| YouTube Channel

ध्यानं (dhyAnaM)

 
Hindi
Hindi
ध्यान
शब्दकल्पद्रुमः
Sanskrit
ध्यानं,
क्ली,
(ध्यै + भावे ल्युट् ।) चिन्तनम् (यथा, मनुः १२ ।“तस्मिन्नण्डे भगवानुषित्वा परिवत्सरम् ।स्वयमेवात्मनो ध्यानात्तदण्डमकरोद्द्विधा
”)धारणाविषये एकप्रत्ययसन्ततिः इति हेम-चन्द्रः २३४
अद्बितीयवस्तुनि विच्छिद्यविच्छिद्यान्तरेन्द्रियवृत्तिप्रवाहः इति वेदान्त-सारः
*
यथा, विष्णुपुराणे ।“तद्रूपप्रत्ययैवैकसन्ततिश्चान्यनिस्पृहा ।तद्ध्यानं प्रथमैरङ्गैः षड्भिर्निष्पाद्यते नृप !
”अस्यार्थः “तद्रूपस्य धारणासिद्धस्य वस्तुनःप्रत्यया यस्यां सन्ततौ सा एकावच्छिन्नासन्ततिः अन्यनिस्पृहा विषयान्तरेणाव्यव-धीयमाना विजातीयप्रत्ययान्तरितः सजातीय-प्रत्ययप्रवाहो ध्यानमित्यर्थः तच्च प्रथमैर्यमा-दिभिर्धारणान्तैः षड्भिरङ्गैर्निष्पाद्यते ।” इतितट्टीका
*
श्रीकृष्ण उवाच ।“सर्व्वे देवाः प्राकृतिका यावन्तो मूर्त्तिधारिणः ।अहमात्मा नित्यदेही भक्तध्यानानुरोधतः
”इति ब्रह्मवैवर्त्ते जन्मखण्डम्
ब्रह्मचिन्ता यथा, गारुडे ४९ अध्याये ।“ब्रह्मात्मचिन्ता ध्यानं स्यात् धारणा मनसोधृतिः ।अहं ब्रह्मेत्यवस्थानं समाधिर्ब्रह्मणः स्थितिः
”अपि ।“प्राणायामैर्द्वादशभिर्यावत्कालो हृतो भवेत् ।यस्तावत्कालपर्य्यन्तं मनो ब्रह्मणि धारयेत् ।तस्यैव ब्रह्मणा प्रोक्तं ध्यानं द्वादश धारणाः
द्वाद्शध्यानपर्य्यन्तं मनो ब्रह्मणि यो नरः ।तुष्टे तु यतो मुक्तः समाधिः सोऽभिधीयते
ध्येयान्न चलते यस्य मनोऽभिध्यायतो भृशम् ।प्राप्यावधिकृतं कालं यावत् सा धारणा स्मृता
ध्येये सक्तं मनो यस्य ध्येयमेवानुपश्यति ।नान्यं पदार्थं जानाति ध्यानमेतत् प्रकीर्त्तितम्
ध्येये मनोनिश्चलतां याति ध्येयं विचिन्तयन् ।यत्तद्ध्यानं परं प्रोक्तं मुनिभिर्ध्यानचिन्तकैः
ध्येयमेव हि सर्व्वत्र ध्याता तल्लबतां गतः ।पश्यति द्वैतरहितं समाधिः सोऽभिधीयते
”इति गारुडे २४० अध्यायः