| YouTube Channel

ध्वजभङ्गः (dhvajabhaGgaH)

 
शब्दकल्पद्रुमः
Sanskrit
ध्वजभङ्गः,
पुं,
(ध्वजस्य मेढ्रस्य भङ्गः ।) क्लीवत्व-जनकरोगविशेषः तस्य निदानं यथा, --“अत्यम्ललवणक्षारविरुद्धाशनभोजनात् ।तथाम्बुपानाद्बिषमात् पिष्टान्नगुरुभोजनात्
दधिक्षीरानूपमांससेवनाद्ब्याधिकर्षणात् ।कल्याणीगमनाच्चापि वियोनिगमनादपि
दीर्घरोम्नीं चिरोत्सृष्टां तथैव रजस्वलाम् ।दुर्गन्धां दुष्टयोनिञ्च तथैव परिसुताम्
ईदृशीं प्रमदां मोहात् यदि गच्छति मानवःचतुःपदाभिगमनाच्छेफसश्चाभिघाततः ।अधावनाच्च मेढ्रस्य शस्त्रदन्तनखक्षतात्
काष्ठप्रहारनिष्पेषशूकानाञ्च निषेवणात् ।रेतसश्च प्रतीघातात् ध्वजभङ्गः प्रवर्त्तते
”इति चरकः
*
तस्य चिह्नं यथा, --“शुक्रे चिरात् प्रसिच्येत शुक्रं शोणितमेव वा ।तोदोऽत्यर्थं वृषणयोर्मेढ्रं धूपायतीव
”इति वाभटः
*
अपि ।“तैस्तैर्भावैरहृद्यैश्च रिरंसोर्मनसि क्षते ।ध्वजः पतत्यधो नॄणां क्लैव्यं सद्यः प्रजायते
भक्ष्यैरम्लोष्णलवणैरतिमात्रोपसेवितैः ।सौम्यधातुक्षयाद्दुष्टः क्लैव्यं तदपरं स्मृतम्
अतिव्यवायशीलो यो वाजिक्रियारतः ।ध्वजभङ्गमवाप्नोति शुक्रक्षयहेतुकम्
असाध्यं सहजं क्लैव्यं मर्म्मच्छेदोद्भवञ्च यत् ।असाध्यानां विशिष्टानां कार्य्यो वाजिकरोविधिः
तस्य चिकित्सा यथा, वैद्यके ।“सुवर्णासुवत्साशुभाधेनुधन्या-घृतं योगयोगे प्रशस्तं सप्रस्थम् ।मृदौ वा दराग्नौ पचेत् पाकशूर-स्तदा तेजपत्रं हरिद्रासुपिष्टम्
विधौ शुद्धिहेतौ समुस्तं सुपिष्टंविधेयं सुगन्धाय वृद्धोपदेशात् ।समूलाश्वगन्धासप्रस्थं विचूर्णंशुभं वारि दत्त्वा गुणं वेदयुक्तम्
यदा शेषभूतं तदा योगयोगेपचेत् पाकविज्ञो भृशं दर्व्विचालात् ।पचेद्गाविदुग्धं घृतस्यापि तुल्यंविदारीं सप्रस्थां तथा तेन वैद्यः
तथा शाल्मलीतोयदत्तं सप्रस्थंवितार्य्यावतिष्ठेद्घृतं योगराजः