermum Halicacabum - Bot.]
Shloka(s):
3|1|39|1 तूष्णींशीलस्तु तूष्णीको नग्नोऽवासा दिगम्बरे। (विशेष्यनिघ्नवर्गः)
Synonym(s):
3|1|39|1 नग्नः (नग्न) (पुं) new, bare, nude, naked, desert, desolate, naked mendicant, girl before menstruation, bard accompanying an army, Balloon plant [Cardiospermum Halicacabum - Bot.]
3|1|39|1 (नग्न) (स्त्री) new, bare, nude, naked, desert, desolate, naked mendicant, girl before menstruation, bard accompanying an army, Balloon plant [Cardiospermum Halicacabum - Bot.]
3|1|39|1 नग्नम् (नग्न) (नपुं) new, bare, nude, naked, desert, desolate, naked mendicant, girl before menstruation, bard accompanying an army, Balloon plant [Cardiospermum Halicacabum - Bot.]
3|1|39|1 अवासाः (अवासस्) (पुं)
3|1|39|1 अवासाः (अवासस्) (स्त्री)
3|1|39|1 अवासः (अवासस्) (नपुं)
3|1|39|1 दिगम्बरः (दिगम्बर) (पुं) darkness, naked mendicant, sky clothed i.e. quite naked
3|1|39|1 (दिगम्बर) (स्त्री) darkness, naked mendicant, sky clothed i.e. quite naked
3|1|39|1 दिगम्बरम् (दिगम्बर) (नपुं) darkness, naked mendicant, sky clothed i.e. quite naked
Related word(s):
जातिः मनुष्यः
शब्दकल्पद्रुमः
Sanskrit
नग्नः, त्रि, (नजते स्मेति नज ह्नियि + अक-र्म्मकत्वात् कर्त्तरि क्तः “ओदितश्च ।” ।४५ इति निष्ठातस्य नः ।) विवस्त्रः नेंटोइति भाषा
तत्पर्य्यायः अवासाः दिगम्बरः३ इत्यमरः ३९
तथा भृगुः ।“विकक्षाऽनुत्तरीयश्च नग्नश्चावस्त्र एव वा ।श्रौतं स्मार्त्तं तथा कर्म्म नग्नश्चिन्तयेदपि
विकक्षः परिधानासंवृतकच्छः तथा योगि-याज्ञवल्क्यः ।“परिधानाद्वहिःकक्षा निबद्धा ह्यासुरी भवेत्
”स्मृतिः ।“वामे पृष्ठे तथा नाभौ कक्षत्रयमुदाहृतम् ।एभिः कक्षैः परीधत्ते यो विप्रः शुचिःस्मृतः
”बौधायनः ।“नाभौ धृतञ्च यद्बस्त्रमाच्छादयति जानुनी ।अन्तरीयं प्रशस्तं तदाच्छन्नमुभयोस्तयोः
”आचारचन्द्रिकायाम् ।“द्विकच्छः कच्छशेषश्च मुक्तकच्छस्तथैव ।एकवासा अवासाश्च नग्नः पञ्चविधः स्मृतः
”इत्याह्निकतत्त्वम्
“न नग्नां स्त्रियमीक्षेत पुरुषं वा कदाचन ।न मूत्रं पुरीषं वा वै संस्पृष्टमैथुनम्
नोच्छिष्टः संविशेन्नित्यं नग्नः स्नानमाचरेत् ।न गच्छेन्न पठेद्बापि चैव स्वशिरः स्पृशेत्
”इति कूर्म्मपुराणे उपरिभागे १५ अध्यायः
पारिभाषिकनग्ना यथा, --“येषां कुले वेदोऽस्ति शास्त्रं नैव व्रतम् ।ते नग्नाः कीर्त्तिताः सद्भिस्तेषामन्नं विगर्हितम्
”इति मार्कण्डेयपुराणे सदाचाराध्यायः
“ऋग्यजुःसामसंज्ञेयं त्रयी वर्णावृतिर्द्विज ! ।एतामुजझति यो मोहात् नग्नः पातकीस्मृतः
यस्तु संत्यज्य गार्हस्थ्यं वानप्रस्थो जायते ।परिव्राडपि मैत्रेय ! नग्नः पापकृन्नरः
”इति विष्णुपुराणे १८ अध्यायः
नग्नः,
पुं,
(नज + क्तः निष्ठातस्य नः ।) वन्दी ।(यथा, नैषधे १९ २१ ।“रतिरतिपतिद्वैतश्रीकौ धुरं बिभृमस्तरांप्रियवचसि यन्नग्नाचार्य्या वदामतमां ततः
”)क्षपणकः इति विश्वमेदिन्यौ
शेषस्य पर्य्यायः ।नग्नाटकः निर्ग्रन्थकः भदन्तः दिगम्ब-रकः इति हारावली ११५