| YouTube Channel

धैर्य्यं (dhairyyaM)

 
शब्दकल्पद्रुमः
Sanskrit
धैर्य्यं,
क्ली,
(धीरस्य भावः कर्म्म वा धीर +व्यञ् ।) धीरता धीरस्य भाव इत्यर्थे ष्ण्य-प्रत्ययः
तस्य लक्षणं यथा, --“स्थिरचित्तोन्नतिर्या तु तद्धैर्य्यमिति कीर्त्त्यते
”इत्युज्ज्वलनीलमणिः
(इदं नायकसत्त्वजगुणानामन्यतमः यथा, साहित्यदर्पणे ५८ ।“शोभा विलासो माधुर्य्यं गाम्भीर्य्यं धैर्य्यतेजसी ।ललितौदार्य्यमित्यष्टौ सत्त्वजाः पौरुषा गुणाः
”तल्लक्षणं यथा, तत्रैव ६३ ।“व्यवसायादचलनं धैर्य्यं विघ्ने महत्यपि
”उदाहरणं यथा, --“श्रुताप्सरोगीतिरपि क्षणेऽस्मिन्हरः प्रसङ्ख्यानपरो बभूव ।व्यात्मे श्वराणां हि जातु विघ्नाःसमाधिभेदप्रभवो भवन्ति
”)