| YouTube Channel

नगरमार्ग (nagaramArga)

 
Apte Hindi
Hindi
नगरमार्गः
पुं*
नगरम्-मार्गः -
"प्रधान सड़क, राजपथ"
Shabdartha Kaustubha
Kannada
नगरमार्ग
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಪಟ್ಟಣದ ರಸ್ತೆ /ನಗರದೊಳಗಿನ ರಸ್ತೆ /ರಾಜಮಾರ್ಗ
प्रयोगाः - > "राजमार्गास्तु कर्तव्याः चतुर्दिक्षु नृपालयात् उत्तमो राजमार्गस्तु त्रिंशद्धस्तमितो भवेत् मध्यमो विंशतिकरो दशपञ्चकरोऽधमः ॥"
L R Vaidya
English
nagara-mArga {% m. %} a principal road.
वाचस्पत्यम्
Sanskrit
नगरमार्ग
पु०
त० राजमार्गे तत्करणप्रकारादि औशन-सनीति परिशिष्टे उक्तं यथा “राजमार्गास्तु कर्त्तव्या-चतुर्दिक्षु नृपालयात् उत्तमो राजमार्गस्तु त्रिंशद्धस्त-मिता भवेत् मध्यमो षिंशतिकरो दशपञ्चकरोऽधमः ।पण्यमार्गास्तथा चैत्ये पुरग्रामादिषु स्थिताः करत्रया-त्मिका पद्या वीथिः पञ्चकरात्मिका मार्गो दशकरःप्रोक्तो ग्रामेषु नगरेषु प्राक्पश्चाद्दक्षिणोदक्स्थान्ग्राममध्यात् प्रकल्पयेत् पुरं दृष्ट्वा राजमार्गान् सुबहून्कल्पयेन्नृपः वीधिं पद्यां हि राजधान्यांप्रकल्पयेत् षड्योजनान्तरेऽरण्ये राजमार्गन्तथो-त्तमम् कल्पयेद् मध्यमं मध्ये तयोर्मध्ये तथाऽधमम्दशहस्तीत्मकं नित्यं ग्रामे ग्रामे नियोजयेद् कूर्म-पृष्ठा मार्गभूमिः कार्य्या ग्राम्यैः सुपेतुका कुर्य्यान्मा-र्गान् पार्श्वखातान् निर्गमार्थं जलस्य राजमार्ग-मुखानि स्युर्गृहाणि सकलान्यपि गृहपूर्वे सदावीथिं मलनिर्हरणस्थलम् पङ्क्तिद्वयगतानोह गृ-हाणि कारयेत् तथा भार्गान् सुधाकर्करैर्वा घटितान्प्रतिवत्सरम् अभियुक्तनिरुद्धैर्वा कुर्य्याद्ग्रामजनै-र्नृपः ग्रामद्वयान्तरे चैव पान्त्रशालां प्रकल्पयेत् ।नित्यं सम्मार्जितां चैव ग्रामपैश्च सुगोपिताम् तत्रा-गतं तु संपृच्छेत् पान्यं शालाधिपः सदा प्रयातोऽसिकुतः स्यानात् क्व गमित्यसि तत् वद ससहायोऽसहायोवा सशस्त्रः किमबाहनः का जातिः किं कुलं नामस्थितिः कुत्रास्ति ते चिरम् इति पृष्ट्वा लिखेत् सायंशस्त्रं तस्य प्रगृह्य सावधानमना भूत्वा स्वापंकुर्वीत स्वापयेत् तत्रस्थान् गणयित्वा तु शालाद्वारंपिधाय संरक्षयेद् यामिकैस्तु प्रभाते तान् प्रबो-धयेत् अजानरवृषाश्वोष्ट्रगजेभ्यः क्रमतो हरेत् ।भृतिं पणार्द्धवृद्ध्या तु रक्षार्थं मार्गशालयोः शस्त्रंदद्याच्च गणयेत् द्वारमुद्द्वाट्य मोचयेत् कुर्य्यात् सहायंसीमान्तं तेषां ग्रामजनं सदा”